कादम्बरी /362
This page has not been fully proofread.
मदनार्तपुण्डरीकस्याऽवस्था ]
पूर्वभागः ।
३२९
कारमप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभ वेदेवंविधो ज्ञानराशिः । अहो बत मह-
चित्रम्, तथा नामायमाशैशवाद्धीर प्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां
स्पृहणीयचरित आसीत् । अत्र वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावमुन्मूल्य
गाम्भीर्य मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च तस्मि-
नेव शिलातलैकपार्श्व समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण्डरीक,
कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसंमीलॅनालग्नमिव कथमपि प्रयत्नेनानवरतरोदन-
वशात्समुपजातारुणभावमश्रुजलपलपूरप्लावितमुत्कम्पितमिव सवेदनमिव स्वच्छांशुकान्तरि-
तरक्तकमलवनच्छायं चक्षुरुन्मील्य मन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं
निःश्वस्य लज्जाविशीर्यमाणाक्षेरम् 'सखे कपिल, विदितवृत्तान्तोऽपि किं मां पृच्छसि इति
कृच्छ्रेण शनैः शनैरवदत् ।
-
दशान्तरप्रकारमुपनीतः प्रापितः । उक्त विपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशिरेतादृशज्ञान समूह
एकपदे युगपत्कथमेवं व्यर्थीभवेत् । अत्र वितर्फे प्रार्थनायां लिङ् । अहो इत्याश्चर्ये । बतेति खेदे । इदं महच्चित्रं मह-
दाश्चर्यम् । तथा नाम तेन प्रकारेणायमाशैशवादाबाल्यान्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयमभिल-
षणीयं चरितं यस्यैवंविध आसीदभूत् । अथैनं विशिनष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् ।
अस्खलितेति । अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्रै त्विति । अस्मिन्प्रदेश इतर इवान्य इव
ज्ञानं परिभूय तिरस्कृत्य तपःप्रभावं तपोमाहात्म्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्य गम्भीरतामुन्मूल्योच्छेद्य
मन्मथेन कंदर्पेण जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितैम खण्डितं यौवनं तारुण्यं दुर्लभं
दुःप्रापम् । उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्यांसे स्कन्धेऽवसक्तः स्थापितः
पाणिः करो येन स तमनुन्मीलितलोचनमेव मुद्रित नेत्र मेवेत्यपृच्छं इत्यवोचम् । इतिथोत्यमाह - सखे इति ।
हे सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् । मन्थरमन्थरयालसालसया दृष्ट्या सुचिरं
चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निश्वस्य चक्षुरुन्मील्य विमुद्य कथमपि महता कष्टेन ।
लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति शनैः शनै-
र्मन्दंमन्दमवददवोचदित्यन्वयः । अथ चक्षुर्विशेषयन्नाह - सुचिरेति । सुचिरं चिरकालं यत्संमीलनं निमीलनं
तेनालँग्नमिवान्योन्यासंपृक्तमिव । प्रयत्नेनं बलात्कारेणानवरतं निरन्तरं यद्रोदनमश्रुपातस्तद्वशात्समुपजातः समु-
त्पन्नोऽरुणभावो रक्तता यस्मिन् । अश्विति । अश्रुजलस्य नेत्राम्भसो यत्पटलं वृन्दं तस्य पूरो वृद्धिस्तेन प्लावितं
व्याप्तमुत्कम्पितमिवोद्धूतमिव सवेदनमिव सव्यथमिव । अश्रूणां श्वेतत्वसाम्येनाह - स्वच्छेति । स्वच्छम तिनि-
मैलं यदंशुकं वस्त्रं तेनान्तरितं व्यवहितं यद्रक्तकमलवनं तद्वच्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे
इति । हे सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं
प्रश्नं करोषि ।
टिप्प० - 1 अकाण्डप्रलापोऽयं वराकस्य । वितर्कस्य न प्रार्थनमर्थः । न चात्र प्रार्थना, न किल कपि-
अलेन प्रार्थ्यते व्यर्थीभवेदिति । तस्मात् संभावनायां लिङ् । कथमिदं संभाव्यते इति तदाशयः । 2 'अद्य
तु' इति पाठेऽधिकं स्वारस्यम्, प्रमाणमत्र सहृदयहृदयम् । 3 नास्ति स्खलितं सत्पथाद् अंशो यत्र तदस्ख-
लितम् । 4 'संमीलनालग्नमिव' इत्येव पाठः । चिरकालपर्यन्तं मुद्रणवशात् लग्नमिव परस्परं संसकावरण-
द्वयमिव इति तदर्थः । 5 प्रयत्नेन उन्मील्य इत्यन्वयः । अत्रास्य योजनं तु एतट्टीकाकारोचिंतमेव ।
•
पाठा० -१ अद्य. २ उन्मील्य ३ अनुन्मीलित; अहमसमुन्मीलित ४ सन्मीलनालग्नम् ५ उपजात, ६ वर्ष.
७ उत्कुपितम् ८ मन्थरया ९ विरलाक्षरम्.
४२ का०