कादम्बरी /37
This page has not been fully proofread.
कादम्बरी ।
सुभाषित हारि विशत्यधो गलान्न दुर्जनस्यार्क रिपोरिवामृतम् ।
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्न मिव तिनिर्मलम् ॥ ७ ॥
स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् ।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥ ८ ॥
हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः ।
निरन्तरलेषघनाः सुजातयो महासजश्चम्पककुमलैरिव ॥ ९ ॥
बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् ।
अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥ १० ॥
[ कथामुखे-
कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्द्येन गतागतावरोधका भवन्तीति ।
उत्तरार्धेन साधूनस्तौति — सन्तः सुजनास्तु साधुध्वनिभिर्मनोहारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं
वा, मनश्चित्तं हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नूपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां
चरणप्रक्षेपे प्रक्षेपे साधुध्वनिभिर्मञ्जुलसिञ्जितैर्हृदयहारिणो भवन्तीत्युपमा ॥ ६ ॥
सुभाषितमिति । सुभाषितं सुकाव्यादि हारि मनोहार्यपि दुर्जनस्य खलस्य गलात् कण्ठान्निगरणादधो
न विशतिन गच्छति। हृदयशून्यत्वादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं
विशति पूर्वोक्तहेतोरेव । तदेव सुभाषितं सज्जनो गुणग्राहको हृदयेन स्वान्तेन धत्ते धारयति । स
हृदयगतत्वान्न कदाचिद्विस्मरतीति भावः । यथा हरिः विष्णुर्नारायणो हृदयेन वक्षःस्थलेनातिनिर्मलं स्वच्छं
महारलं कौस्तुभं दधाति ॥ ७ ॥
स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन शृङ्गारादिना कृत्वा जनस्य सहृदयजनस्य हृद्यन्तःकरणे
कौतुकं कुतूहलमधिकं यस्मिंस्तत्कौतुकाधिकम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीतिं करोति जनयति ।
किंभूता । स्फुरदिति । स्फुरच्चञ्चत्कलो मधुरो य आलापः शब्दरचना तस्य विलासो माधुर्य तेन कोमला
मृद्री । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता ।
'शय्या तल्पे शब्दगुम्फे' इत्यनेकार्थः । यथाभिनवा नवोढा वधूः रसेन प्रेम्णा स्वयमेव अर्थाद्भर्तृजनस्य
शय्यां पल्यङ्कमागता कौतुकमनुरागं च करोति । किंभूता वधूः । स्फुरन् प्रसन्यः कलो मन्द्र आलापविलासो
वचनव्यापारस्तेन कोमला सुन्दरा । 'कोमलं मृदु सुन्दरे' इति विश्वः ॥ ८॥
हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदार्थैः पदानां शब्दानामथैरभिधेयैः उपपादिता निर्मिता रचिताः
कथा गद्यपद्यादिप्रबन्धाः कं सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति
भावः । कीदृशैः पदार्थैः । उज्ज्वलदीपकोपमैरुज्वलः प्रकटो दीपकोऽलंकारविशेष उपमा च येषु ते तथा
तैः । 'शृङ्गारः शुचिरुज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानं प्रतिपद
वा । उपमानोपमेययोरर्थसाम्यरूपः शब्दसाम्यरूपो वा यः श्लेषस्तेन घना बहुलतराः । पुनः किंभूताः ।
सुजातय इति । सुष्टु जातिश्छन्दोविशेषो यासु । यद्वा । सुष्ठु जातिः स्वरूपं यासां ता इव । यथा
नवैरम्लानैश्चम्पककुमलैर्हेम पुष्पकमुकुलैरुपपादिता महास्रजो महामाला मनो हरन्ति । अत्र यद्यपि कुड्य-
लैर्मालानिर्माण नातीव रम्यत्त्रं तथाप्यग्रिमक्षणे विकासोन्मुखकुडालैर्मालानिर्माणे त्वौचित्यमेव । कीदृशैश्च-
म्पककुडमलैः । उज्वलो यो दीपकः प्रदीपस्तदुपमैस्तत्तुल्यैः । किंभूताः सजः । निरन्तरं यः,
तेन घना निबिडाः । पुनः किंभूताः । सुष्ठु, जातयो जातीपुष्पाणि यासु ताः ॥ ९ ॥
श्लेषो ग्रथना
कीर्त्यनुवृत्त्यर्थं स्ववंश्यानाह - बभूवेति । कुबेरनामा द्विजो ब्राह्मणो बभूवासीत् । कथंभूतः । वात्स्या-
`यन इति । वात्स्यायननामा ऋषिस्तस्यायं वात्स्यायनो वंशोऽन्वयस्तस्मिन्संभवः समुत्पन्नः । वत्सगोत्रीय
इत्यर्थः । द्विज इति च द्विजोत्कृष्टत्वसूचनार्थम् । यथा गजमात्रस्य दन्तवत्वेऽप्युत्कृष्टदन्ते दन्तीति प्रयोगः ।
पुनः कीदृशः । जगदिति । जगति विश्वस्मिनुद्गीता उत्प्राबल्येन गानविषयीकृता गुणाः शौर्यादयो यस्य सं