कादम्बरी /352
This page has not been fully proofread.
पूर्वभागः ।
पुण्डरीकस्य प्रवृत्तिनिवेदनम ]
तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयवस्कलैकदेशाद्विपाट्य पट्टिकां
स्वहस्त कम लकनिष्ठिकानखशिखरेणाभिलिख्य 'इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमे-
काकिन्यै देया' इत्यभिधायार्पितवान् । इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्श-
यत् । अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषये -
णापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदना वेशम श्रेणेवा वेश्यमामा तस्याः करतलादादाय तां
वल्कलपत्रिकां तस्यामिमामभिलिखितामार्यामपश्यम्-
'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥'
अनया च मे दृष्टया दियोहभ्रान्त्येव प्रणष्टवर्त्मनः बहुलनिशयेवान्धस्य, जिह्नोच्छिन्त्येष
मूकस्य, इन्द्रजालिक पिच्छिकयेवातत्त्वदर्शिनः उवरमलापप्रवृत्त्येवासंबद्धभाषिणः, दुष्टनि
g
9
दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेकप्रदेशात्पट्टिकां प्रसिद्धां
विपाट्य द्वैधीकृत्य खकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस्या नख-
शिखरेण नखरायेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधायेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेयमाह-
त्वयेति । त्वया भवत्या तस्यै कन्यकायै महाश्वेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीया । अथ
सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनातू तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शितवती ।
अहं त्विति । तु पुनरर्थकः । अहमित्यात्म निर्देशः । तस्यास्तरलिकायाः करतलाद्वस्ततलात्तां वल्कलपत्रिका-
मादाय गृहीत्वा तस्यामिमामभिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् । आवेश्यमानावेशवि-
षयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन, संलापेन किं कुर्वता । शब्द-
मयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता । अत्रापि -
शब्दो विरोधयोतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविषयीकृतः
सर्वाष्प्रवेशो यस्य स तेन । अत्रापिशब्दः पूर्ववत् । वैलव्यसादृश्यादाह -- मदनावेशमन्त्रेणेव मदनस्य
कंदर्पस्यावेशः प्रवेशस्तदुत्पादकमन्त्रेणेव । अथ तामार्यामाह- दूरमिति । मानसे मनसि जन्म यस्यैवंभूतो
मनोरैथोऽभिलाषो मुक्तालतयैकावल्या विप्रलोभ्यमानो लोभं प्राप्यमाणो दर्शिताशा फलप्राप्तिर्यस्यैवंभूत-
स्त्वया नीतः तवैव समीपे तिष्ठति । त्वामेव विषयीकरोतीति भावः । मानसजन्मत्वसाम्यादुत्प्रे-
क्षते - हंस इवेति । यथा मानसजन्मा हंसो मुक्तावन्निर्मला या लता व्रतत्यस्ताभिः प्रकर्षेण लोभ्यमानो
दर्शिताशा गमनार्थं दिग्यस्यैवंभूतोऽन्यत्र नीयते । अथ लतां विशेषयन्नाह - बिसेति । बिसं मृणालं तद्वच्छु-
भ्रया धवलयेत्युभयोर्विशेषणम् । अनयेति । अनया पत्रिकया मे मम दृष्टया विलोकितया सत्या स्मरातुरस्य
मदनातुरस्य मे मम मनसो दोषविकारस्योपचयः पुष्टिः सुतरामत्यर्थमक्रियत व्यधीयतेत्यन्वयः । अत्रार्थ उप-
मानान्तराणि प्रदर्शयन्नाह - दिगिति । दिमोहभ्रान्त्या करणभूतया प्रणष्टवर्त्मन उत्पथगामिन इव । बहु-
लेति । बहुलनिशया कृष्णपक्षरात्र्यान्धस्येव गताक्षस्येव । जिह्वेति । जिह्वोच्छित्त्या रसनाकर्तनया मूकस्येव ।
इन्द्रेति । इन्द्रजालिकस्य मायिकस्य या पिच्छिका यया लोकानां हग्बन्धः क्रियते, तया अतत्त्वदर्शिन.
-
W
टिप्प० -- 1 इदमध्यप्रसिद्धत्वादज्ञानमेव । 2 भाग्यवता टीकाकृता सर्वोप्यर्थ चूर्णीकृतः । अत
एव - बिसवत् सितया मुक्तामालया विशेषरूपेण लोभं प्रापितः, दर्शिता आशा (मनोरथपूर्ते: भाशंसा)
यस्सै सः ईदृशो मानसजन्मा कामदेवः, हंस इव त्वया दूरं नीतः । हंसोऽपि - बिसवत् श्वेतया मुक्तानां
कतया - लतावलम्बाकारया पक्क्या विशेषेण भक्षणलोभं प्रापितः दर्शिता लेन सह नयनार्थमभीष्टा दिह
(दिशा) यस्मै सः मानसे (तदाख्य सरोवरे ) जन्म यस्य सः दूरे खनिवासाद्विप्रकर्ष प्रापित इति सारार्थः ।