This page has not been fully proofread.

पुण्डरीकाय कपिजलोपदेश: ]
 
पूर्वभागः ।
 
३१३
 
गृहगमनकालः । तत्क्रियतां मज्जनविधिः' इति । अहं तु तेन तस्या वचनेन नवग्रहा करि-
णीव प्रथमाङ्कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा तन्मुखाल्लावण्यामृतपकमन्ना-
मिव कपोलपुलककण्टकजालकलग्नामिव मदनशरशलाका की लिता मिव सौभाग्यगुणस्यूता-
मित्र अतिकृच्छ्रेण दृष्टिं समाकृष्य स्त्रातुमुदचलम् । उच्चलितायां च मयि द्वितीयो मुनिदार-
कस्तथाविधस्तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् - 'सखे पुण्ड-
रीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः
कश्चन प्राकृत इव विक्कुवीभवन्तमात्मानं न रुणत्सि । कुतस्तवापूर्वोऽयम द्येन्द्रियोपप्लवः,
येनास्येवं कृतः । क ते तद्वैर्यम्, फासाविन्द्रियजयः क तद्वशित्वम्, चेतसः क सा प्रशा-
न्तिः, क तरकुलक्रमागतं ब्रह्मचर्यम्, क सा सर्वविषयनिरुत्सुकता, क ते गुरूपदेशाः,
तानि श्रुतानि, क ता वैराग्यबुद्धयः, व तदुपभोगविद्वेषित्वम्, कसा सुखपराड्युखता,
 

 
अथ च गृहगमनकालः सद्मव्रजनसमयः प्रत्यासीदति विनितो भवति । अतो मज्जनविधिः स्नानविधिः क्रियतां
विधीयताम् । अहं स्विति । अहं तस्याश्छत्रधारिण्यास्तेन वचनेन प्रथमाङ्कुशपातेनाद्यसृणिप्रहारेण नवः प्र-
त्यम्रो यस्या एवंविधा करिणी हस्तिनी तद्वदिव कथंकथमपि महता कष्टेनानिच्छयानीहया समाकृष्यमाणा
दृष्टिं चक्षुरतिकृच्छ्रेणातिकष्टेन समाकृष्य स्नातुमुदचलमुदद्व्रजम् । कीदृशीमिव । लावण्यामृतमेव पङ्कः कर्दमरतत्र
मनामिव । कपोलेति । कपोलयोः पुलकलक्षणा ये कण्टकास्तेषां जालकं तत्र लग्नामिव । मदनेति ।
मदनस्य कंदर्प शरा बाणास्तेषां शलाका ईषिकास्ताभिः कीलितामिव यन्त्रितामिद । सौभाग्येति ।
सुभगस्य भावः सौभाग्यं तल्लक्षणो यो गुणस्तेन स्यूतामिवान्योन्यश्लिष्टामिव । उच्चलितायामिति । मय्यु-
चलितायां प्रचलितायां सत्याम् । चकारः समुच्चयार्थः । द्वितीयः कपिजलो मुनिदारकस्तयाविधस्तादृशस्तस्य
पुण्डरीकस्य धैर्यस्खलितं सत्त्वस्खलनामालोक्य वीक्ष्य किंचिदीषत्प्रकटित आविष्कृतः प्रणयकोपः स्नेहकोपो
येन तत्सदृश इवावादीदवोचत् । रोषोक्तावतीव वैरस्यं स्यादिति भावः किं तदिलाह - सखे इति । हे
सखे पुण्डरीक, भवतस्तव नैतदनुरूपं योग्यम् । क्षुद्रजना नीचलोकास्तैः क्षुण्ण आचीर्ण एष मार्गः पन्थाः ।
भवत इत्यत्रापि संबध्यते । हि यस्मात्कारणात्साधवो मुनयो धैर्यमेव धनं द्रव्यं येषामेवंविधा भवन्ति । यः क-
चनानिर्दिष्टाभिधानः प्राकृतः पामरस्तद्वदिव विक्लवीभवन्तं विह्वलीभवन्तमात्मानं क्षेत्रज्ञं किं न रुणत्सि कि
ननिरोधं करोषि । अपूर्वोऽननुभूत आद्यः प्रथम इन्द्रियोपलवः करणोपद्रवोऽयं प्रत्यक्षोपलभ्यमानस्तव भ
वतः कुतः । किंनिमित्तक इत्यर्थः । येनेति । येनेन्द्रियोपलवेनैवं कृतः । शिथिलतां नीतोऽसि । त्वमिति शेषः ।
तदेव दर्शयन्नाह – क्वेत्यादि । ते तव तद्धैर्य क । तथेन्द्रियाणां करणानामसौ जयो निरोधः । तथा तद-
निर्वचनीयस्वरूपं वशित्वं तन्त्रत्वं क्व । तथा चेतसश्चित्तस्य सा प्रशान्तिः क । तथा तत्कुलक्रमागतं कुलप-
रिपाट्यागतं ब्रह्मचर्य कामविरतिः क्व । तथा सा सर्वविषयेषु समप्रेन्द्रियार्थेषु निरुत्सुकता निरुत्साहता क्व ।
तथा गुरूणां हिताहितोपदेशदेष्टृणामुपदेशा हितशिक्षाः क । तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व । तथा
ताः सर्वाधिका वैराग्यं विरक्तता तस्या बुद्धयः प्रतिभाः क्व । तथा तासामङ्गनानां स्त्रीणामुपभोगः पुनः पुनरासेवनं
तस्मिन्विद्वेषित्वं वैरित्वं क्व । तथा सुखास्सौख्यात्पराङ्मुखता पराचीनता क्व । तथा तपसि व्रतविशेषेऽसावभि-
टिप्प० - 1 प्रत्यासन्नः निकटगतः अर्थात् उपस्थित इत्याशयः । 2 अक्षराणि च्युतानीति प्रतीयते ।
नवः ग्रहः ग्रहणं ( बन्धने आनयनम्) यस्याः सा इत्यर्थः । 3 ग्रन्थस्वारस्यानभिज्ञता सेयम् । 'तथा-
विधम्' इति पाठेन 'ताडशं धैर्यस्खलितम्' इति योजनमेव ग्रन्थानुकूलम् । 4 हन्त चूर्णीकृतमेव स्वर
सम् ! 'अद्य' इत्येवोचितम्, अपूर्वपदेन पौनरुक्त्यात् ।
 
पाठा०-
-१ आकृष्य. २ तथाविषम् ३ अद्य. ४ केन.
 
४० का०