This page has not been fully proofread.

मदनातपुण्डरीकस्याऽवस्था]
 
पूर्वभागः ।
 
३२७
 
कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव सतमाल-
पल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाज्वररोमाश्वव्याजेन प्रतिरोमकूपनिपतितानां मदन-
शराणां कुसुमशरशल्यशकलनिकर मिवाङ्गलनं बिभ्राणम्, दक्षिणकरेण च स्फुरितनखकिर-
•णनिकैरां करतलस्पर्शसुखकण्ट कितामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदन-
वशीकरणचूर्णेनेव कुसुमरेणुना तरुभिराहन्यमानम्, आत्मरागमिव संक्रमयद्भिरासन्नैरनिल-
चलितैरशोकपल्लवैः स्पृश्यमानम्, सुरताभिषेकसलिलैरिवाभिनव
पुष्पस्त बकमधुशीकरैर्वनश्रि-
-
याभिषिच्यमानम्, अलि निवहनिपीय मानपरिमलैरुपरिपतद्भिश्चम्पककुडा लेस्तप्तशेर शल्यकैरिव
सधूमैः कुसुमशरेण ताड्यमानम्, अतिबहलवनामोद मत्तमधुकरनि करझंका र निःस्वनै हुंकारैरिव
 
विमर्दोत्थः पुनः सुरभिः परिमलः । 'स आमोदो विदूरगः । विमर्दोत्थः परिमलः' इति कोशः । तयोर्यो लोभ-
स्तृष्णा तेनोपसर्पिणा समीपागमनशीलेन । किं कुर्वता तेन । कलं मधुरं यद्विरुतं झंकारस्तस्य छलेन मिषेण
मदनस्य संमोहनमन्त्रं वशीकरणमन्त्रं जपतेव जापं कुर्वतेव । पुनः किं कुर्वन्तम् । उत्कण्ठेति । उत्कण्ठो-
तकलिका तया यो ज्वरस्तापस्तेन यो रोमाञ्चो रोमोद्गमस्तस्य व्याजेनापदेशेन प्रतिरोमकूपं निपतितानां लं
मानां मदनशराणां कामबाणानां मध्ये कुसुमलक्षणा ये शरा बाणास्तेषां शल्यशकलानि त्रुटितबाणखण्डानि
मध्ये प्रविष्टानि किंचिद्वहिर्दृश्यमानानि तेषां निकरं समूहमिवाङ्गलनं बिभ्राणं दधानम् । पुनः किं कुर्वाणम् ।
दक्षिणकरेणेतस्ततः पर्यस्तां मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फुरितः प्रद्युतितो
नखकिरणानां निकरः समूहो यस्याः सा ताम् । नखकिरणानां दीर्घतीक्ष्णत्वरूप कण्टकसाम्यादुत्प्रेक्षते-कर-
तलेति । करतलस्य यत्स्पर्शसुखं तेन कष्टकितामिव । श्वेतत्वसाम्यादाह - अविनयेति । अविनयः पूज्य
पूजाव्यतिक्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति । कुसुमरेणुना पुष्प-
धूल्या तरुभिरृक्षैराहन्यमानं ताज्यमानम् । शुक्लत्वसाम्यादाह- मदनस्य यद्वशीकरणचूर्णं तेनेव । आस्मेति ।
आत्मनो राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामद्भिरिव संक्रमणं कारयद्भिरिवासन्नैः समीपस्थैरनिल चलि-
तैर्वायुना कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् । वनश्रिया काननलक्ष्म्या अभिनवो नूतनो मः
पुष्पाणां कुसुमानां स्वबको गुच्छकस्तस्य मधुरसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयी क्रियमाणम् ।
तत्रोद्दीपकत्वसाम्येनाह—सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेक पदसामर्थ्या-
देव सुरते राज्यत्वं द्योत्यते । अलीति । अलिनिव हैमरसमूहैर्निपीयमान आखाद्यमानः परिमलो येषां तैः ।
उपरिपतद्भि रुपरिष्टात्क्षरद्भिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां कुडालैर्मुकुलैः कृत्वा कुमुमशरेण कंदर्पेण ताड्यमा-
नम् । चम्पककुमलानां स्वत एव पीतत्वामराणां च कृष्णत्वादुत्प्रेक्षामाह– सधूमैस्तप्तशरशल्य कैरिव । अत्र
शल्यकानि शरप्रान्तवर्तिलोहरूपाणीत्यर्थः । अतीति । अतिबहलोऽतिनिबिडो यो वनामोदो वनपरिमलस्तेनो-
टिप्प० -1 मदनशराणां ( संबन्धिनः ) ये कुसुमरूपाः शराः ( फलकरहिताः काण्डाः ) तेषां
शल्यशकलनिकरं ( अग्रस्थलोह फल कखण्डसमूहम्) बिभ्राणमित्यर्थः । रोमाञ्चो नास्ति मन्ये प्रतिरोमकूप
निपतिताः बाणास्ते निर्गताः किन्तु निमनः अग्रखण्डस्तु रोमकूपेषु लग्न इत्याशयः ।
इतस्ततः पर्य-
स्तामिति मूले नास्त्येव । दक्षिणकरेण इतस्ततः पर्यस्तामिति योजनेन टीकाकारवरा कस्तात्पर्यमपि न बुद्ध-
वानिति ज्ञायते । दक्षिणकरेण उरसि मुक्तावलीं धारयन्तम् (अर्थात्स्वजीवनरक्षणाय प्रियां मुक्तास्त्रजं
इस्तेनोरसि दधाति ) अन्यत्तु स्पष्टम् । 3 साहित्यस्य तु स्पर्शोपि नास्ति वराकस्य । आत्मनो रागः (आर.
ण्यम्) एव रागः अनुरागस्तं संक्रामयद्भिः । रक्तवर्णो न संक्रामितो मन्ये अनुराग एव संचारित इत्या.
वायः । भारुण्यानुरागयोर्भेदेष्यभेदाध्यवसायादतिशयोक्तिः । संक्रामयद्भिरिव, इत्यतिशयोक्तिरिति इयो-
रङ्गानितया संकरः ।
 
पाठा० -१ स्फुरित किरण २ मिकरम् ३ शल्यकैः.