कादम्बरी /372
This page has not been fully proofread.
चन्द्रोदयः ]
पूर्वभागः ।
३३९
कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अंवमुच्य विनयम्,
अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्,
अशी कृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य
ग्राहयामि पाणिम्, एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षाव-
लम्बनद्वारेण मृत्युमङ्गीकरोम्येवमंपि प्रथमं तावत्स्वयमागेतस्य प्रथमप्रणयिनस्तत्रभवतः
कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्रा-
णविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत्, इत्येवमुच्चारयन्त्यामेव मयि
चन्द्रोदयजन्मना विरलविरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा धूसरतां वासवी
दिगयासीत् ।
ततः शशिकेसैरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा•
यदीति । यदि तावत्स्वयमेव । कुमारानुसरणमननुसरणं चेति कोटिद्वयम्, तृतीयं पुनरपरमिति किंचिद्
द्वारमाश्रित्य गूढाभिसंधिः । आये त्वाह - इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय,
धैर्य साहसमुत्सृज्य दूरीकृत्य, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापैवादं कौली नमचिन्तयित्वाऽध्यात्वा
सदाचारं शोभनानुष्ठानमतिकम्योल्लवय, शीलं परपुरुषेष्वनभिरतिस्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्य-
नेकार्थः । तदुल्लङ्ख्यातिक्रम्य, कुलमभिजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमङ्गीकृत्य स्वीकृत्य, रागेण
कामरागेणान्धा वृत्तिर्वर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताऽश्ला-
घिता खयमात्मनोपगम्य समीपे गत्वा पाणि ग्राहयामि हस्तग्रहणं करोमि । एवममुना प्रकारेण गुरुजनाः पूज्य-
जना मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । स त्वनुचित इति शेषः । अननुसरणमभिप्रेत्याह-
अथेति । अथ धर्मानुरोधादितर: पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं व्यवरोप-
णमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमप्रणयिन आद्य स्नेहवतस्तत्र-
भवतः पूज्यस्य कपिजलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह - यदीति ।
यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राण विपत्तिर्जीवितनाश उपजायते भवेत, मुनिजनवध-
जनितं तदपि महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्योदय उद्गमस्तस्मा-
जन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन । तुच्छतुच्छेनेत्यर्थः । एवंविधेनालोकेन प्रका-
शेन । केन कॆव । कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वासवी दिक्प्राककु-
ब्धूसरतामीषत्पाण्डुताम् । 'ईषत्पाण्डस्तु धूसरः' इति कोशः । अयासीदप्रापत् ।
-
तत इति । ततो दिखधूसरणानन्तरमिन
शशाङ्कतेजसा पाण्डतां श्वेततामापाद्यमानं विधीयमानं
पश्चिमेर दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुत्वसाम्येनाह - शशीति ।
शश्येव विदारणकर्तृत्वात्केसरी' तेन विदार्यमाणो भिद्यमानो यः कृष्णत्वसाम्यात्तम एव करी तस्य कुम्भौ
शिरसः पिण्डौ तयोः संभव उत्पत्तिर्यस्यैवंभूतेन मुक्ताफलानां मौक्तिकानां क्षोदेनेव चूर्णेनेव धवलतो शुभ्र-
तामुपनीयमानं प्राप्यमाणम् । उदयगिरिसंबन्धिनो ये सिद्धा गन्धर्व विशेषा विद्यासिद्धा वा द्वेषां याः सुन्दर्यः
टिप्प० - 1 लोककृतां निन्दामिति सरलोऽर्थः । 2 पुनः सैव भापत् ! प्रापत् इत्येवोचितम् ।
3 अव्युत्पन्नोचितमिदम् । 'इतरत्' इत्येव पाठः । 4 टीकाकारबुद्धिसहशोयं पाठः । वास्तवे तु - 'केसरि-
करनखरविदार्यमाण' इत्येव पाठः ।
पाठा० १-१ उन्मुच्य. २ आगत्य, ३ मय्यासन्न, ४ केसरिकर,