कादम्बरी /35
This page has been fully proofread twice.
तत्संप्रदाये प्रथितप्रभावो बभूव दानर्षिरतिप्रसिद्धः ।
यदीयवैराग्यकथां प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥
तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः ।
श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥
श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीर्न्यायविदां वरेण्यः ।
यत्तर्कयुक्त्या त्रिदिवं [^१]निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥
तदीयपादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः ।
श्रीवाचकः संप्रति भानुचन्द्रो ह्यकब्बरक्ष्मापतिदत्तमानः ॥
श्रीशाहिचेतोब्जषडड्ङ्घ्रितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः ।
कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते[^२] ॥
इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितविघ्नविघातफलकं हिरण्यगर्भनमस्कारात्मकं मङ्गलमाचरति - रजोजुष इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुषे रजोगुणयुक्ताय । पुनः किंविशिष्टाय । प्रजानां स्थितौ स्थितिकाले सत्त्ववृत्तये सत्वस्य वृत्तिर्यस्मिन् । सत्त्वगुणयुक्तायेत्यर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशे तमोगुणयुक्ताय । अमीषां च गुणानां लक्षणम् 'सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुर्वावरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किंविशिष्टाय । सर्गस्थितिनाशहेतवे प्रजानामित्यस्य सर्वत्रानुषङ्गः । तेन प्रजानां सर्गः स्थितिश्च नाशश्च तेषां हेतवे कारणीभूताय । पुनः किंलक्षणाय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी । तन्मयाय तत्स्वरूपाय । पुनः किंविशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्गुणयोगात्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय[^३] नम इति प्राचीनव्याख्या ॥ अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संबन्धात्त्रि- गुणात्मकत्वमतिविरुद्धम् । किं च विधेस्तमोगुणवत्त्वे सत्त्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः अपि च पूर्वार्धे जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धे सर्गस्थितिनाशहेतव इति त्रिगुणात्मन इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्याख्यास्यामः - अजाय कूटस्थ-
नित्याय परब्रह्मणे नम इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजानामित्यनित्यमात्रपदार्थोपलक्षकम् । तेनानित्यपदार्थानां सर्गस्थितिनाशकारणायेत्यर्थः।अनित्यपदार्थानां सृष्टिस्थितिनाशहेतुत्वं च श्रुतिसिद्धम् । 'जगत्कारणं ब्रह्म' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्स्वरूपाय । 'वेद एव परं ब्रह्म' इत्युक्तत्वात् । यद्वा । त्रयी ब्रह्मविष्णुमहेशानां त्रयी तत्स्वरूपाय । यथा मृद उत्पन्नेऽपि घटे मृन्मय इति व्यवहारस्तथा ब्रह्मणस्त्रयाणामुत्पादकत्वेऽपि त्रयीमयत्वव्यवहारः समुचितः । ब्रह्मविष्णुमहेशास्त्रयो जीवा एवेति वेदान्तिनः । अत एव त्रिगुणात्मकाय । भेदाभेदविवक्षयेत्यर्थः । तस्य परब्रह्मणः कथं ब्रह्मविष्णुमहेशात्मकत्वमत आह - प्रजानां जन्मनि सृष्टौ रजोजुट् प्रजापतिस्तत्स्वरूपायेत्यर्थः । पुनः प्रजानां स्थितौ सत्त्ववृत्तिर्विष्णुस्तत्स्वरूपाय । पुनः प्रजानां प्रलये तमःस्पृक् शिवस्तत्स्वरूपाय । यथैकस्यैव स्फटिकस्य नीलपीतादिगुणसंबन्धान्नीलः पीत इति व्यवहारस्तथैकस्यैव परब्रह्मणः सृष्टिकाले रजोगुणसंबन्धाद्ब्रह्मेति, स्थितिकाले सत्त्वसंबन्धाद्विष्णुरिति प्रलये तमःसंबन्धादीश्वर इति व्यवहारः । तेन
परब्रह्मण एवायं नमस्कार इति किं बहुना ॥ १ ॥
[^१] सिषेचेवे इति स्यात् ।
[^२] अक्षरवृद्ध्या छन्दोभङ्गः ।
