कादम्बरी /348
This page has not been fully proofread.
पूर्वभागः ।
विरहातुरा महाश्वेता ]
इति। तच श्रुत्वाईमात्मकण्ठादुन्मुच्य मकरध्वजलास्यारम्भलीलापुष्पाञ्जलिमेकावलीम् 'भग-
बन्, गृह्यतामक्षमाला' इति मन्मुखासकदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय
स्वेदसलिलखातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीय-
माना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् ।
गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि, किं तत्रैव
स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि किं प्रैस्तुतालापास्मि, किं
जागर्मि, किं सुप्तास्मि, किं रोदिमि, किंन रोदिमि, किं दुःखमिदम्, किं सातमिदम्,
किमुत्कण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं
निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्व नाबागच्छम् । अविज्ञातमदनवृत्तान्ता च क
गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽख
देशादिमामक्षमालामदत्त्वासमर्प्य पदात्पदमपि न गन्तव्यम् । तचेति । तत्पूर्वोकं श्रुत्वाकर्ण्यात्मकण्ठात्खकीय-
निगरणादहं मकरध्वजस्य कंदर्पस्य लास्यारम्भलीला नाट्यप्रारम्भीडा तस्यां पुष्पाञ्जलिरेवंभूतामेकावलीं मुक्ता-
प्रालम्बमक्षमालेति कृत्वा हे भगवन्, गृह्यतामुपादीयतां इति अस्य मुनेः प्रसारिते विस्तारिते पाणी तां निधाय
( सं )स्थाप्य स्वेदसलिलेन श्रमवारिणा स्त्रातापि कृतस्नानापि पुनः पुनः स्नातुभवातरमवतीर्णवती । अथ मुनिं
विशेषयनाह – शून्येति । शून्यं हृदयं चेतो यस्य स तथा तस्य । तत्र हेतुमाह - मन्मुखेति । मदानने
आसक्ता लमा दृष्टिर्यस्य स तथा तस्य । उत्थायेति । उत्थानं कृत्वा कथमपि महता प्रयत्नेन सखीजनेन
चयस्याजनेन बलाद्धठात्प्रतीपं पश्चान्नीयमाना प्राप्यमाणा । तत्र दृष्टान्तमाह - निगेति । यथा निम्नगा
नदी महाप्रयत्नेनैव पश्चान्नीयते, एवंविधाहमम्बया जनन्या सह सार्धं तमेव मुनिकुमारकं चिन्तयन्ती ध्यायती ।
अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तदुतम् – 'अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो
व्यतिरेचकः' इति । स्वभवनं निजसद्मायासिषमागतवती ।
-
गस्वेति । गत्वैत्य । स्वभवनमिति शेषः । कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा । चकारः पुनर-
थंकः । ततःप्रभृति तद्दिनादारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा व्याकुला सत्यहमिति सर्व नावागच्छं
नावागममिति दूरेणान्वयः । इति शब्दार्थमाह - किमागतेति । किमिति सर्वत्र वितर्कार्थे । अहमागतास्मि
गृहं समायातास्मि किमिति पूर्ववत् । तत्रैवाच्छोदसरस्तीरे स्थितास्मि । किमेकाकिन्यसहायास्मि । किं परिवृता
परिवारान्वितास्मि । किं तूष्णीमस्मि । किं प्रस्तुतः प्रारब्ध आलापः संलापो ययैवंविधारिम । किं जागर्मि निद्रा-
क्षययुक्तास्मि । किं सुप्तास्मि कृतनिद्रास्मि । किं रोदिमि । किं न रोदिमि । किं दुःखमिदम् । किं सातमिदं
सौख्यमिदम् । किमुत्कण्ठेयम् । किमयं व्याधिरामयः । किमिदं व्यसनैमस्यासक्तिः । किमयमुत्सवो महः । किमेष
दिवसो दिनम् । किमियं निशा रात्रिः । कानि वस्तूनि रम्याणि शोभनानि । कानि च तद्विपरीतानि । अर
म्याणीत्यर्थः । अवीति । अविज्ञातोऽनाकलितो मदनस्य कंदर्पस्य वृत्तान्त उदन्तो यया सैवंभूताहमिति सर्व
नाज्ञासिषं न ज्ञातवती । इति शब्दार्थमाह -क्वेति । व गच्छामि ब्रजामि । किं करोम्यनुतिष्ठामि । किं शृणो-
म्याकर्णयामि । किं पश्यामि विलोकयामि । किमालपामि किं वदामि । कस्य कथयामि निवेदयामि । कोऽस्य
टिप्प० - 1 टीकाकारेण स्वाभ्यंस्तमुपात्तम् । वास्तवे तु 'सुखमिदम्' इत्येव पदशय्यानुकूलः पाठः ।
2 व्यसनं विपत् इत्येव व्याख्योचिता ।
पाठा०१ आत्मकण्ठान्मकर. २ प्रखत, ३ सुखम्.