कादम्बरी /37
This page has been fully proofread twice.
सुभाषित हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् ।
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥ ७ ॥
स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् ।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥ ८ ॥
हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः ।
निरन्तरश्लेषघनाः सुजातयो महास्रजश्चम्पककुड्मलैरिव ॥ ९ ॥
बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् ।
अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥ १० ॥
कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्द्येन गतागतावरोधका भवन्तीति ।
उत्तरार्धेन साधून्स्तौति — सन्तः सुजनास्तु साधुध्वनिभिर्मनो- हारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं वा, मनश्चित्तं हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नूपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां चरणप्रक्षेपे प्रक्षेपेङ साधुध्वनिभिर्मञ्जुलसिञ्जितै- र्हृदयहारिणो भवन्तीत्युपमा ॥ ६ ॥
सुभाषितमिति । सुभाषितं सुकाव्यादि हारि मनोहार्यपि दुर्जनस्य खलस्य गलात् कण्ठान्निगरणादधो न विशति न गच्छति। हृदयशून्यत्वादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभाषितं सज्जनो गुणग्राहको हृदयेन स्वान्तेन धत्ते धारयति । स हृदयगतत्वान्न कदाचिद्विस्मरतीति भावः । यथा हरिः विष्णुर्नारायणो हृदयेन वक्षःस्थलेनातिनिर्मलं स्वच्छं महारत्नं कौस्तुभं दधाति ॥ ७ ॥
स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन शृङ्गारादिना कृत्वा जनस्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं यस्मिंस्तत्कौतुकाधिकम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीतिं करोति जनयति । किंभूता । स्फुरदिति । स्फुरच्चञ्चत्कलो मधुरो य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला
मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । 'शय्या तल्पे शब्दगुम्फे' इत्यनेकार्थः । यथाभिनवा नवोढा वधूः रसेन प्रेम्णा स्वयमेव अर्थाद्भर्तृजनस्य शय्यां पल्यङ्कमागता कौतुकमनुरागं च करोति । किंभूता वधूः । स्फुरन् प्रसर्पन्यः कलो मन्द्र आलापविलासो
वचनव्यापारस्तेन कोमला सुन्दरा । 'कोमलं मृदु सुन्दरे' इति विश्वः ॥ ८॥
हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदार्थैः पदानां शब्दानामथैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रबन्धाः कं सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति भावः । कीदृशैः पदार्थैः । उज्ज्वलदीपकोपमैरुज्वलः प्रकटो दीपकोऽलंकारविशेष उपमा च येषु ते तथा तैः । 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानं प्रतिपदं वा ।उपमानोपमेययो- रर्थसाम्यरूपः शब्दसाम्यरूपो वा यः श्लेषस्तेन घना बहुलतराः । पुनः किंभूताः । सुजातय इति । सुष्ठु जातिश्छन्दोविशेषो यासु । यद्वा । सुष्ठु जातिः स्वरूपं यासां ता इव । यथा नवैरम्लानैश्चम्पक- कुड्मलैर्हेमपुष्पकमुकुलैरुपपादिता महास्रजो महामाला मनो हरन्ति । अत्र यद्यपि कुड्मलैर्मालानिर्माणे नातीव रम्यत्वं तथाप्यग्रिमक्षणे विकासोन्मुखकुड्मलैर्मालानिर्माणे त्वौचित्यमेव । कीदृशैश्चम्पककुड्मलैः । उज्ज्वलो यो दीपकः प्रदीपस्तदुपमैस्त- त्तुल्यैः । किंभूताः स्रजः । निरन्तरं यः श्लेषो तेन घना निबिडाः । पुनः किंभूताः । सुष्ठु, जातयो जातीपुष्पाणि यासु ताः ॥ ९ ॥
कीर्त्यनुवृत्त्यर्थं स्ववंश्यानाह - बभूवेति । कुबेरनामा द्विजो ब्राह्मणो बभूवासीत् । कथंभूतः । वात्स्यायन इति । वात्स्यायननामा ऋषिस्तस्यायं वात्स्यायनो वंशोऽन्वयस्तस्मिन्संभवः समुत्पन्नः । वत्सगोत्रीय इत्यर्थः । द्विज इति च द्विजोत्कृष्टत्वसूचनार्थम् । यथा गजमात्रस्य दन्तवत्वेऽप्युत्कृष्टदन्ते दन्तीति प्रयोगः । पुनः कीदृशः । जगदिति । जगति विश्वस्मिन्नुद्गीता उत्प्राबल्येन गानविषयीकृता गुणाः शौर्यादयो यस्य सं
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥ ७ ॥
स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् ।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥ ८ ॥
हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः ।
निरन्तरश्लेषघनाः सुजातयो महास्रजश्चम्पककुड्मलैरिव ॥ ९ ॥
बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् ।
अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥ १० ॥
कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्द्येन गतागतावरोधका भवन्तीति ।
उत्तरार्धेन साधून्स्तौति — सन्तः सुजनास्तु साधुध्वनिभिर्मनो- हारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं वा, मनश्चित्तं हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नूपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां चरणप्रक्षेपे प्रक्षेपे