This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
३२०
द्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुष्टावेश क्रिययेव
पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा
सरिदिव पूरेण विह्वलतामभ्यॆगमम् । तां च द्वितीयदर्शनेनः कृतमहापुण्यामिवानुभूतसुरलोक-
षासामिव, देवताधिष्ठितामिव, लब्धवरामिन, पीतामृतामिव समासादितत्रैलोक्यराज्याभि-
घेकामिव मन्यमाना, सततसंनिहितामपि दुर्लभ दर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमा-
भाषमाणा पार्श्ववस्थितामपि सर्वलोकस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरैल कलता भङ्गेषु
घ सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय
कथं स खया दृष्टः, किमभिहितासि तेन, कियन्तं काळमवस्थितासि तत्र कियदनुसरन्न-
.
 
¹9
 
,
 
श्र्वं यथाजातस्येव । ज्वरेण तापेन यः प्रलापोऽसद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्या (या) संबद्धभाषिण इव कद्र-
दस्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विषविह्वलस्येव विषार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति
भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्यया शास्त्रेणाधर्मरुचेरिव पापस्येव । मदिरेति । मदिरया
गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दु॑ष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तया पिशाचग्रहस्येव
ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुली क्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाहं विह्वलतां
व्याकुलतामभ्यगममैत्रापम् । तां चेति । तां तर लिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति
दूरेणान्वयः । इतिशब्दयोत्यमाह - तरलिकेति । हे तरलिके, कथय निवेदय । स पुण्डरीकः कथं केन प्रका-
रेण त्वया दृष्टोऽवलोकितः किमभिहितासि कथितासि तेन पुण्डरीकेण । कियन्तं कालमवस्थितासि विलम्बि-
तासि । तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुवजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीय-
• मुनेदर्शनेनावलोकनेन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति
महच्छब्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभवविषयीकृतः सुरलोकवासः स्वर्गे निवासो यया तादृशी-
मिव । देवतयाधिष्ठिताश्रिता तादृशीमिव । लब्धेति । लब्धो वरो देवप्रसादो ययैतादृशीमिव । पीत-
मिति । पीतमाखादितममृतं पीयूषं ययैवंभूतामिव । समेति । समासादितः प्राप्तस्त्रैलोक्यस्य राज्यमाधिपत्यं
तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना । पुनरहं किं कुर्वाणा । सततमिति ।
सततं निरन्तरं संनिहितामपि पार्श्ववर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचिता-
मप्यतिसंस्तवगोचरीकृतामप्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्धन्त्यहम् । पार्श्वे
समीपेऽवस्थितामप्यासीनामपि सर्वलोकस्य समप्रविश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गल्ला-
त्परप्रदेशयोरलकलताभङ्गेषु सोपग्रहं सानुकूलं यथा स्यात्तथा स्पृशन्ती स्पर्श कुर्वन्ती । विपरीतमिति ।
मत्समीहितकरणात्त्वं तु स्वामिनी, अहं तु तव परिजनः, इति विपरीतः संबन्धः । तमिवोपदर्शयन्ती बहिर्वृत्त्या
 
टिप्प०-1 दुष्टा या आवेशक्रिया (जन्मसंबन्धिनाडीनक्षत्रेषु पापग्रहाणां प्रवेशकार्यम् ) तया
पिशाचग्रहस्सेज ( पिशाचेन ग्रहः ग्रहणं यस्य, पिशाचप्रस्तस्येव ) । अयं भावः- पूर्वमेव पिशाचेन ग्रहणं
तदुपरि यदि जन्मर्केषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् । प्रोक्तं हि - 'ईहा देहाथ-
हालिः स्याजन्मर्श उपतापिते । कर्मक्षै कर्मणां हानिः पीडा मनसि मानसे ॥' इति । टीकाकारस्य तु
प्रलापमात्रम् । 2 'प्रापम्' इति बोध्यम् । अहो धन्यं टीकाकृतो व्याकरणज्ञानम् !
 
-
 
पाठा०-१ दूरावेशक्रियया. २ अगमम्. ३ अलकता भङ्गेषु; अल्कलतासङ्गेषु.