कादम्बरी /366
This page has not been fully proofread.
पुण्डरीकोपचारः ]
पूर्वभाग ।
३३३
'अतिभूमिमयं गतः, न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राण-
परिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात्सरसः सरसा
मृणालिका: समुद्धृत्य कमलिनीपलाशानि जललवेलाञ्छितान्यादाय गर्भधूलिकषायपरिमलम-
नोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याक-
ल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्तिनां चन्दनविटैपादीनां मृदूनि किसलयानि
निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम्, आ चरणतला-
दङ्गचर्चा चारचयम् । अभ्यर्णपादपप्रस्फुटितवल्कलविवरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना
स्वेदप्रॆतिक्रियामकरवम् । उरोनिहितचन्दनद्रवाईवल्कलस्य स्वच्छसलिलेसीकरनिकर स्राविणा
कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । एवं च मुहुर्मुहुरन्यदन्यन्नलिनी दलशयनमुपकल्पयतः,
यम् । इति शब्दवाच्यमाह - अतीति । अयमतिभूमिमतिदूरं गतः प्राप्तः । कामस्य दशमीमवस्थां प्राप्त
इत्यर्थः । निवर्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते । तेनेदानीं सांप्रतम् । खलु निश्चयेन । उपदेशा
निरर्थका निःप्रयोजनाः । तदिति हेत्वर्थे । तावदादावस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवित परित्रा
णेऽपि यत्नमुयोगमाचरामि करोमीति कृता मतिर्येन स उत्थाय गत्वा च । अच्छोदाभिधं सर इति शेषः ।
तस्मात्सरसः कासारात्सरसा रसयुक्ता मृणालिकाः कमलिन्यैः समुद्धृत्योत्पाट्य ताभ्यो जललवेनाम्भोलेशन
लाञ्छितानि सहितानि कमलिनीपलाशानि नलिनीपत्राण्यादाय गृहीत्वा । गर्भेति । गर्भधूलिर्म ध्यपरागस्त-
स्य, यः कषायस्तुवरः परिमलस्तेन मनोहराणि शोभनान्येवंविधानि कुमुदानि श्वेतकमलानि कुवलया-
न्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि, कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायागत्य च
तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पयमकरवम् । तत्र चेति । तस्मिन्नेव
स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविट पादीनां मलयजवृक्षप्रभृतीनां
मृदूनि सुकुमाराणि किसलयानि किसलानि निष्पीड्य संमद्ये तेनानिर्वचनीयेन स्वभावसुरभिणा स्वारसिकसु-
गन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवंविधेन रसेन द्रवेण ललाटिकां लोके 'आडी' इति प्रसिद्धामकल्पयम-
करवम् । चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी । अङ्गचर्चा शरीरभूषां चाऽऽरचयं
`रचितवान् । अभ्यर्णेति । अभ्यर्णा आसन्ना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोटं प्राप्तानि यानि वल्कलानि
चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदी कृतेन कर्पूर-
रेणुना हिमवालुकाधूल्या स्वेदस्य घर्मजलस्य प्रतिक्रियां चिकित्साम करवमकल्पयम् । उर इति । उरसि
वक्षस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेनाई क्लिन्नं वल्कलं यस्य स तथा तस्य । स्वच्छेति ।
स्वच्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्यै स्राविणा स्यन्दिनै तादृशेन कदली-
दलेन रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं' तत्' इति कोशः । अन्वतिष्ठमकरवम् ।
एवं चेति । एवममुना प्रकारेण मुहुर्मुहुर्वारंवारमन्यदन्यदन्यतरदन्यतरन्नलिनीदलशयनं कमलिनीपत्रशय्या -
मुपकल्पयतः कुर्वतः मुहुर्मुहुर्भूयो भूयश्चन्दनचर्चां मलयजमण्डनमारचयतो विदधतः, मुहुर्मुहुश्च वारंवारं स्वेदप्र-
टिप्प० - 1 कमलिनीः इत्याशयः । 2 नीलोत्पलानीति वक्तव्यम् । 3 सामान्यतः पद्मानि । 4 पुनः
प्रममाद टीकाकृत् । 'चन्दनविटपिनाम्' इत्येव पाठः । 'वृक्षप्रभृतीनां किसलयानि' इति लोकोत्तरो लेखः,
वृक्षादन्येषामपि किसलयानि भवन्ति ? । 5 जलबिन्दुवर्षकेणेत्यर्थः ।
0
पाठा० -१ निवर्तयितुमिति २ लान्छितानि चादाय ३ विटपिनाम् ४ प्रतीकारम्. ५ शीकरस्राविणा.
६ नलिनदल.