[^३] अजाय इत्यस्य पितामहाय (ब्रह्मणे) इति स्वयमर्थं विधाय खण्डनमिदं टीकाकृतः स्वस्यैव खण्डनं नूनम् । न जायते इत्यजः अजन्मा आदिपूरुषः परमात्मैवात्र अजपदेन गृह्यते, न ब्रह्मा । सर्गस्थितिनाशहेतवे इत्यनेन एकमात्रस्य परमात्मनोऽस्यैव
सत्त्वादिगुणभेदात्त्रिमूर्तिव्यपदेश इत्युत्तरार्द्धे सूचनात् । सोयमर्थः स्वीकृतस्तेन स्वपाण्डित्यं प्रथयितुमन्ते । एवमेवाग्रेपि ग्रन्थस्वारस्यमविचिन्त्य यत्किञ्चिद्व्याख्यानं स्थालीपुलाकन्यायेनारम्भे सूचितमित्यलं विद्वत्सु ।
यदीयवैराग्यकथां प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥
तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः ।
श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥
श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीर्न्यायविदां वरेण्यः ।
यत्तर्कयुक्त्या त्रिदिवं [^१]निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥
तदीयपादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः ।
श्रीवाचकः संप्रति भानुचन्द्रो ह्यकब्बरक्ष्मापतिदत्तमानः ॥
श्रीशाहिचेतोब्जष
कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते[^२] ॥
इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितविघ्नविघातफलकं हिरण्यगर्भनमस्कारात्मकं मङ्गलमाचरति - रजोजुष इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुषे रजोगुणयुक्ताय । पुनः किंविशिष्टाय । प्रजानां स्थितौ स्थितिकाले सत्त्ववृत्तये सत्वस्य वृत्तिर्यस्मिन् । सत्त्वगुणयुक्तायेत्यर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशे तमोगुणयुक्ताय । अमीषां च गुणानां लक्षणम् 'सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुर्वावरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किंविशिष्टाय । सर्गस्थितिनाशहेतवे प्रजानामित्यस्य सर्वत्रानुषङ्गः । तेन प्रजानां सर्गः स्थितिश्च नाशश्च तेषां हेतवे कारणीभूताय । पुनः किंलक्षणाय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी । तन्मयाय तत्स्वरूपाय । पुनः किंविशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्गुणयोगात्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय[^३] नम इति प्राचीनव्याख्या ॥ अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संबन्धात्त्रि- गुणात्मकत्वमतिविरुद्धम् । किं च विधेस्तमोगुणवत्त्वे सत्त्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः अपि च पूर्वार्धे जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धे सर्गस्थितिनाशहेतव इति त्रिगुणात्मन इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्याख्यास्यामः - अजाय कूटस्थ-
नित्याय परब्रह्मणे नम इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजानामित्यनित्यमात्रपदार्थोपलक्षकम् । तेनानित्यपदार्थानां सर्गस्थितिनाशकारणायेत्यर्थः।अनित्यपदार्थानां सृष्टिस्थितिनाशहेतुत्वं च श्रुतिसिद्धम् । 'जगत्कारणं ब्रह्म' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्स्वरूपाय । 'वेद एव परं ब्रह्म' इत्युक्तत्वात् । यद्वा । त्रयी ब्रह्मविष्णुमहेशानां त्रयी तत्स्वरूपाय । यथा मृद उत्पन्नेऽपि घटे मृन्मय इति व्यवहारस्तथा ब्रह्मणस्त्रयाणामुत्पादकत्वेऽपि त्रयीमयत्वव्यवहारः समुचितः । ब्रह्मविष्णुमहेशास्त्रयो जीवा एवेति वेदान्तिनः । अत एव त्रिगुणात्मकाय । भेदाभेदविवक्षयेत्यर्थः । तस्य परब्रह्मणः कथं ब्रह्मविष्णुमहेशात्मकत्वमत आह - प्रजानां जन्मनि सृष्टौ रजोजुट् प्रजापतिस्तत्स्वरूपायेत्यर्थः । पुनः प्रजानां स्थितौ सत्त्ववृत्तिर्विष्णुस्तत्स्वरूपाय । पुनः प्रजानां प्रलये तमःस्पृक् शिवस्तत्स्वरूपाय । यथैकस्यैव स्फटिकस्य नीलपीतादिगुणसंबन्धान्नीलः पीत इति व्यवहारस्तथैकस्यैव परब्रह्मणः सृष्टिकाले रजोगुणसंबन्धाद्ब्रह्मेति, स्थितिकाले सत्त्वसंबन्धाद्विष्णुरिति प्रलये तमःसंबन्धादीश्वर इति व्यवहारः । तेन
परब्रह्मण एवायं नमस्कार इति किं बहुना ॥ १ ॥
[^१] सिषे