This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
मरव्यग्रपाणिना कुब्जकिरातबैधिरवामनवर्षवर कलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे
द्वारदेशे कथमध्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभ
वनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमाचेष्टितमिति शून्यहृदया सर्वे
 
नालक्षयम् ।
 
गतायां च सैत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजी वितेश्वरे चक्र-
बाकसुहृदि सवितरि, लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलवनेषु, नीलाय-
माने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणावष्टभ्यमाने
जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् – 'अयि तैरलिके, कथं न पश्यसि
दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविहलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमैस्मि-
ज्ञातुम् । उपदिशतु मे भवती यदत्र सांप्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः
 
आगृहीतेति । आ समन्ताद्गृहीता आत्तास्तोम्बूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली,
कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् । चामर इति । चामरैर्वालव्यजनैर्व्यप्र आकुलः
पाणिर्हस्तो यस्य स तेन । कुन इति । कुन्जः खर्वः, किरातः स्वल्पतनुः, बधिरोऽकर्णः, वामनः प्रसिद्धः,
वर्षवरः षण्ढः । 'कलमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । 'संवीते रुद्धमाटते' इति कोशः,
क्वचित् 'अनुमत' इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति । अम्बा तु जननी तु मत्स
मीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वभवनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र
मद्गृह आगत्य किं कृतं विहितम्, किमभिहितं किं कथितम् किमाचेष्टितं किमाचरितम् इति सर्वमहं
शून्यहृदयोद्विग्नचित्ता नालक्षयं न ज्ञातवती ।
 
2
 
>
 
तस्यामम्बायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यता-
मूढाहं तामेव तरलिकामपृच्छं पृष्टवतीत्यन्वयः । अथ सूर्य विशेषयमाह - हारीतेति । हारीतो मृदङ्कुरः
'हारिल' इति लोकप्रसिद्धः तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी
कमलिनी तस्या जीवितेश्वरः प्राणनाथस्वस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मि-
सति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । कमलवनेषु नलिनकाननेषु
हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्वदिग्भागे नीलायमाने सति । पुनः कस्मिन् । तिमि
रेणान्धकारेण जीवलोकेऽवष्टभ्यमान आश्विष्यमाने । केनेव । महाप्रलयस्य यो जलधिः समुद्रस्तस्य पयःपूरे-
णेव । पयःपूरस्य श्वेतत्वादुत्प्रेक्षा न संभवतीयाह - पातालेति । पातालं वडवामुखं तस्य पङ्कः कर्दम स्तेन
कलुषेण मलिनीकृतेन । अन्वयस्तु प्रागेवोक्तः । अयीति कोमलामन्त्रणे । हे तरलिके, मे मम हृदयं कथं न
पश्यसि नावलोकयसि । कीदृशम् । दृढमत्यर्थमाकुलं व्याकुलम् । तथाप्रतिपत्तिः सर्वस्मिन्विषयेऽरुचिरनिश्चयो
वा तेन विह्वलानि व्याकुलानि चेन्द्रियाणि करणानि । अतोऽस्मिँन्विषये पुण्डरीक विषयेऽण्वपि कर्तव्यं कृत्यं
स्वयं ज्ञातुमहं नालं न समर्था । यतोऽयं कपिजलस्त्वत्समक्षमेव त्वत्प्रत्यक्षमेवैवममुना प्रकारेणाभिधाय
कथयित्वा गतः । अतोऽस्मिन्नर्थे यत्सांप्रतं योग्यं तद्भवत्युपदिशतु कथयतु । अथोपदेशप्रकारमाह-
टिप्प० - 1 वस्तुतस्तु 'विकल - मूक' इति पाठः । 2 सर्वमिदमव्युत्पत्तिकृतम् । 'अनुगतेन' इत्येव
पाठो मनोहरः, प्रमाणं च हृदयम् । 3 'अस्मिन्' इति केवलेन न बुध्यते प्रकृतो विषयः, न चानुकूल नि
अन्थबन्धाक्षराणि । अतः 'नालमस्मि' इत्येव पाठः । ज्ञातुं न समर्थाऽस्मि इति तदर्थः ।
 
पाठा०-१ बर्षरकलमूक; वर्लरविकलमूक. २ अनुगतेन. ३ तस्याम्. ४ तरलिके न पश्यसि ५ शून्यानि, ६ अस्ति,