This page has not been fully proofread.

३३०.
 
कादम्बरी ।
 
[ कथायाम्-
:
 
"
 
अहं तु तदाकर्ण्य तदवस्थ्यैवाप्रतीकारविकारोऽयं तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो
यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्यानवम्- 'सखे पुण्डरीक, सुविदि-
तमेतन्मम । केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत
धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमा-
र्गोऽयम्, उत व्रतरहस्यमिदम् उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो नियमप्रकारः ।
कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम् किं पुनराख्यातुमीक्षितुं वा । अप्रबुद्ध इवानेन
मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । का
वा सुखाशा साधुजननिन्दितेष्वेवंविषेषु प्राकृतजनबहुमतेषु विषयेषु भवतः । स खलु
धर्मबुद्ध्या विषलतां सिञ्चति, कुवलयमालेति निशिंशलता मालिङ्गति, कृष्णागुरुधूमलेखेति
कृष्णसर्पभवगृहति, रेनमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति दुष्टवारणदन्तमुसल-
मुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टांनुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयत-
."
 
अहं तु तदाकर्ण्य निशम्य तदवस्थ्यैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकारविकारोऽप्रतिक्रियविकृतिस्तथापि
सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृद्यावच्छक्तितो यावद्वलतः सर्वात्मना सर्वप्रकारेण निवारणीयो
वर्जनीय इति मनसा चित्तेनावधार्य निश्चित्याब्रवमवोचम् । हे सखे पुण्डरीक, एतन्मम सुविदितं सुज्ञातम् ।
तथापि केवलमिदमेव पृच्छामि प्रश्नविषयीकरोमि । तदेवाह — यदिति । भवता त्वया यदेतदारब्धं प्रस्तुतं
तत्किभिदं गुरुभिर्हिताहितप्राप्तिपरिहारोपदेशकैरुपदिष्टं कथितम् उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्,
उताथवायं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारों भेदः, उत स्वर्गगमनस्यायं
मार्गः पन्थाः, उसेदं व्रतस्य दीक्षाया रहस्यमुपनिषत् उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् ।
आहो इति। आहोखिद्वितर्फे । अन्यो विलक्षणो नियम प्रकारोऽभिग्रहविशेषः । भवतस्तव कथमेतद्युक्तमु -
चितं मनसापि चित्तेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं
वा किं पुनर्भण्यते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रबुद्ध इवाज्ञानीवानेन मन्मथहतकेन पापकारिणा
कंदात्मानं स्वमुपहासास्पदतां परिहासधामतां नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि । हीति निश्चि-
तम् । मूढो मन्दो मदनेन कंदर्पेणायास्यते पीड्यते । साध्विति । साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु
प्राकृताः पामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवंविधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा
वाञ्छा । स इति । स मूढो धर्मबुद्ध्या पुण्यमिति कृत्वा विषलतां विषवल्लीं सिञ्चति सेकं करोति । कुवलेति ।
कुवलयमालोत्पलस्रगिति कृत्वा निस्त्रिशलतां खगलतामा लिङ्गत्याश्लिष(ष्य)ति । कृष्णैति । कृष्णागुरुः काकतुण्ड-
स्तस्य धूमलेखा दहनकेतनपकिरिति कृत्वा कृष्णसर्पमवगूहति परिष्वजते । रत्नेति । रत्नमिति मणिरिति
कृत्वा ज्वलन्तमङ्गारं प्रसिद्धमभिस्पृशति स्पर्श करोति । मृणालेति । मृणालमिति तन्तुलमिति कृत्वा दुष्टो
यो वारणो गजस्तस्य दन्तमुसलं दशनायोप्रमुन्मूलयत्युच्छिनत्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह-य
इति । यः पुमाननिष्टानां दुःखानामनुबन्धः परम्परा विद्यते येष्वेवंविधेषु विषयोपभोगेष्विन्द्रियार्थोपभोगेषु
सुखबुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् ।
अधीति । अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गण
 
टिप्प० - 1 व्रतानुष्ठानभेदः । 2 मनसापि चिन्तयितुं भवतः कथं युक्तमित्यन्वयो बोध्यः, टीकाका-
रस्तु केवलं पर्यायलेखग्यग्रः । 3 साधारणाः । 4 कमलकन्दम् ।
 
पाठा० - १ युक्ति:. २ कथय किमप्रबुद्ध ३ लतावनम्. ४ अवगूहते ५ महारलम्. ६ अनुवन्धेषु.
७ यः परिणतिविरसेषु.