This page has not been fully proofread.

महाश्वेताया स्वकर्तव्यविचारः ]
 
पूर्वभागः ।
 
मामिव तमप्यनुषन्नाति, यत्सत्यमेतेनं मे संतापयतोप्यंशेन दर्शितानुकूलता। यदि च सत्य-
मेव तस्येदृशी दशा वर्तते, ततः किंमिव नोपकृतमनेन, किं वा नोपपादितम्, को वानेनापरः
 
,
 
,
 

 

 
समानो बन्धुः कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्नि-
क्रामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम् तस्य वा पुरः किमभिधातव्यम्' इत्येवं
विचारयन्त्येव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् - 'भर्तृदारिके, त्वमॅस्वस्थशरीरेति
परिजनादुपलभ्य महादेवी प्राप्ता' इति । तथ श्रुत्वा कपिञ्जलो महाजनसंमभीरुः सत्वर-
मुत्थाय 'राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमुपग-
च्छति दिवसकरः । तद्गच्छामि। सर्वथाभिमसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः ।
एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः प्रविशता
कनकवेत्रलताकरेण प्रतीहारिजनेन कबुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्गरागेण चा-

 
तमपि पुण्डरीकमप्यनुर्बध्नाति पीडयति । यत्सत्यमिति । तदेतेन मदनेन मां संतापयतापि अंशेन तत्संता-
पेन मे मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानु-
कूलत्वं विशदयन्नाह – यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, तसोऽनेन मदनेन किमिव
नोपकृतं किमुपकारो न कृतः । किं वा नोपपादितं किं वा न निष्पादितम् । को वेति । अनेन समानोऽपरः
को वा बन्धुः । कपिलवचसि सत्यतां दृढीकुर्वन्नाह - कथं वेति । प्रशान्ताकृतेः कपिञ्जलस्यास्माद्वदना-
त्कथं वितथाऽसत्या भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् ।
तस्य कपिजलस्य वा पुरोऽग्रे किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्येव ससंभ्रमा प्रतीहारी
प्रविश्य प्रवेशं कृत्वा । गृहमिति शेषः । ममेत्यकथयदवोचत् । किं तदित्याह – भर्त्रिति । हे भर्तृदा -
रिके, लमस्वैस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलभ्य प्राप्य महादेवी गौर्यभिधाना
लदम्बा प्राप्तागता । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्य कपिञ्जलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्यो-
न्यसंघट्टस्तस्माद्भीरुः सत्वरं शीघ्रमुत्थाय । हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः
प्राप्तः । भगवांश्चेति । भुवनत्रयस्य विष्टपत्रयस्य चूडामणिरिव चूडामणिः शोभाकारित्वाद्भगवान्दिवसकरः
श्रीसूर्योऽस्तमुपगच्छत्यस्तमनं प्रयाति । तदिति । तत्तस्मात्कारणाद्वच्छामि व्रजामि । सर्वथेति । सर्वप्र-
कारेणाभिमतो वाञ्छितो यः सुहृन्मित्रं तस्य प्राणा असवस्तेषां रक्षा त्राणं सैव दक्षिणा मदागमनपूजा तदर्थ-
मयमञ्जलिः पाणिसंयोजनरूप उपरचितो निबद्धः । एष इति । एष सुहृत्प्राण रक्षात्मको मम मे परम उत्कृष्टो
विभव ऐश्वर्यमित्यभिधाय प्रतिवचनकालं प्रत्युत्तरसमयमप्रतीक्ष्यैव प्रतीक्षामकृत्वैवाम्बाया गौर्यभिधानायाः
पुरोयायिनाप्रगामिना प्रविशता प्रवेशं कुर्वता परिजनेन परिच्छदेन सर्वतः समन्तात्संरुद्धे आवृते द्वारदेशे
प्रतोलीदेशे कथमपि महता कष्टेनावाप्त निर्गमः प्राप्तबहिर्गमनः प्रययावित्यन्वयः । अथ॒ परिजनं विशिष्टि
प्रतीति । प्रतीहारिणी द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन । कनकेति । कनकस्य सुवर्णस्य वेत्रलता
यष्टिविशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुव्रीहौ' इत्यनेन सप्तम्यन्तस्य
पूर्वनिपातः । कञ्चुकीति । कचुकिनां सौविदलानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः' इत्यनेकार्थः ।
 

 

 
टिप्प० - 1 अनुगच्छति, तदुपर्यपि स्वाऽऽवेशं स्थापयतीत्याशयः । 2 अपरिसीमं मौढ्यम् । नेढुं
प्रतिहारी विचारयति । अतः 'विचारयन्त्यामेव' इति पाठः । 'मयि' इति शेषः । 3 अप्रकृतिस्थमित्युचितम् ।
4 हन्त धिग्वैधेयम् । एष प्रणामाञ्जलिरेव मे परमो विभवः, नेतः परं मे ऐश्वर्यं यत्समर्प्य त्वां प्रसादयेय-
मित्यर्थः । 5 पूर्व स्त्रीलिङ्ग उपक्रान्तः - ('ससंभ्रमा प्रतीहारी' इति), अत एव अत्रापि 'प्रतीहारीजनेन'
इत्येव पाठः । 6 न जाने क्वत्यं चिन्तयति । पाणिनीये तु - 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपातः ।
 

 
पाठा० - १ अनेन. २ कियताप्यंशेन, अपि कियताप्यंशेन ३ दशा, ततः ४ प्रतिकर्तव्यम् ५ असुरस्य, ६ गृहीत,
४३ का०