कादम्बरी /356
This page has not been fully proofread.
कपिझलस्यागमनम् ]
पूर्वभागः ।
३२३
प्रक्षालय चरणावुपसृज्य चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपा-
विशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां
चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव 'भगवन, अव्यतिरिक्तेयमस्मच्छरीरात् ।
अशतिमभिधीयताम्' इत्यवोचम् ।
A
१
एवमुक्तश्च मया कपिञ्जल: प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेय-
विषयमवतरति नपया । क कन्दमूलाशी शान्तो वननिरतो मुनिजनः क वायमनुपशान्तज-
नोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपश्चः । सर्व-
मेवानुपपन्नमालोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् ।
न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, किं तपसोऽनुरूपम्,
आहोखिद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना केवलम् । अवश्यकथनीयमिदम् । अपर
सादर सबहुमानं स्वयमात्मनाऽऽसनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठाद निच्छतोऽप्य-
वाग्छतोऽपि चरणौ पादौ प्रक्षालय धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं
कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमावेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये । मुहूर्तमिव
स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिञ्जलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्रमपातयत्पातित-
वान् । अहं त्विति । तु पुनरर्थकः । दृष्टथैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोच-
मित्यकथयम् । इति वाच्यमाह - भगवन्निति । हे भगवन्, हे खामिन्, अस्मच्छरीरादियं तरलिकाऽव्यति
रिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् ।
एवं पूर्वोक्तप्रकारेण मयोक्तश्च कपिजलः प्रत्यवादीत्प्रत्यवोचत् । किसुवाचेत्याह- राजपुत्रीति । हे राज-
पुत्रि, किं ब्रवीमि किं कथयामि । वागेव वचनमेव त्रपया लज्जयाभिधेयं विषयं वाच्यगोचरं नावतरति
नायाति । क्वेति । कन्दमूलाशी शान्तो वननिरतोऽरण्यासक्तो मुनिजनः क्व । अथ च रागप्रायो रागबहुलः
प्रपञ्चो मायाविस्तारः क्व । प्रपञ्च विशेषयलाह - अनुपशान्तेति । अनुपशान्तो रोषाद्युपयुक्तो यो जनो
मनुष्यस्तस्योचितो योग्यः, विषयः स्रक्चन्दनादिस्तस्योपभोगः पुनः पुनस्तदा सेवनं तस्याभिलाषः स्पृहा
तेन कलुषो मलिनः, मन्मथस्य कंदर्पस्य ये विविधा अनेकप्रकारा विलासा विभ्रमास्तैः संकटः सं-
कीर्णः । सर्वमेवै समप्रमेव अनुपपन्नमयुक्तमालोकय पश्य । दैवेनादृष्टेन किमकथ्य स्वरूपमारब्धं प्रार-
ब्धम् । खलु निश्चयेन । अयत्नेनैव प्रयासं विनैवेश्वरो भगवाजनमुपहासास्पदतां परिहासधामतां नयति
प्रापयति । न जाने इति । नाहं जानामि इदं किं वल्कलानां सदृशं योग्यम् । उताहो अथवा जटानां
सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोखिद्वितर्के । इदं धर्मोप-
देशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना । अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनी-
यम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतव्यतिरिक्त उपायः कारणं न दृश्यते नेक्ष्यते ।
टिप्प० – 1 रागः ऐहिकसुखलालसैव प्रायेण बाहुल्येन यस्मिन् सः । अयं प्रपञ्चः संसारः च ।
2 'अशान्तजनोचितः' इत्येव पाठः । अशान्तः शमेन इन्द्रियजयेन रहितो यो जनस्तस्य उचित इति
तदर्थः । 3 दैवेन किम् अनुपपनं सर्वमारब्धमिति स्वमालोकय इति योजना ।
पाठा०-
-१ मत्समीप. २ कन्दमूलफलाशी ३ शान्तोपवनरतः; शान्तो वनवासनिरतः