कादम्बरी /343
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम-
,
मुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च भगवतः सुरलोकसुन्दरीहृदयानन्दकरम्,
अशेषत्रिभुवनसुन्दरम् अतिशयितनलकूबरं रूपमासीत् । स कदाचिदेवतार्चनकमलाम्यु-
द्धर्तुमैरावतमदजलबिन्दुबद्धचन्द्रकशतखचितजलां हरहसितसितस्रोतसं मन्दाकिनीमवत-
तार । अवतरन्तं च तं तदा कमलवनेषु संततसंनिहिता विकचसहस्रपत्रपुण्डरीकोपविष्टा देवी
लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममदैमुकुलितेनानन्दबाष्पभरतरङ्गतरलतारेण
लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भमन्थरमुखविन्यस्तहस्त पल्लवाया मन्मथवि-
कृतं मनं आसीत् । आलोकनमात्रेण च समासादितसुरतसमागमसुखायास्तस्मिन्नेवासनी-
कृते पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुदपादि । ततस्तमुत्सङ्ग आदाय सा
'भगवन् गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनो-
३१०
समूहस्तेन वन्दितं नमस्कृतं चरणयुगलं पादयुग्मं यस्य स तथा । तस्येति । तस्य श्वेतकेतोर्भगवतः ।
सुरेति । सुरलोकस्य याः सुन्दर्यः स्त्रियस्तासां हृदयानि चित्तानि तेषामानन्दकरं प्रमोदोत्पादकम् ।
अशेषेति । अशेषं यत्रिभुवनं त्रिविष्टपं तस्मात्सुन्दरं हृयम् । अतीति । नलकूबरात्कुबेरपुत्रादतिशयितमति-
शयितनलकूबरम्। 'सुतोऽस्य नलकूबरः' इति कोशः । 'कचिदमायन्तस्य परत्वम्' इति नलकूबर
परप्रयोगः । अतिशयितोऽतिक्रान्तो नलकूबरो येनेति बहुव्रीहिर्वा । नलकूबररूपापेक्षयात्युत्कृष्टरूपमित्यर्थः ।
एवंविधं रूपं सौन्दर्यमासीदभूत् । स इति । कदाचित् कस्मिंश्चित्समये स श्वेतकेतुर्देवतानामर्चनं पूजनं तदर्थं
कमलानि नलिनान्युद्धर्तुमुत्पाटयितुं मन्दाकिनीं स्वर्धुनीमवततारावतीर्णवान् । अथ मन्दाकिनीं विशेषयनाद-
ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य मदजलं दानवारि तस्य बिन्दवः पृषतास्तैर्बद्धं यच्चन्द्रकशेतं मेचकशतं
तेन खचितं व्याप्तं जलं यस्यां सा तथा ताम् । हरेति । हरः शंभुस्तस्य हसितं स्मितं तद्वत्सितं शुभ्रं स्रोतः
अवाहो यस्याः सा ताम् । अवेति । तदा तस्मिन्कालेऽवतरन्तमम्बरादागच्छन्तं श्वेतकेतुं मुनिं कमलवनेषु
नलिन खण्डेषु संततं निरन्तरं संनिहिता समीपवर्तिनी विकचानि विकस्वराणि सहस्रपत्राणि यस्मिन्नेवंभूतं
पुण्डरीकं सिताम्भोजं तत्रोपविष्टासीना लक्ष्मीदेवी ददर्श दृष्टवती । तस्या इति । तस्या लक्ष्म्यास्तं मुनि-
मवलोकयन्त्या ईक्षणं कुर्वन्त्याः । तु पुनरर्थकः । मन्मथेन कंदर्पेण विकृतं सविकार मनश्चित्तमासी-
दभूत् । अथ लक्ष्मी विशेषयन्नाह - प्रेमेति । प्रेममदः प्रीतिमदस्तेन मुकुलितेन कुमलितेन । आनन्देति ।
आनन्देन प्रमोदेन यो बाष्पभरो हर्षनेत्राम्बुसमूहः स एव तरङ्गः कल्लोलस्तेन तरला कम्पना तारा कनी निका
यस्मिन्नेवंविधेन लोचनयुगलेन नेत्रयुग्मेन रूपं सौन्दर्यमाखादयन्त्याः पिबन्त्याः । जृम्भिकेति । जृम्भिका
जृम्भणं तस्या आरम्भ आरम्मणं तेन यन्मन्थरं मुखं तस्मिन्विन्यस्तः स्थापितो हस्तपल्लवो यया सा तस्याः ।
आलोकनेति । आलोकनमात्रेण केवलं निरीक्षणेनैव समासादितं प्राप्तं सुरतसमागमसुखं मैथुनसंगमसातं
यया सा तस्याः । तस्मिन्नेवासनीकृते विष्टरतां नीते पुण्डरीके कृतार्थता सफलतासीत् । तस्मात्पुण्डरीकात्कु-
मारः समुदपाद्युत्पन्नः । तत इति । ततः कुमारोत्पत्तेरनन्तरं तं कुमारकमुत्सङ्गे कोड आदाय गृहीत्वा सा
लक्ष्मीः हे भगवन् हे स्वामिन् गृहाणायं तवात्मजस्त्वदनज इत्युक्त्वा प्रतिपाद्य तस्मै श्वेतकेतवे तं कुमारकं
ददौ दत्तवती । असावपि श्वेतकेतुरपि बालजनोचिताः शिशुजनयोग्याः सर्वाः क्रिया: प्रसवैनादिकाः
CARCAS
टिप्प० - 1 विविधवर्ण जाज्वल्यमानं वर्तुलाकारं चिह्नवृन्दम् (तैलादिबिन्दोः पतने यद्धि जलस्तरो-
परि भवति) । 2 रमणस्य सफलता बीजपातो जात इत्याशयः । 3 सप्तमीपाठे श्रवणयोर्विसन्धिता प्रती-
यत इति 'उत्सङ्गेनादाय' इति ग्रन्थोचितः पाठः । 4 तत्तु जातमेव, अत एव नामकर्मादिका हृत्युचितम् ।
पाठा० -१ सुरासुरलोक. २ संनिहिता ३ प्रेमममन्द ४ उत्सङ्गे.