कादम्बरी /369
This page has not been fully proofread.
३३६
कादम्बरी ।
[ कथायाम्-
सुहृदसून्साधवः । तदतिहेपणमकर्तव्यमध्येतदस्माकमवश्यकर्तव्यतामापतितम् । किं चान्य-
क्रियते । का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्'
इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलजो निवारयेदित्यनिवे-
चैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम्, तदेवमवस्थिते यदनावसरप्राप्तम्, ईदृशस्य
चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति'
इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ।
अहं तु तदाकर्ण्य सुखामृतमये ह्रद इव निमन्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वा-
नन्दानामुपरि वर्तमाना, सर्वमनोरथानामप्रमिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधि-
शयाना, तत्कालोपजातया लज्जया किंचिदवनम्यमानवदनत्वादस्पृष्टक पोलोदरैः प्रथितैरि-
वोपर्युपरिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्द-
बाष्पजलबिन्दुभिः सवद्भिरावेद्यमान प्रहर्षमैसरा तत्क्षणमचिन्तयम् । दिष्ट्या तावदयमनङ्गो
दसून्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिद्वेपणमप्यतिलज्जावहमप्यकर्तव्यमप्यना-
चरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसं-
हरन्नाह — किंचेति । एतव्यतिरिक्तमन्यत्किं क्रियत इत्यर्थः । अन्या एतव्यतिरिक्ता का गतिः । न कापीत्यर्थः ।
अतः-
:- सर्वथैव । सर्वप्रकारेण तरया महाश्वेतायाः सकाशं समीपं प्रयामि गच्छामि । एतां प्रत्यक्षामवस्थां
दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य । इतिशब्दद्योत्यमाह - कदाचिदिति । अनुचि-
तोऽयोग्यो यो व्यापारो व्यापृतिस्तत्र प्रवृत्तं विज्ञाय संजातलज्जः समुत्पन्नत्रपः कदाचिजातुचिन्मां निवारयेत्प्र-
तिषेधयेत्तस्मै पुण्डरीकायेति पूर्वोत्तम निवेद्यैवाकथयित्वैव तत्प्रदेशात्तत्स्थानात्सव्याजं समिषमुत्थायाहमागतः ।
तत्तस्मात्कारणादेवममुना प्रकारेणावस्थिते सति यदत्रावसरप्राप्तं प्रस्तावागतम् ईदृशस्य अनुरागस्य स्नेहस्य च
सदृशं तुल्यम्, अस्मदागमनस्य च मदीयागमनस्य चानुरूपमनुकूलम् आत्मनो भवत्याः समुचितं योग्यं तत्र
भवती प्रभवति समर्था भवतीत्यभिधायोक्त्वेयं किं वक्ष्यति किं कथयिष्यतीति कृत्वा मन्मुख आसक्ता दृष्टि-
र्यस्य स तूष्णीमासीत् ।
>
>
अहं तु तत्पूर्वोत्तमाकर्ण्य श्रुत्वा सुखमेवामृतं पीयूषं तन्मये हदे डोहे निमना बुडितेव रतिरसः शृङ्गा-
ररसस्तन्मय मुदधिं समुद्रमवतीर्णेव मध्यप्रविष्टेव सर्वानन्दानां समग्रप्रभोदानामुपरि वर्तमाना सर्वमनोरथानां
सकल चिन्तिताना मग्रप्रान्तमधिरूढेवोपर्याश्रितेव, सर्वोत्सवानां समग्रक्षणानामतिभूमिमंधित्यकामधिशयानेव
प्रसुप्तेव, तत्कालोपजातया तत्समयोत्पन्नया लज्जया त्रपया किंचिदीषदवनम्यमानं प्रह्वीभूयमानं यद्वद-
नमाननं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोर्गल्लात्पर प्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजल-
बिन्दुभिः अश्रुभिः स्रवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं
तत्क्षणं तत्कालमचिन्तयमध्यायमित्यन्वयः । अथाश्रु विशेषयन्नाह - अमलैरिति । अमलैर्निर्मलैरञ्जनाभावात् ।
ग्रथितैरिव गुम्फितैरिव । अविच्छिन्न पतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः
प्रकाशितो मालाक्रमः स्रक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्षमसंश्लेषो नेत्ररोमसंबन्धस्तस्य
भावस्तत्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृथुत्वभरो येषु तैः । दिष्ट्या भाग्येन तावदादावयमनङ्गो मामिव
-
टिप्प० – 1 यस्या इत्युचितम् । 2 अधोमुखतया नेत्रजलं सरलमध एव पतति, नोभयभागयोः
पक्ष्मसु जलसंबन्धो भवति । अत एव निष्पतज्जलमितस्ततोऽसंबन्धादेकपूरवाहित्वाद् गुरु इत्याशयः ।
पाठा०-१ वा. २ वा ३ प्रसङ्गा.