कादम्बरी /354
This page has not been fully proofread.
महाश्वेताया विह्वलता ]
पूर्वभागः ।
३२१
स्मानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तथा सह तस्मिन्नेव प्रासादे
तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ।
अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतेलावलम्बिनि रविबिम्बे,
सरागदिवसकरदर्शनानुरक्तायां कृतकमलशयनायामनङ्गातुरायामिव पाण्डुतां व्रजन्त्यामात-
पलक्ष्म्याम्, गैरिकगिरिस लिलप्रपातपाटलेषु कमलवनेभ्य उत्थाय वनगजयूथेष्विव पुञ्जीभ -
वत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेपारवप्रतिशब्द-
केन सह विशति मेरुगिरिगहरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्टमधुकर्याचलीषु विरैहमू-
प्रकाशंयन्ती । अन्वयस्तु प्रागेवोक्तः । अनयैवेति । अनयैव पूर्वोक्तयैव कथया वार्तया तथा सह तरलि -
कया समं तस्मिन्नेव प्रासादे सौधे प्रतिषिद्धो निवारितोऽशेष परिजनस्य प्रवेश आगमनं ययैवंभूता दिवसं दिन-
मत्यवाहयमत्येक्रामम् ।
अथेत्यानन्तर्ये । सा छत्रग्राहिण्यागत्याकथयदित्य ग्रिमग्रन्थसंबन्धः । तत्र 'मदीय –' इत्यारभ्य 'युगलेषु'
इतिपर्यन्तं सत्यन्तैः सायं समयवर्णनमाह-मदीयेति । मदीयेनेव हृदयेन कृतो रागस्य संविभागो यस्यैवंभूते
लोहितायति लोहि तवदाचरति गगनतलं व्योमतलं तत्रावलम्बिनि लम्बायमाने रविबिम्बे सूर्यबिम्बे सति । पुनः
कस्याम् । आतपलक्ष्म्याम् । किंविशिष्टायाम् । सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो यो दिव-
सकर: सूर्यस्तस्य दर्शनेनावलोकनेन तस्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु शयनं वा
यया सा तस्याम् । आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पेणातुरायामिव पीडितायामिव पाण्डुतां श्वेततां
व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु । तानेव विशेषयन्नाह - गैरिको घातुमयो गिरिः पर्व-
तस्तस्य सलिलमम्भस्तस्मिन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु । कमलवनेभ्यो नलिनखण्डेभ्य उत्थायोत्थानं
कृत्वा वनगर्जयूथेष्विवारण्यहस्तिसमूहेष्विव पुञ्जीभवत्स्खेकीभवत्सु । पुनः कस्मिन्सति । वासरे दिवसे मेरुगिरि -
गह्वरं निकुञ्ज विशति प्रविशति सति । कथं सह केनेत्यभिप्रायेणाह- - गगनेति । गगन आकाशेऽवतारः परिभ्र
मणं तस्माद्यो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रमोदस्तेन
हेषारवस्तस्य प्रतिशब्दकः प्रतिच्छन्दस्तेन सह । सार्धमित्यर्थः । तथा च रविकिरणानामधःस्थलं परित्यज्योर्ध्व-
गमनान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुङ्मलितानि यानि रक्तपङ्कजानि कोकनद नि
तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु नलिनीषु
सत्सु । कृष्णत्वसाम्यादाह - विरहेति । विरहो वियोगः । रवेरिति शेषः । तेन या मूर्च्छा तयान्धकारितं
संजातान्धकार हृदयं यासामेवंविधाविव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथाङ्गनाम्नां
चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यन्योन्यानुरागलक्षणान्या-
टिप्प० - 1 अगमयमित्यर्थः । टीकाकारस्य तु प्रलापः, णेरावश्यकत्वात् । 2 सूर्यदिम्बे कृतराग-
संविभागे लोहितायति सति गगनतलावलम्बिनि च सति, इत्यर्थो योग्यः । एवमग्रिमवाक्येष्यपि,
टीकाकारस्तु अलौकिकबुद्धिः । 3 वस्तुतस्तु 'सरागदिवसकरानुरक्तायाम्' इत्येव पाठः । 4 गैरि-
काख्यो यो धातुविशेषस्तस्य गिरिर्गैरिकगिरिः । 5 वनगजा अपि गैरिकसलिलप्रपातेन पाटलाः सन्तः
सायमेकन पुजीभवन्ति, सूर्यकिरणा अपि पाटलाः सन्तः सायं संकुचितावस्थतया पुञ्जीभवन्तीति
द्वयोः साम्यादुपमा । 6 स्त्रीवं स्यात् ।
पाठा० - १ तलोपान्ताव, २ समुत्थाय ३ मधुकरावलीषु. ४ रह.
४१ का०