कादम्बरी /359
This page has not been fully proofread.
३२६
कादम्बरी ।
[ कथायाम्-
उतम्, शून्यान्तःकरणमपि हृदयनिवासिदयितम्, तूष्णीकमर्पि कथितमदनवेदनातिशयम्,
शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन संताव्य-
मानम्, अतिनिः नेः स्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः प्रविष्टैरिवासह्य संतापसंत्रासप्रली-
नैरिव मनः क्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम् निःस्पन्द निमीलितेनान्त-
जर्वलन्मदनदहन धूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तर विवरवान्तानेकधारमनवरतमीक्षणयुग
लेन बाष्पजलदुर्दिन मुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गाग्नेः प्रदहतो हृदयादूर्ध्व संसर्पिणीं
शिखामिवादाय निष्पतद्भिरुच्छा सैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयनीकृतक-
रतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृत मच्छाच्छचन्दनरसरचितललाटिकमिव लला-
टदेशमुद्रहन्तम् अचिरापनीत पारिजात कुसुमकर्णपूरतया सशेषपरिमलामोदलोभोपसर्पिणा
.9
शून्येति । शून्यमन्य कर्तव्यतेच्छारहितमन्तःकरणं यस्यैवंविधमपि हृदये निवासिनी निवसनशीला दयिता
यस्येति विरोधः । कस्यचित्सद्भावे शून्यत्वाभावात् । तत्परिहारस्तु शून्यं ध्यानान्तरवर्जितं केवलं तदासक्तचित्त-
त्वादिति भावः । तूष्णीकमिति । तूष्णीकमपि मौनावलम्बिनमपि कथितो निवेदितो मदनवेदनाया अतिशय
उत्कर्षो येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मत्वात् । शिलेति । शिलातल उपविष्टमासीनमपि मरणे
व्यवस्थितं चलितमिति विरोध: । आसीनचलितत्वयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं भीतिस्त-
स्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पेण संताप्यमानं पीड्यमानम् । अतीति । अतिशयेन
यो निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तया हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तः प्रविष्टैरिवान्तर्गतै-
रिव । असहोति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयात्प्रलीनैरिव नष्टैरिव । मनस
इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्वा गतैरेवं-
भूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यका रित्वादेवेन्द्रियवत्ता तदभावाच्छून्यीकृत-
मित्यर्थः । पुनः किं कुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं त्यजन्तम् ।
नेत्रयुग्मं विशेषयन्नाह – अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाभिस्तस्य धूमो दहन-
केतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन मुद्रितेन ।
अथ बाष्पजलदुर्दिनं विशेषयन्नाह - अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्राणि तेभ्यो
वान्ता उद्गीर्णा अनेकधारा यस्मिन् । आलोहिनीति । हृदयं प्रदहतोऽनङ्गानेरुर्ध्वसंसर्पिणीमुपरिगामिनीं
शिखामिव ज्वालामिवालोहिनीं रक्तामधरप्रभां दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरुच्छा सैराहरै-
स्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुमकेसराणि समीपवल्लीपुष्पकजल्कानि येन स तथा तम् । वामेति ।
वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तया समुत्सर्पद्भिरुर्ध्व प्रसरद्भिर्नखांशु-
भिर्नखमयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यश्चन्दनरसस्तेन रचिता निर्मिता लला-
टिका तिलकविशेषो यस्मिन्नवभूतमिव ललाटदेशम
लिक प्रदेश मुद्वहन्तं धारयन्तम् । अचिरेति । अचिरापनीतं
स॒द्योनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्रमरसमूहेन सनी-
लोत्पलमिव सेन्दीवरमिव, सतमालपलवमिव सतापिच्छकिसलयमिव, श्रवणदेशं कर्णप्रदेशं दधानं धारयन्तम् ।
अथ मधुकरकुलं विशेषयन्नाह - सशेषेति । सशेषौ समग्रौ यावामोदपरिमलौ तत्र विदूरगः सुरभिरामोदो
टिप्प० -1 धिङ् मूढम् । अन्यकर्तव्यानि अनिच्छत एव हृदये प्रिया निनसतीति को विरोधः ?
तस्मात् हृदये दयितानिवासेऽपि तस्य शून्यत्वं विरुद्धम् । विषयान्तरविचारराहित्याच परिहारः ।
2 कथितो गात्रस्तम्भादिना सूचित इति तत्परिहारः । 3 पुनरपि धि मन्दम् । यः शिलातले उपविष्टः
सः मरणे कथं व्यवस्थितः, एकस्य युगपदधिष्ठानद्वयवृत्तित्वे विरोधः, व्यवस्थितं कृतनिश्चयमिति तत्परि-
हारः । 4 वामकपोलस्य शयनीकृतं इस्ततलं यस्य स वामकपोलशयनीकृतहस्ततलः, तद्भावस्तत्ता, तये-
त्युचितम् । 5 धिङ् मन्दभाग्य किं प्रलपसि ? सशेषः तदानीमध्यवशिष्टो यः परिमलस्तस्य य आमोद
( अनुभवजनित आनन्द: ) तस्य लोभात ( हेतोः ) उपसर्पिणा, इत्यर्थो बोध्यः ।