कादम्बरी /357
This page has not been fully proofread.
३२४
कादम्बरी ।
[ कथायाम्-
उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गति •
नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृ
दसव इति कथयामि । 'अस्ति भवत्याः संमक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेना-
भिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरुत्सृष्टकुसुमावचयोऽन्य-
प्रदेशमगमम् । अपयातायां च भवत्यां मुहूर्तमिव स्थित्वैकाकी किमयमिदानीमाचरतीति
संजातवितर्कः प्रतिनिवृत्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्रा-
क्षम् । आसीच्च मे मनस्येवम्
– 'किं नु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन्गतो भवेत् ।
गतायां च तस्यां लब्धचेतनो लेजमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोखित्कु-
पितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं
विकल्पयन्कंचित्कालमतिष्ठम् । तेन तु जन्मनः प्रभुत्यनभ्यस्तेन तस्य क्षणमध्यदर्शनेन दूय-
S
4
टिप्प० – 1 पुण्डरीकम् । नामादिविस्मृतिः क्षम्या भवति । व्युत्पत्तिशैथिल्येऽपि बाणोक्तिव्याख्या-
धानिमित्तो ग्रन्थस्वारस्य विध्वंसस्तु क्रोधेन निर्मर्यादयति माम्, क्षन्तव्यं सुजनैः ।
पाठा० -१ समस्तम्. २ लज्जया.
613
अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते
न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्त वैपरीत्यदूषणमाह - अकथ्येति ।
तस्मिन्न प्रतिपाद्यमाने महाननर्धस्योपनिपातोऽकस्मात्पतनं जायते निष्पद्यते । भवतु, का नः क्षति-
रित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यवरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्ष-
णीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव । यदा कुमारेण
पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितामक्षमालामपि नाज्ञासीत् । तस्मिन्व्या-
मोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितोऽस्ति । तथा च
तेन प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः
कोपो यस्य सः । उत्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः । समित्कुशकुसुमाव-
चयनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमंग-
ममत्र॒जम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वैकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रत
किमाचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्य व्याघुट्य विटपैर्वृक्षैरन्तरित-
स्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकयमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे तं' कपिजलं नाद्राक्षं न
व्यलोकिषम्, तदा मे मम मनसि चित्त एवम प्रतिपाद्यमानमासीदभूत् । किं तदित्याह -- किं त्विति । अ-
व्ययाना मनेकार्थत्वात्किं नु कदाचिन्मदनेनानङ्गेन परायत्ता पराधीना चित्तवृत्तिर्यस्यैवं भूतस्तामेव गन्धर्वकन्यका-
मेवानुसरन्ननुव्रजन्गतो भवेत् । तस्यां गतायां च सत्यां लब्धा चेतना चैतन्यं येन सः । विशेषेण लज्जमानस्त्रपां
कुर्वाणो मे मम दर्शनपथमालोकनमार्गमुपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति । आहोस्विदिति । आहो-
स्विद्वितर्के । कुपितः कोपं प्राप्तः सन्मां परित्यज्य विहाय गतः प्रस्थितः । उतेति । उताथवा मामेवा-
न्वेषमाणो वीक्षमाण इतोऽन्यं प्रदेश समाश्रितः स्यात् । इत्येवं विकल्पयन्विकल्पनां कुर्वन्कंचित्कालम-
तिष्ठं स्थितवान् । तेन त्विति । जन्मनः प्रभृति जन्म मर्यादीकृत्यानभ्यस्तेनापरिचितेन तस्य पुण्डरीकस्य
क्षणमप्यदर्शनेनानवलोक्नेन दूयमानो दुःखं कुर्वाणः । पुनरहम चिन्तयं चिन्तितवान् । क्षणमपीत्यनेन कदाचि-