कादम्बरी /36
This page has been fully proofread twice.
जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः ॥२॥
जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षण[१]लब्धल[२]क्ष्यया।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवात्रपाटलम् ॥ ३ ॥
नमामि [^३]भत्सोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् ।
समस्तसामन्तकिरीटवेदिका विटङ्कपीठोल्लुठितारुणाङ्गुलि ॥४॥
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते ।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ५ ॥
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनश्शृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥
जयन्तीति । त्र्यम्बकस्य शिवस्य पादपांसवश्चरणरेणवो जयन्ति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः । कथंभूताः । बाणासुरेति । बाणो बाणनामासुरस्तस्य मौलिना मुकुटेन मस्तकेन वा लालिताः परिचिताः । पुनः किंविशिष्टाः। दशास्येति । दशास्यो रावणस्तस्य चूडामणयः शिरोमणयस्तेषां चक्रं समूहं चुम्बन्ति स्पृशन्तीत्येवंशीलाः । पुनः किंविशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः स्वामिनस्तेषां शिखाः चूडास्तासामन्तः प्रान्तस्तत्र
शेरत इत्येवंशीलाः । पुनः किं विशिष्टाः । भवच्छिदः ।संसारविच्छेदिन इत्यर्थः । अत्र पूर्वविशेषणत्रयेण
परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकत्वमुक्तमिति ॥ २ ॥
जयतीति । स उपेन्द्रो विष्णुर्नृसिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो बिभित्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अत एव कोपेन रोषेण अरुणया आरक्तया दृशैव दृष्ट्यैव रिपोः शत्रोर्हिरण्यकशिपोः उरो वक्षःस्थलमस्रं रुधिरं तद्वत्पाटलमारक्तं चकार।भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेरुत्प्रेक्षा ॥ ३ ॥
शश्वद्गुरोर्नमस्कारं कुर्वन्नाह - नमामीति । भत्सुरिति गुरो [^1]र्नाम । क्वचित्तु 'भर्त्सु:' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगलं नमामि नमस्करोमि । किंभूतम् । सशेखरैः समुकुटैर्मौखरिभिः क्षत्रियविशेषैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति । समस्ताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्तत्साम्यम् । तस्या विटङ्को मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रवाचित्वम् । विटङ्क एव पीठं स्थलं तत्रोल्लुठिता घृष्टा अत एवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा यस्येति तत्तथा ॥४॥
अकारणेति । असज्जनात्खलात्कस्य साधोर्भयं साध्वसं न जायते न भवति । अपि तु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसज्जनात् । अकारणेत्यादि । अकारणमनिमित्तमेवाविष्कृतं प्रकटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरान्निष्ठुरात् । यस्य खलस्य सदा निरन्तरं मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सुदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥ ५ ॥
कट्विति । खला दुर्जनाः साधून्सज्जनानलमत्यर्थं तुदन्ति पीडयन्ति । किं कुर्वन्तः । क्वणन्तो रटन्तः । किम् । कटु ।[^2]अर्थाद्दुर्वचनमित्यर्थः । पुनः किंविशिष्टाः । मलदायकाः मलो मिथ्याकलङ्कस्तस्य दायकाः । आरोपका इत्यर्थः । क इव । बन्धनशृङ्खला इव । बन्धनं मनुष्यादेस्तदर्थं शृङ्खला लोहनिगडा इव । तेऽपि
टिप्प० - [^1] वास्तवे तु 'भवः' इति पाठः । भर्वोः हरि - हरयोरिति तदर्थः । [^2] कटु यथा स्यात्तथा कणन्तः शब्दायमानाः ।
[^१] 'बद्ध'.
[^२] 'लक्षया'.
[^३] ' भर्त्सो'.