This page has not been fully proofread.

मदनार्तपुण्डरीकस्य दशा ]
 
पूर्वभागः ।
 
३२५
 
मानः पुनरचिन्तयम् -'स कदाचिद्धैर्य स्खलन विलक्षः किंचिदनिष्टमपि समाचरेत् । न हि
किंचिन्न क्रियते हिया । तन्न युक्त मेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् ।
अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्क-
मानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो निपुणमितस्ततो
दत्तदृष्टि: सुचिरं व्यचरम् ।
 
'अथै कस्मिन्सर ः समीपवर्तिनि निरन्तरतया कुसुममय इव, मधुकरमय इव, परभृतमय
इव, मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम् उत्सृष्टसकल-
व्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव
निश्चलमपि स्वैवृत्ताचलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुतामावह-
2
 
9
 
दपि तेन सह नाहं वियुक्तः, इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशयप्रदर्शन मिति भावः । कदा-
चिदिति । कदाचित्संभावनामात्रमेतत् । धैर्यस्य स्खलनं भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिदनिर्दिष्टनामक -
मनिष्टमप्यसमीहितमपि समाचरेत्समाचरणं कुर्यात् । हि निश्चितम् । हिया लज्जया किंचिन्न न क्रियते । अपि
तु क्रियत एवेत्यर्थः । 'द्वौ नजौ प्रकृतमर्थ सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेका किनमद्वितीयं कर्तु
विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्वेष्टुमन्वेषणां कर्तुमादर मुद्योगमकरवम घटयम् ।
अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्यलोकयं तथातथा सुहन्मित्रं तस्य स्नेहः प्रीतिस्तेन कातरेण
भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयीक्रियमाणस्तरुषु वृक्षेषु यानि लतागहनानि गह्व-
राणि, चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च निपुणमेकतानं वीक्ष-
माणो विलोक्य (क)मान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् ।
 
अथेति । इतस्ततो विचरणानन्तरमे कस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरी-
कमद्राक्षमपश्यमित्यन्वयः । लतागहनं विशेषयन्नाह - सर इति । सरसः कासारस्य समीपवर्तिनि पार्श्वस्था-
यिनि निरन्तरतया निबिडतया कुसुममय इव पुष्पमय इव, मधुकरमय इव भ्रमरमय इव । एतेन पुष्पाणामति-
सुरभित्वं सूचितम् । तेन भ्रमराणां बाहुल्यमिति भावः । परेति । परभृताः कोकिलास्तन्मय इव । एतेन सह-
कारोद्रेकः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुषस्यैव ग्रहणम् । मयूराः कलापिनस्त-
न्मय इव । एतेनातिरमणीयत्वं सूचितम् । अंत एवातिमनोहरेऽत्यभिरामे । अथ पुण्डरीकं विशेषयन्नाह - उ.
तसृष्ट इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तया लिखितमिव चित्रितमिव,
उत्कीर्ण मिवोत्कोरितमिव स्तम्भितमिव कीलितमिव उपरतमिव मृतमिव प्रसुप्तमिव शयितमिव । योगेति ।
योगस्य चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अत्र विरोधालंकार प्रदर्शनपूर्वकं तमेव
विशेषयन्नाह - निश्चलमिति । निश्चलं निःप्रकम्पमपि स्ववृत्तात्स्खाचाराञ्चलितमिति विरोधः । तत्परि-
हारपक्षे चलितं भ्रष्टमित्यर्थः । एवमग्रेऽपि स्वबुद्ध्या ज्ञेयम् । एकाकिनमप्यद्वितीयमपि मन्मथेन मनोभवेनाधि-
ष्ठितमाश्रितमिति विरोधः । द्वितीयाधिष्ठितत्वेनैका कित्वाभावात् । सानुरागमिति । अत्रानुरागो रक्तिमा
रक्तत्वं तेन सहितमपि पाण्डुतां श्वेततामावहन्तमादधानमिति विरोधः । रक्तश्वेतयोः स्वारसिकविरोधात् ।
 
टिप्प० - 1 लजितः । टीकाकारस्तु धन्यः । 2 उद्वन्धनादिकमवाञ्छितममङ्गलम् । 3 'चन्दन-
वीथिकाः' इति पृथगेव ग्रन्थानुकूलम्, सुचिरान्वेषणार्थ बहुत्वस्यानुगुणत्वात् । टीकाकारस्तु अस्पृष्टव्यु-
स्पत्तिकः । 4 मन्मथो न शरीरी, अत एवायमेकाक्येवेति समाधानम् । 5 सानुरागं प्रियतमायामास•
क्तमिति परिहारः ।
 
पाठा०- -१ सुवृत्तः तू.