This page has not been fully proofread.

पुण्डरीककृते कपिञ्जलस्य चिन्ता]
 
पूर्वभागः ।
 
३३५
 
किं वा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः ।
 

 
क तत्तपः, केयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम्,
कः सहायः, क
किं वा चेष्टितव्यम्, कं देशं गन्तव्यम्, किं शरणम्, को वोपायः,
प्रकार, का युक्तिः, कः समाश्रयो येनास्यासवो धार्यन्ते । केन वा कौशलेन, कतमया वा
युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, क्या वा प्रज्ञया, कतमेन वा समाश्वासनेनायं
जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पा: प्रादुरासन् । पुनश्चाचिन्तयम् -
'किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येनकेनचिदुपायेन शुभेना-
शुभेन वा रक्षणीयाः । तेषां च तैत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बाल-
भावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासगिवात्मनो मदनव्यतिकरं मन्यमानो
नियतमेकोच्छासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् ।
अकालान्तरक्षमञ्चायमस्य मदनविकारः । सततमतिगर्हितेन कृत्येनापि रक्षणीयान्मन्यन्ते
 
सापि यौवनेन तारुण्येन सह संचारिणी साधं संचरणशीला स्यात् । जराया अपि तत्कार्यकारित्वात्तदनुगामि -
त्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति विकल्पार्थः तस्य कंदर्पस्य । किमिति
प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविधस्तपस्व्ययं पुण्डरीकः । अगाधेति ।
अगाधमलब्धतलं गाम्भीर्यं गम्भीरता तस्य सागर. समुद्रस्तृणवल्लघुतां लघीयस्त्वमुपनीतः प्रापितः । वेति ।
तदनिर्वचनीयस्वरूपं तपः क्व । तया चेयं परिदृश्यमानावस्था छ । सर्वथेति । सर्वप्रकारेण निष्प्रतीकारा-
साध्येयमापद्विपदुपस्थिता प्राप्ता । किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा चेष्टितव्यमाचरितव्यम् ।
कं देशं के स्थानं प्रति गन्तव्यं गमनीयम् । किं वा शरणं त्राणम् । को वोपायः कः प्रतीकारः । कः सहायः
साहाय्यकृत् । कः प्रकारस्तदुपशामकविधिः । का युक्तिस्तत्प्रतिक्रियाबुद्धिः । कः समाश्रयः को निवासो येन
कृत्वास्य मुनेरसवः प्राणा गच्छन्तो धार्यन्ते रक्ष्यन्ते । केन वा कौशलेन चातुर्येण, कतमया वा युक्त्या,
कतरेण वा प्रकारेण, केन वावष्टम्भेना लम्बनेन, कया वा प्रज्ञया प्रतिभया, कतमेन वा समाश्वासनेन
सान्त्वनेन वायं जीवेदिति । एते चेति । विषण्णहृदयस्य खिन्नचित्तस्य मे ममैते चान्ये च संकल्पा
विकल्पाः प्रादुरासन्प्रकटीबभूवुः । पुनश्चेति । पुनस्तदनन्तरमहमचिन्तयं चिन्तितवान् । किं तदित्याह-
किमनयेति । अनया निष्प्रयोजनया निरर्थकया चिन्तया ध्यातया किम् । तावदादौ अस्य पुण्डरीक
शुभेनाशुभेन वा येन केनचिदुपायेन प्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानामेकं तस्याः समा-
गममपहाय विहायापरो भिन्नः संरक्षणोपायो नारित । बालभावाच्छिशुखभावादप्रगल्भतयाप्रतिभान्विततया च
तपोविरुद्धं व्रतविरोध्यनुचित मन्योन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो
नियतं निश्चितमेक एवोच्छ्वासः श्वासोऽवशेषोऽवशिष्टो यस्मिन्नेव तादृशं जीवितं प्राणितं यस्यैवंभूतोऽप्ययं
पूर्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पूर
यिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानता । यथाश्रुतमेव वा किं त्वन्यस्य गमनेन
तस्याः संगमो भविष्यति, तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह — अकालेति । तस्य पुण्डरीकस्यायं
मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन न प्रयोजनमि-
त्यत आह - सततमिति । सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधनः सन्तः सुहृ-
टिप्प० - 1 किमित्याशयः । 2 साधनाय उपपत्तिः
 
Koma
 
पाठा० - १ तृणलवलघुताम् २ किमाचेष्टितव्यम्. ३ वां दिशम् ४ च ५ अनयात्यायतया; अनयात्यन्तायतया.
६ त्वत्समांग ७ अनुचितमुपनतम्. ८ अकृत्येन.