कादम्बरी /361
This page has not been fully proofread.
३२८
कादम्बरी
[ कथायाम्-
दक्षिणानिलेन निर्भर्त्स्यमानम्, मदकलकोकिलकुलको लाह
लैर्वसन्तजयशब्दकलकलैरिव मधु-
मासेनाकुलीक्रियमाणम, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम् निदाघगङ्गाप्रवाहमिव
कैशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमित्र म्लायन्तम् अन्यमिव, अदृष्टपूर्वमिव,
अपरिचितमिव, जन्मान्तरमिवोपगतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव, महाभूताधि-
ष्ठितमिव, ग्रहगृहीतमिवोन्मत्तमिव, छलितमिवान्धमिव, बधिरमिव, मूकमिव, विलासम-
यमिव मदनमयमिव परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेय-
पूर्वाकारं तमहमद्राक्षम् ।
अपंगतनिमेषेण चक्षुषा तद्रवस्थं चिरमुद्रीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचि-
न्तयम् – 'एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीहशमवस्थान्तरप्र-
*
-
न्मत्ता ये मधुकरा भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निस्वनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भ-
र्यमानं तिरस्क्रियमाणम् । शब्दत्वसाम्यादाह - हुंकारैरिव । मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रा-
रम्भो न भविष्यत्येवेति साभिमानै रित्यर्थः । मदेति । मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां
कुलं तस्य कोलाहलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुली क्रियमाणं व्याकुलीक्रियमाणम् । कोलाहलस्यो-
द्दीपकत्वात्प्रोत्साहकत्वसाम्येनाह - वसन्तेति । वसन्तस्य पुष्पकालस्य जयशब्दास्तेषां कलकलैरिव । प्रभा
तेति । प्रभातस्य प्रत्यूषस्य यश्चन्द्रः कुमुदबान्धवस्तमिव । उभयोः साम्यसाह - पाण्डुतेति । पाण्डुतया
पाण्डुरत्वेन परिगृहीतं स्वीकृतम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्मिन्यो गङ्गाप्रवाहः । स्वर्धुनीरयस्तद्वदिव
ऋशिमानं कृशत्वमागतं प्राप्तम् । अन्तरिति । अन्तर्गतो मध्यगतोऽनलो वह्निर्यस्मिन्नेवंभूतश्चन्दनविटैपो मल-
यजतरुस्तद्वदिव म्लान्तं म्लानतां गच्छन्तम् । पूर्वदृष्टावस्थाशून्यत्वादाह - अन्येति । अन्यमिव पूर्वस्माद्भि-
नमिव । असंभावितविकारवत्त्वादाह - - अदृष्टेति । अदृष्टपूर्वमिवानवलोकितपूर्वमिव । अपेति । अपरिचितमि-
वासंस्तवमिव । जन्मेति । जन्मान्तरं भवान्तरमुपगतमिव प्राप्तमिव । रूपेति । प्रशमलक्षणं परित्यज्य सानुरा-
गर्लक्षणेन रूपान्तरेण परिणतमिव तन्मयतां गतमिव आविष्टमिव भूतोन्मादवातरोगाभिभूतमिव । महेति ।
महाभूतानि वेतालास्तैरधिष्ठितमिश्रित । हेति । ग्रहाः पिशाचादयस्तैगृहीतमिवाधिष्ठितमिव उन्मत्त-
मिव क्षीबमित्र, छलितमिब छलनां प्राप्तमिव अन्धमिव गताक्षमिव, बधिरमिवाकर्णमिव मूकमिवास्फुटवाचमिव,
घिलांसमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । परेति । परस्यां महाश्वेतायामायत्ता लग्ना चित्त-
वृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्या वेशोऽध्यासस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अनेति ।
अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् । अन्वयस्तु प्रागेवोक्तः ।
2
अपेति। अपगतो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुद्वीक्ष्य
विलोक्य समुपजातः समुत्पन्नो विषादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन
अचिन्तयमध्यायम् । एवमिति । एवममुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो
बेगो यस्यैतादृशो मकरकेतुः कंदर्पो येन कारणेनानेनानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रियमवस्थान्तरं प्रकारं
टिप्प० - 1 तिरस्कारपूर्वकं भीष्यमाणमित्यर्थ उचितः । 2 मदकलाः मदोन्मत्ता इत्यर्थो वाच्यः ।
3 चन्दनविटपो मलयजशाखेत्यर्थो वाच्यः, विटपपदस्य शाखावाचकत्वात् । 4 पूतनादय इत्यर्थो योग्यः,
पौनरुत्त्यप्रसक्तेः । 5 वराको न जानाति काव्यस्वारस्यम् । अवस्थान्तरम् प्रकारश्चेत्येक एवार्थ इति नैवं-
विधमुदीरितं बाणस्य । अत एव - 'ईदृशमवस्थान्तरमप्रतीकारमुपनीतः' इत्येव पाठः ।
पाठा०-१ ऋशिमागतम्. २ मन्मथा.