कादम्बरी /345
This page has not been fully proofread.
३१२
कादम्बरी ।
[ कथायाम्-
•
दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरी-
कृता । तदेतत्कात्सर्येन योऽयंम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं समा-
रूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन्स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवा-
दीत
— 'अयि कुतूहलिनि, किमनेन प्रायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम्'
इत्युक्त्वा समुपसृत्यात्मीयाच्छ्रवणादपनीय कलेर लिकुलकणितैः प्रारब्धर तिसमागम प्रार्थना-
मित्र मदीये श्रवणपुढे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजा-
तकुसुममवतंसस्थाने पुलकमासीत् । स च मस्कपोलस्पर्शसुखेन तरलीकृत लिजालकारकर-
तलादक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्ता मेव भूतलमक्षमालां
गृहीत्वा सलीलं तद्भुजपाशसंदानितकण्ठ ग्रह सुखमिवानुभवन्ती दर्शितापूर्वहारलतालीलां
कण्ठाभरणतामनयम् ।
इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत्
- 'भर्तृदारिके, स्नाता देवी । प्रत्यासीदति
मजर्याः को दोषः । प्रणयेन स्नेहेन परिग्रहः स्वीकारः क्रियतां विधीयतामिति मयाभिधायोक्खा निच्छतो-
ऽप्यवाञ्छतोऽपीयं अस्य कर्णपूरीकृता श्रवणाभरणीकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छाविषयी कृतं
कार्येन साकल्येन मया सर्वमावेदितं कथितम् । तदेतत्किमित्यभिप्रायेणा—योऽयमित्यादि । योऽयं
कुमारः, येयं मञ्जरी, यथा येन प्रकारेणास्य श्रवणशिखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीति ।
तस्मिन्मुना वित्युक्तवति कथितवति सति । स इति । स पुण्डरीकस्तपोधनयुवा किंचिदीषदुपदर्शितं स्मित
मदृष्टरदं हास्यं येनैवंभूतो मामवादीत्प्रत्यवोचत् । अयीति संबोधने । अयि कुतूहलिनि, अनेन प्रश्नायासेन
पृच्छापरिश्रमेण किम् । यदीति । यदि रुचितो रुचिविषयीभूतः सुरभिपरिमलो यस्या एवंविधेयं तदा
गृह्यतां प्रहणविषयीक्रियताम् । इति पूर्वोक्तमुक्ला समुपसृत्य समीपमागत्यात्मीयात्स्वकीयाच्छ्रवणातकर्णाद-
पनीय दूरीकृत्य मदीये श्रवणपुढे तां मजरीमकरोदघटयत् । कलैरिति । कलैर्मनोज्ञैर लिकुलक्क णितैर्मधुकर कु-
लशब्दितैः । प्रारब्धेति । प्रारब्धा प्रस्तुता रतिसमागमस्य संभोगसमागमस्य प्रार्थना याचना ययैवंभूतामिव ।
एतेन खानुरक्तिः प्रदर्शिता । मम विति । मम तु । तु पुनरर्थकः । तस्य यत्करतलं तत्स्पर्शलोभन तत्तृष्णया
तरक्षणमवर्तसंस्थाने पुलकं अपरं पारिजातकुसुममिवासीत् । एतेन द्वितीय कर्णेऽपि तच्छोभा सूचिता । स
चेति । स पुण्डरीको मत्कपोलस्पर्शसुखेन गल्लात्परप्रदेशाश्लेषसातेन । तरलीकृत कम्पनीकृत मङ्गुलिजालकं
यस्यैवभूतात्करतलाद्धस्ततलालज्जया त्रपया सह गलितां च्युतामप्यक्षमालां जपमालां नाज्ञासीन ज्ञातवान् ।
तदनुरक्तं ज्ञात्वा तस्य पुण्डरीकस्य यो भुजपाशो बाहुपाशस्तेन संदानितः संयतो यः कण्ठग्रहः कण्ठालिङ्गनं
तज्जनितं यत्सुखं तत्सदृशमिव । अत्रेवशब्दः सादृश्यार्थः । तदुक्तमलंकारशेखरे – 'भवन्तीवादिशब्दाश्च साह-
इयप्रतिपत्तये' । अनुभवन्त्यनुभवविषयी कुर्वन्ती कण्ठाभरणतां निगरणभूषणतामनयमानीतवती । कीदृशीम् ।
दर्शिता प्रकटीकृतापूर्वहारलताया लीला यस्यां सा ताम् ।
-
इत्थमिति । इत्थंभूत एताहचे व्यतिकरे परस्परानुरागातिशये छत्रप्राहिण्यातपत्रधारिणी मामवो-
चदब्रवीत् । किमुवाचेत्याह - भर्जिति । हे भर्तृदारिके हे राजपुत्रि, स्नाता कृतस्नाना देवी त्वन्माता वर्तते ।
टिप्प० - 1 धिक् टीकाकारम् । न खलु मञ्जर्या दोषः प्रसक्तो यदेवमुच्येत । तस्मात् –' को दोषः
अर्थात् वनदेवताया अनुरोधस्वीकारे ( मञ्जरीग्रहणे ) को दोषः' इत्यर्थः । 2 अर्थात् कर्णे । 3 इय-
मध्यव्युत्पत्तिः । बाहुपाशेम संदानितो यः कण्ठस्तस्य ग्रहणसुखम् ( तदा लिङ्गन सुखम् ) अनुभवन्तीव
इत्यर्थ उचितः ।
पाठा०-१ योऽयं या चेयम्. २ श्रवणशिखरे, ३ प्रश्नाशयेन. ४ गृह्यताम्. ५ हृदयम्.