कादम्बरी /347
This page has not been fully proofread.
३१४
कादम्बरी ।
[ कथायाम्-
कासौ तपस्यभिनिवेशः, के सा भोगानामुपर्यरुचिः, क तयौवनानुशासनम्, सर्वथा निष्फला
प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारको गुरूपदेशविवेकः, नि-
प्रयोजना प्रबुद्धता, निःकारणं ज्ञानम्, यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते ।
प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेत-
नत्व मॆपहतानामेबम् । इदमपि तावर्द्धियमाणमनयानार्थया निवार्यतां हृदयम्' इत्येवमभि-
धीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् – 'सखे कपिञ्जल, किं मामन्यथा संभा-
वयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालामहणापराधमिमम्' इत्यभिधा-
यालीककोपकान्तेन प्रथमविरचित भीषणभ्रुकुटिभूषणेन चुम्बनाभिलाषरफुरिताधरेण मुखे-
न्दुना मामवदत् - 'चकले, प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात्पदमपि न गन्तव्यम्'
निवेश आग्रहः क । तथा भोगानां विषयाणामुपरि साऽरुचिरस्पृहा क । तथा तदनिर्वचनीयस्वरूपं यौवनस्य
तारुण्यस्यानुशासनं नियन्त्रणं क । सर्वथेति । सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना । निर्गुण
इति । धर्मशास्त्राणां स्मृत्यादीनामभ्यासो भूयोभूयस्तदभ्यसनं स एव निर्गुणैः । जाड्यापहारलक्षणगुणरहित इत्य-
थः । निरर्थकेति । संस्कारो ब्राह्मण्यापादनविधिः स एव निरर्थकः । यवुद्दिश्य क्रियते तदनाप्तेः । निरुपेति ।
गुरूपदेशाद्यो विवेकः पृथगात्मता स निरुपकारकः । निरर्थक इत्यर्थः । निरिति । प्रबुद्धता प्रेक्षावत्ता
निःप्रयोजना निर्हेतुका । निरिति । ज्ञानं श्रुतादि निःकारणं निर्निमित्तकम् । यदत्रेति । यदिति हेत्वर्थे । अ-
त्रेति । अस्मिन्नवसरे रागाभिषज्ञैरिच्छाभिष्वङ्गैर्भवादृशा अपि त्वत्सदृशा अपि कलुषी क्रियन्ते मलिनी क्रियन्ते ।
प्रमादैश्चेति । प्रमादैर्विषयादिभिरभिभूयन्ते पराभूयन्ते । चकारः समुच्चयार्थः । तदेव दर्शयति - कथमिति ।
करतलाद्धस्ततलाद्गलितां च्युतां तथा तयापहृतां गृहीतामक्षमालामपि कथं न लक्षयसि कथं न जानासि । अहो
इत्याश्चर्ये । अपैहतानां कामपीडितानामेवं पूर्वोक्तप्रदर्शितरीत्या विगतचेतनत्वं नष्टचेतनत्वम् । इदमिति ।
तावदादाविदमपि हृदयं चित्तमनयानार्यया हियमाणमाकृष्यमाणं निवार्यतां दूरीक्रियतामित्येवं तेन कपिझले-
नाभिधीयमानः कथ्यमानः किंचिदीषदुपजाता प्रादुर्भूता लज्जा त्रपा यस्य स इव प्रत्यवादीप्रत्यवोचत् । सखे
इति । हे सखे कपिजल, किमिति प्रश्ने । मामन्यथा तन्मनस्कत्वेन संभावयसि संभावनाविषयीकरोषि परमे-
तस्यां मन्मनोविकृतिर्नास्ति, तथाक्षमालाग्रहणनिमित्तकरोषोऽप्यन्यथा मुनीनां समदर्शित्वं, न स्यादिति भावः ।
अथ चेत्कपिजल, तव शङ्कितं मनस्तदेतस्या दुर्विनीतकन्यकाया इममक्षमालाग्रहणापराधं जपमालास्वीकरणागसं
नाहं मर्षयामि सहिष्ये । इति पूर्वोक्तमभिधायोक्त्वा मुखेन्दुना वऋलक्षणचन्द्रेण मामिति प्रत्यवोचत्प्रत्यब्रवीत् ।
अथ मुखेन्दुं विशेषयन्नाह - अलीकेति । अलीको मिथ्या न तु वास्तवः एवंविधो यः कोपः क्रोधस्तेन
कान्तेन मनोहरेण । प्रयत्नेति । प्रयत्नेन बलात्कारेण । कोपाभावादिति भावः । विरचिता निर्मिता भीषणा
भैरवा भ्रुकुटिः सकोपभ्रूविकृतिः सैव भूषणं यस्मिन् तेन । चुम्बनेति । चुम्बनं संबन्धविशेषस्तस्याभिलाष
इच्छाविशेषस्तेन स्फुरितः कम्पितोऽधर ओष्ठो यस्मिन् । किमुव चेत्याह - चञ्चलेति । हे चञ्चले, अस्मात्प्र-
टिप्प० - 1 उचितानुचितपरिज्ञानरूपो यो गुणस्तेन रहित इत्यर्थ उचितः । एतरपूर्वम् ' एव' निवे-
शस्तु घोरमज्ञानम्, विपरीतार्थबोधकरवात् । एवमप्रेपि । 2 स्वकर्तव्यात् स्खलनरूपैः । 3 टीकाकारः
सर्वथा ग्रन्थधूमकेतुः ! 'अहो विगतचेतनत्वम्, अपहृता नामेयम्' इत्येव पाठः । इयं भक्षमाला तु
अमया ( कन्मया ) अपहृता नाम जलालुण्ठिता नाम, इदानीम् अनार्ययाऽनया अपहियमाणं हृदयमपि
निवारय । इति व्याख्या । एकस्य अपहरणे जाते संप्रति अपहियमाणस्य रक्षणावश्यकत्वात् ।
पाठा० -१ क सा संयमिता क. २ सङ्गानाम्. ३ यत्र. ४ प्रमोद: ५ अपहृता नामेयम्. ६ अपहियमाण. ७ चपले.