This page has not been fully proofread.

कादम्बरी ।
 
लेखमसृणितंचरणनखचक्रस्य
 
प्रणयप्रसुप्तगन्धर्वकामिनीकपोलपत्रलतालाञ्छितभुजतरुशिख-
रस्य पादपीठीकृतलक्ष्मीकरकसलस्य गन्धर्वाधिपतेर्हसस्य दुहिता महाश्वेता नाम गन्धर्वाधि-
वासं हेमंकूटाचलमभिप्रस्थिता' इति, कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा
विगत निमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामित्र दर्शयन्पुनराह – 'बालिके,
कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्य-
र्ध्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः - 'भगवन्
कस्मादेवमभिधत्से । काहम् । महात्मानः सकलत्रिभुवन
पूजनीयास्त्वादृशाः पुण्यैर्विना नि-
खिलकल्म पापहारिणीमस्मद्विधेषु दृष्टिमपि नै पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमा-
दिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । एवमुक्तश्च मया सस्नेहया सखीमिवोपका-
रिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष्पीड्य
 
३१८
 
[ कथायाम्-
मध्यस्तासां शिखराण्यप्राणि तेभ्यो य उल्लेखः संघर्षस्तेन मसृणितं लक्षणीकृतं चरणयोर्न खचक्रं पुनर्भवसमूहो
यस्य स तथा तस्य । प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्र-
लताभिर्लान्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरममं यस्य स तथा तस्य । अनेन सुरतविशेषो
योतितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दान-
शौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह - नामेति कोमलामन्त्रणे । महाश्वेता इति । सांप्रतं क
गतेति तदाशयमभिप्रेत्याह
- गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकूटाचलमभिप्रस्थिता ।
तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्मुहूर्तमिव घटिका-
द्वयसदृशामिव । अत्रापीदशब्दः सदृशार्थः । तूष्णीं जोषं स्थित्वा विगतनिमेषेण मेषोन्मेषरहितेन चक्षुषा
नेत्रेण चिरं चिरकालं यावदभि संमुखं वीक्षमाणो मां प्रति सानुनयं सनेहमर्थितामिव मार्गणसदृशता-
मिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इति वाच्यमाह - बालिके इति । हे बालिके, कल्याणिनी
कल्याणं श्रेयो विद्यते यस्याः यस्यां वा सैवंभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति'
इत्युक्तेः 1 बालभावेऽपि बालखभावेऽप्यचपला स्थिरा तवेयमाकृतिराकारः । तदिति हेत्वर्थे । अभ्यर्थ्य-
माना प्रार्थ्यमानैकं मे मम वचनं करोषि प्रणयसि । तत्त इति । ततोऽनन्तरं सविनयं सप्रश्रयमुप-
रचितं बद्धमञ्जलिपुटं ययैवंभूतया मया दर्शितादरं यथा स्यात्तथेत्यभिहित उक्तः । इति शब्दवाच्यमाह
- भग-
वन्निति । हे भगवन् हे स्वामिन् कस्मात्केन हेतुनैवं पूर्वोक्तप्रकारेणाभिधत्से कथयसि । काहं बालव्यजन-
धारिणी । सकलत्रिभुवनपूजनीयाः समग्रविश्वार्चनीया महात्मानस्त्वादृशा भवादृशाः क । पुण्यैर्विना धर्मव्यति-
बेकेणास्मद्विधेष्वस्मादृशेषु निखिलकल्मषापहारिणीं दृष्टि न पातयन्ति चक्षुषा नावलोकयन्ति । किं पुनराज्ञा-
मादेशप्रदानम् । दूरापास्तमिति भावः । तत्तस्माद्धेतोर्विश्रब्धं सविश्वासं कर्तव्यं कृत्यमादिश्यतामादेशं दीयताम् ।
अथ चायं मल्लक्षणो जनोऽनुगृह्यतामनुग्रह विषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहयाँ सप्रेमया मयो -
तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदात्रीमिव मां दृशा
चक्षुषाभिनन्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलयमादाय
गृहीत्वा तटबलातले तीरप्रस्तरे निष्पीड्य संमर्थ तेन निष्पीडनोद्भूतेन गन्धगजा गन्धेभारतेषां मदो
 
">
 
टिप्प० -- 1 भुजौ एवेति द्विवचनं योग्यम् । 2 पूर्वार्जितसुकृतैर्विना इति व्याख्योचिता। 8 धि मन्द-
भाग्यम् । 'सस्नेहया दृष्ट्या मामभिनन्द्य' इति योजना । अपरिचितायाः स्नेहप्रकाशनं त्वस्वाभाविकमेव ।
पाठा०===१ नखचरण. २ हेमकूटमचलस्. ३ निपातयन्ति,