कादम्बरी /355
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
छन्धकारितहृदयाविव प्रारब्धनिमीलनासु पद्मिनीषु प्रासीकृतसामान्यमृणाललता विवर-
संक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रप्राहिण्या-
त्याकथयत् – 'भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्षमाला-.
मुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं
समुपज ततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् 'गच्छ । प्रवेश्यताम्' इत्यादिश्य प्राहि-
णवम् । अथ मुहूर्तादिष तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम्, मकरकेतनस्येव
वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारकं कपि जलनामानं
जराघवॅलितस्य कब्रु किनोऽनुमार्गेण चन्द्रातपस्येव बालातर्फे
मनुयायिनमपश्यम् । अन्तिकमु-
पागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिन
मिर्वांनुपरताभिप्रेतमा कारमलक्ष-
यम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि
३२२
G
-
दाय गृहीत्वेत्यर्थः। रक्तत्वसाम्यादुत्प्रेक्षामाह - प्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृणाललता बिस-
लतास्तासां विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ इति । हे
भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्ठी । अन्यतर एकः कश्चिद्वारि प्रतोल्यां तिष्ठति
स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षमालेति । अक्षमालां जपमालामुपयाचितुं प्रार्थितुमागतः
प्राप्तोस्मि । अहं त्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव । उत्कण्ठातिशयमाह -स्था-
नेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोली प्रदेश प्राप्तेव, समुपजाता समुत्पन्ना तस्य पुण्डरीक
स्यागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदल्लं समाहूयाह्वानं कृत्वा गच्छ व्रज, स प्रवे-
इयतां मध्ये प्रवेश कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयित्वा प्राहिणवं प्रेषितवती । अथेति । तत्प्रे-
षणानन्तरं मुहूर्तादिव । अत्रेवशब्दः सदृशार्थ: । मुहूर्त सहशादित्यर्थः । तदुक्तमलंकारशेखरे – 'इवाद्यैः प्रतिमा-
नाद्यैः समानार्थैर्निभादिभिः । बन्धबोरीदिवंशाद्यैः (?) सादृश्यप्रतिपत्तयः' इति । तमिति । तस्य पुण्डरीकस्यानुरूपं
सखायं मित्रम् । अनुरूपमित्रसंबन्ध प्रदर्शनार्थमुपमानान्तराण्याह - रूपस्येति । रूपस्य सौन्दर्यस्य यौवन-
मिव तारुण्यमिव । यौवनस्य तारुण्यस्य मकरकेतनमिव कंदर्पमिव । मकरकेतनस्य वसन्तसमयमिव सुरभिका-
लमिव । वसन्तसमयस्य दक्षिणा निलमिवापाचीपवनमिव मुनिकुमारकं तापसबालकं कपिञ्जलनामानं जरा वि
खसा तथा धवलितस्य शुश्रीकृतस्य कञ्चुकिनः सौविदल्लस्यानु मार्गेण पश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्या-
नुयायिनं पश्चाद्वामिनं बालातपमिव तमपश्यमवालोकयम् । एतेन कबुकिकपिजलयोस्तत्समीपावधि सहागम-
नेsपि वैलक्षण्यं द्योतितम् । अन्तिकमिति । अन्तिकं समीपमुपागतस्य प्राप्तस्य चास्य कपिजलस्य पर्याकुल-
मिवात्यन्तन्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्यमिवार्थिनमिव मार्गणमिवानुपैरतमपरिपूर्णम
भिप्रेतं वान्छितं यस्मिन्नेतादृशमाकारमाकृति मलक्षयमाकलयम् । उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभूताहं
टिप्प० - 1 भाग्यहीनो बहुवचनादिना पुनः सर्वस्वं ध्वंसयामास । ग्रासीकृतया सामान्यया एकया
( अर्थात् एकैव मृणाललता द्वाभ्यामपि चनुपुटेन उभयप्रान्ते धृता) मृणाललतया (कर्ज्या) विवरेण
निजछिद्रपथेन ( करणेन) संक्रामितानीव । इत्यर्थः । 2 ' बन्धुचोरादिवंश्यायैः' इति पाठः स्यात् ।
3 अयं पाठष्टीका कारसहशानां प्रियः । वास्तवे तु - 'अन्तर्गताकृतम्' अन्तर्गतम् आफूतम् अभिप्रायविशेषो
बस्य तम् अर्थात् तस्याकार ईडशो दृश्यते का यथा कश्चिदभिप्रायोऽस्य प्रकटनीयो वर्तते परं न तं स
बहिः प्रकाशयतीति ।
पाठा०-१ समागत्य. २ ऋषिकुमारकम् . १ धवलस्य ४ आगच्छतम् ५ उपगतस्य ६ अन्तर्गता कूतम्.