This page has not been fully proofread.

कपिझलकृत उपदेशः ]
 
पूर्वभागः ।
 
३३१
 
त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रहसि, यतो न निवारयसि प्रबलरज:-
प्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः ।
कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः' इत्येवं वदत एव मे वचन-
माक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तवाष्पवेणिकं प्रमृज्य चक्षुः करतलेन मोमबलम्ब्याबोचत्-
'सखे, किंबहू केन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचा-
पसायंकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति,
मनो वा वर्तते, यः पश्यति वा, शृणोति वा, श्रुतमवधारयति वा, यो वा शुभमिदं न
शुभ मिमिति विवेक्तुमलं स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । अवष्टम्भो
ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैषा कथा । कथमध्येव मेऽयत्नविभूतास्तिष्ठन्त्यसवः । दूरा-
इव ज्योतिस्तत्वज्ञानं प्रकाशश्च तेने निवार्य दूरीकरणार्ह ज्ञानमुद्रहसि धारयसि । अस्य दिवाप्रनष्टचैतभ्यत्वेन
तादृशधर्मंवत्त्वसाधर्म्यात्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थे हेतुमाह - यत इति । यस्माद्धेतोः प्रलो
यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिमीकृतानि स्वतोऽम्भः प्रसरणानि स्रोतांसि तामीको-
न्मार्गप्रस्थितान्युत्पथवृत्तानीन्द्रियाणि करणानि न निवारयसि न निवारणं करोषि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं
न नियमयसिन नियन्त्रयसि । नामेति कोमलामन्त्रणे । कोऽयमनङ्गः कामः । धैर्य धीरिमामवलम्ब्याश्रित्यायं
दुराचारो दुष्टाचरणो निर्भर्त्स्यतां तिरस्क्रियताम् । इत्येवं पूर्वोक्तप्रकारेण वदत एव कथयत एव मम वचनं
वच आक्षिप्यावगणय्य । प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता बाष्पवेणिका यस्मि-
नेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केऽणः' इति हख-
त्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्त तलेन मामवलम्ब्यालम्बमीकृत्यावोचवीत् । किं तदिं-
त्याह-सख इति ।
 
हे सखे, बहूक्तेन बहुभाषितेन किम् । सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह - आशीति ।
आशीविषाः सर्पास्तेषां विषवेगो गरलप्रसरस्तद्विषमाणां कठिनानामेतेषां कुसुमचा पसायकानां मन्मथबाणामां
गोचरे विषये न पतितोऽसि, तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपाद-
यन्नाह
- परेति । परस्यै मध्यतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः ।
यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते शृणोत्याकर्णयति वा । श्रुतमाकर्णितं चावधारयति जानाति । तदमि-
प्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदमशुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्नि-
त्याभिसंबन्धात्स पुमानुपदेशं हितशिक्षामर्हति योग्यो भवति । मम तु सर्वमेवेदं पूर्वोक्तं दूरापेतं दुरापास्तम् ।
इत्येषा कथा वार्तास्तमितास्तं प्राप्ता । इतिशब्दद्योत्यमाह - अवेति । अवष्टम्भश्चित्तवृत्तिनिरोधः, ज्ञानं विवे-
कः, धैर्य बाह्येन्द्रियनिरोधः, प्रतिसंख्यानमध्यात्मज्ञानम् । कथमिति । मे ममासवः प्राणा अयत्नेना प्रयासेन
 
-
 
टिप्प0 - 1 अस्मिन्पाठे-खद्योतो ज्योतिषा निवार्य किमुद्रहतीति कर्मणोऽपेक्षा । तस्मात् - "
-'ज्योति-
निर्वीर्यमिदम्' इत्येव पाठः । खद्योतो यथा निर्वीर्य ज्योतिस्तथा त्वं निर्वीर्यम् ( अहितनिवारणा भावादस-
मर्थम्) ज्ञानमुद्वहसीति तदर्थः । 2 धर्मादिकमपि तु वराको न जानाति । प्रबलो यो रजसः रजोगुण-
संभूतस्य कामस्य प्रसरः बेगस्तेन कलुषितानि । उक्तं गीतायाम् - 'काम एष क्रोध एष रजोगुणसमुद्भवः'
पक्षान्तरे स्पष्टोऽर्थः । 3 समाप्तेः पूर्वमेव स्ववचनेन विच्छिद्य । टीकाकारस्तु पर्यायेन्द्रः। 4 विक्मला-
पिनम् । पुनः परस्येत्युके न किञ्चित्वारस्यम् । यस्येति यत्पदेनापि स एव गृह्यते यस्येन्द्रियाणि सन्तीति
इन्द्रिबशुन्यात्पुण्डरीकात्पर एव स्वतो ग्रहीष्यते । प्रत्युत पौनरुक्त्येन वैरून्यम् ।
 
पाडा० -१ च. २ पाणौ मान्. ३ बहुनोक्तेन. ४ सुस्योsसि. ५ बिषते,