कादम्बरी /349
This page has not been fully proofread.
30
$1
३१६
कादम्बरी ।
[ कथायाम्-
प्रतीकार इति सर्व प नाशासिषम् । केवलमारुह्य कुमारीपुरप्रासादं विसर्थ्य च सखीजनं द्वारि
निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्यै काकिनी मणिजालगवाक्ष
निक्षिप्तमुखी, तामेव
दिशं तत्सनाथतया प्रसाधितामिषे महारत्ननिधानाधिष्ठितामिव अमृतरससारसागरपूरला वि-
तामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त मनिलमपि
वनकुसुमपरिमलमपि शकुनिष्वनिमपि तद्वार्ता प्रष्टुमीहमाना, तद्वल्लभतया तपःक्केशायापि
स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्राम्यतां
तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवासात्सुर-
लोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव
के
-
प्रतीकारः प्रतिक्रिया । अथ विरहेण विप्रलम्भपुष्टिं प्रदर्शयन्नाह – केवलेति । केवलमन्यनिरपेक्षम् । कुमारीणां
पुर इति । पदैकदेशे पदसमुदायोपचारादन्तः पुरप्रासादमवरोधगृहमारुह्यारोहणं कृत्वा सखीजनं आलीजनं
विसर्ज्य दूरीकृत्य द्वारि प्रतोल्यां निवारितो निषिद्धोऽशेषः समग्रः परिजनस्य परिच्छदस्य प्रवेश आगमनं
यया सा । तथा सर्वव्यापारान्समग्रकृत्यान्युत्सृज्य विमुच्यैका किन्यद्वितीया मणिनिर्मितानि जालानि यस्मिन्नेवं-
भूतो यो गवाक्षो वातायनस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैर्वभूता । तामेव मुनिकुमारकाधिष्ठितां
दिश ककुभमीक्षमाणा विलोकमाना । अथ तद्वस्तुजन्यसंतोषजनकत्वसाम्येन तामेव दिशमुत्प्रेक्षते - तत्सना-
थेति । तत्सहिततयेत्यर्थः । प्रसाधितामिव । भूषितामिव । महान्ति रत्नानि यस्मिन्नेवंभूतं यन्निधानं कुनाभि-
स्तेनाधिष्ठितामाश्रितामिव अमृतरसेन पीयूषरसेन सौरः प्रधानो यः सागरः समुद्रस्तस्य पूरः लवस्तेन
लावितामिया कीर्णामिव । पूर्णः समग्रो यश्चन्द्रः शशाङ्कस्तस्योदय उद्गमस्तेनालंकृतामिव भूषितामिव । दर्शनेऽव-
लोकने सुभगां मनोहराम् । कामाभिभूतस्य चेतनाचेतनसाधारण्यं प्रदर्शयन्नाह - तस्मादिति । तस्मान्मु-
निकुमारकाधिष्ठिताद्द्द्दिगन्तरादा गच्छन्तमायान्तमनिलमपि, तथा वनकुसुमपरिमलमप्यरण्य पुष्पगन्धमपि, तथा
शकुनिध्वनिमपि पतत्रिरुतमपि तस्य पुण्डरीकस्य वार्ता प्रवृत्ति प्रष्टुं प्रश्नविषयीकर्तुमीहमाना वाञ्छमाना
तस्य मुनेर्वल्लभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती । अपिशब्दः प्रातिकूल्यं निराकरोति । तदायत्ततया
प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह- स्मरेणेति । मुनित्वेन ज्ञातेऽपि
स्मरेण कंदर्पेण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तैस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं मौ
यया सा, तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेषस्य तापसनेपथ्यस्याग्राम्यतां साधुताम् । स एवास्पदं
यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य मुनेर्यः श्रवणसंपर्कः कर्णसंबन्ध-
स्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य देवलोकस्य
रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्य समृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयतामध्यारोप-
यन्त्यध्यारोपं कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी । कस्य केव । सवितुः
सूर्यस्य कमलिनीव नलिनीव । तथा चन्द्रमसः कुमुदर्बान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव । तथा
टिप्प० - 1 निधिः । 2 वास्तवे तु 'अमृतरससागरपूर' इत्येव पाठः । सारपदस्याऽर्थापोषकत्वात् ।
3 बान्छन्तीत्यर्थः । 4 भाग्यहीनः सर्वमस्पष्टं चकार । तस्मात् तस्य प्रीत्येव गृहीत मौनत्रता अर्थातूष्णी-
मवस्थिता, इति पृथग्विशेषणम् । स्मरजनितपक्षपाता चेति हेतुगर्भ विशेषणम् । अर्थात् स्मरेण तत्संब
न्धिषु वस्तुषु पक्षपातो जनितः, अत एव तस्य ( पुण्डरीकस्य ) परिग्रहणात् ( हेतोः ) मुनिवेषस्य अन्येषां
दृष्टौ ग्राम्यत्वेपि अग्राम्यताम् (अध्यारोपयन्ती), एवं यौवनस्य चारुतामित्यादि ।
पाठा० -१ इन कुसुमितामिव महारत २ अमृतरससागर प्लाविताम् ३ दूरतः स्थितस्य; दूरस्था.