This page has not been fully proofread.

३३४
 
कादम्बरी ।
 
[ कथायाम्-
,
 
-
 
मुहुर्मुहुश्चन्दन चर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कैदलीदलेन चानवरतं वीज-
यतः समुदभून्मे मनसि चिन्ता - 'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । कार्य हरिण
इव वनवासनिरतः स्वैभावमुग्धो जनः क च विविधविलासरसराशिर्गन्धर्वराजपुत्री महा
श्वेता । सर्वथा नहि किंचिदस्य दुर्घटं दुष्कर मनायत्तम कर्तव्यं वा जगति । दुरुपपादेष्वर्थेष्वप्य-
यमवज्ञया विचरति। नै चायं प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतना-
भ्यपि संघट्टयितुमलम्, यद्यस्मै रोचते । कुमुदिन्यपि दिनकरकरांनुरागिणी भवति, कमलिन्यपि
शशिकरद्वेष मुज्झति, निशापि वासरेण सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि
प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरतां ब्रजति, जरापि यौवनेन संचारिणी भवति ।
 
"
 
तिक्रियां धर्मजलप्रतीकारं कुर्वतः प्रणयतः, कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रक्षिपतो मे मम
मनसि चिन्ता समुदभूत्प्रादुर्भूत् । यतः - नास्तीति । नामेति कोमलामन्त्रणे । खलु निश्चये । भगवतो
मनोभुवः कंदर्पस्यं किमप्यसाध्यमनिष्पाद्यं नास्ति न विद्यते । एतदर्थ स्पष्टीकुर्वन्नाह - वेति महदन्तरे । अयं
'पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविदग्धो जनः
कं । तथा विविधानां नानाप्रकाराणां विलासानां विभ्रमादीनां यो रेसस्तात्पर्य तस्य राशिः समूह एतादृशी
गन्धर्वराजपुत्री महाश्वेता व । विदग्धाविदग्धयोः संगमः कथं भविष्यतीत्याशयेनाह - सवैथेति । सर्वप्रकारे-
णास्य कंदर्पस्य जगति लोके दुर्घटं दुःसाध्यं तथा दुष्करं दुःखेन कर्तुं शक्यमनायत्तमनधीन मकर्तव्यं कर्तव्य-
विरोधि वा नहि किंचिदस्ति । अस्य सर्व सुसाध्यमित्यर्थः । दुरुपपादेष्नयोग्येष्वर्थेषु कार्येष्वप्ययं कामोऽवज्ञया
बलात्कारेण विचरति प्रवर्तते । न चायं केनापि पुंसा प्रतिकूलयितुं प्रतिरोद्धुं शक्यते पार्यते । का वेति ।
यद्यस्मै कंदर्पाय रोचते रुचिर्भवति तदापगतचेतनानि मन्दान्तःकरणान्यपि परस्परविरुद्धान्यपि संघट्टयितुं संयोज
यितुमलं समर्थः तस्य सचेतनेषु दशदशावर्तिषु संबन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह
- कुमुदि-
नीति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्थ कराः किरणाः । तत्कार्यकारित्वाद्दिन-
करत्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् – 'चन्द्रश्चण्डकरायते मलयजालेपः
स्फुलिङ्गायते माल्यं सूचिकरायते मृदुगतिर्वातोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि पद्मिन्यपि ।
शशिकर कार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्तम् – 'आतपे धृति
मता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम्' इति ।
निशेति । निशापि रात्रिरपि दिवसका। र्यकारित्वाद्वासरेण मिश्रतामैक्यतामेति गच्छति । यथा - 'चित्रन्यस्ता-
दपि विषधराद्भीतिभाजो निशायां किं तद्रूमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । ज्योति । ज्योत्स्नापि
कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा - '
-'ज्योत्स्ना श्यामलतामुपैत्ययम्' इति ।
छायेति । छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतिष्ठति । अत्र प्रदीपाधोभागे छायायाः सत्त्वान्न
चित्रमित्यभिमुखग्रहणम् । तदुक्तम् – 'आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोग-
समये किं किं न दुःखायते' । तडिदिति । तडिदपि विद्युदपि जलदे स्थिरतां स्थैर्य व्रजति गच्छति । अत्र
तंडित उद्दीपकत्वाद्विरहृदुःखितस्य तस्य निमेषावस्थानमपि कल्पकल्पमित्यभिसंधिः । जरेति । जरापि वित्र-
-
 
टिप्प० - 1अनुभवजनित भानन्दविशेष इत्युचितम् । 2 विषयेष्वित्यर्थ उचितः । 3 अचेतनान्य-
पीति सरलोऽर्थः । 4 प्रलापोयम् । न किल चन्द्रो दिनकरो भवतीत्युच्यते ग्रन्थकृता । अपि तु विरुद्ध
मपि कामो मिथः संघट्टयतीति प्रतिज्ञाय रात्रिविकासिन्याः कुमुदिन्याः सूर्यानुकूल्यं द्योत्यते । एवमपि ।
परीक्षन्तां बुद्धिवैभवं सहृदयाष्टीकाकृतः । 5 सर्वथा प्रलाप एवायम् । कः प्रसङ्गोऽस्य ?
 
4
 
पाठा०-१ मुहुश्चन्दन. २ दलेनानबरतम्. ३ स्वभावविषयविमुखः ४ दुरुपपादेष्यप्यर्थेषु ५ नायम्.
६ तस्कुमुदिन्यपि, यस्तरकुमुदिन्यपि,