This page has not been fully proofread.

पुण्डरीकस्य प्रवृत्तिनिवेदनम् ]
 
पूर्वभागः ।
 
३१७
 
सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलघरस्य तस्यैवाभिमुखी, तथैव तां तद्विरहातुर-
जीवितोद्गमरक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती तथैव च तथा प्रस्तुततद्रह स्यालापयेव
कर्णलग्नया पारिजातमञ्जर्या तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलकर्णपूराय-
माणेन रोमाञ्चजालेन कण्ट कितैककपोलफलका निष्पन्दमतिष्ठम् ।
 
अथ ताम्बूलकरडवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातुमासीत् । सा च
पञ्चाचिरादिवागत्य तथावस्थितां शनैः शनैर्मामवादीत् -- 'भर्तृदारिके, यौ तौ तापसकुमारकौ
दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंसीकृता
सुरतरुमञ्जरी स तस्माहितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतान गहना-
न्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् - 'बालिके, केयं कन्यका,
कस्य वापत्यम्, किमभिधाना, क वा गच्छति' इति । मयोक्तम् – 'एषा खलु भगवतः श्वे-
तभानोरंशुसंभूतायामप्सरसि गौर्या समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशला काशिखरो-

 
जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । यथा तेन कुमारेण कण्ठे न्यस्ता तथैव, तस्य विरहेण
वियोगेनातुरं पीडितं यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावलीं जपमालां कण्ठेन निगरणेनो-
द्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तथा कर्णलग्नया श्रवणप्राप्तया प्रस्तुतः प्रारब्धस्तस्या (स्य)-
रहस्यालापो ययैवंविधयैव पारिजातमञ्जर्या । तथैव च तेन पूर्वोक्तप्रकारेण तस्य यत्करतल स्पर्शस्तस्माद्यत्सुखं सातं
तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुड्डालं तस्य कर्णपूरायमाणेन कर्णपूरवदाचरमाणेन रोमाञ्च-
जालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकमद्वितीयं कपोलफलकं यस्याः सा तथा निष्पन्दं निश्चलम-
तिष्ठं स्थितवती ।
 
अथेत्यानन्तर्ये । मदीया तरलिका । नामेति कोमलामन्त्रणे । ताम्बूलकरङ्कवाहिनी मयैव सह स्नातुमालवं
कर्तुमागता समायातासीत् । सा चेति । सा ताम्बूलकरङ्कवाहिनी पश्चान्मद्गृहागमनानन्तरं चिरादिव चिर-
सहशा दिवागत्यैत्य तथावस्थिताम् । विरहातुरामित्यर्थः । मां शनैः शनैर्मन्दमन्दमवादीदवोचत् । किमुवाचे-
त्याह - भर्त्रिति । हे भर्तृदारिके हे राजपुत्रि । ताविति । एकः -पुण्डरीकस्तत्सहानुगतश्च कपिअल इमौ द्वौ
तापसकुमारकौ दिव्याकारौ मनोहराकृती अस्माभिरच्छोदसरस्तीरे यौ दृष्टाववलोकितौ, तयोर्मध्य एकः । कपिञ्जलं
निराकुर्वन्नाह – येनेति । येन कुमारकेण भर्तृदुहितुर्भवत्या इयं सुरतरुमञ्जरी पारिजातवल्लरी कर्णावतंसीकृता
श्रवणोत्तसीकृता । स इति । स मुनिः पुण्डरीकस्तस्मात्कपिजलादात्मनः स्वस्य दर्शनं वीक्षणं रक्षन्गोपयन्नतिनि-
भृतान्यतिनिश्चलानि पदानि यस्यैवंभूतः । कुसुमिताः पुष्पिता या लता वल्लयस्तासां संतानं परम्परा तेन गहनं
निबिडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागत्य भर्तृदारिकामुद्दिश्या-
श्रियेत्यप्राक्षीत्प्रश्नमकार्षीत् किं प्रश्नं कृतवानित्याह - बालिके इति । हे बालिके हे कन्यके, केयं कन्यका ।
कस्य वापत्यं प्रजा । किमभिधाना किंनाम्नी । क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह - मयेति ।
मयेत्युक्तं कथितम् । इति वक्तव्यमाह - एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरं-
शुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्या समुत्पन्ना संजाता गन्धर्वाधिपतेर्हंसस्य दुहितात्मजा । अथ
विशिनष्टि – सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुटेषु मणिदृढबन्धार्थ शलाकाः स्वर्ण-
mapp
 
टिप्प० - 1 निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव । 2 चन्द्रस्य । गन्धर्वाधिपतेरिति
टीका तु प्रलापमात्रम् । एवंविधोपि मन्दभाग्यष्टीकयतीति तु दुर्दैवं बाणस्य ।
पाठा० -१ सुरतरुकुसुममअरी २ अंशुभूतायाम्; अंशभूतायाम्.