कादम्बरी /342
This page has not been fully proofread.
पुण्डरीकजन्मवृत्तान्तः ]
पूर्वभागः ।
AN
4
विलासानुपदिशति, अन्यथा विविधरसासङ्गललितेष्वीदृशेषु व्यतिकरेष्व प्रविष्टबुद्धेरस्य जनस्य
कुत इयमेनभ्यस्ताकृती रतिरसनिः स्यन्दमिव क्षरन्नी, अमृतमिव वर्षन्ती, मदमुकुलितेव,
खेदालसेव, निद्राजडेव, आनन्दभरमन्थरतरत्तारसंचारिणी, अनिभृतलतोल्लासिनी दृष्टिः ।
कुतश्चेदमतिनैपुण्यम्, यञ्चक्षुपैवानक्षरमेवमन्तर्गतो हृदयाभिलाषः कथ्यते' । प्राप्तप्रसरा चोपै-
सृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् - 'भगवान्किमभिधानः । कस्य
वायं तपोधनस्य युवा । किंनाम्नश्च तरोरियमैवतंसीकृता कुसुममञ्जरी । जनयति हि मे मनसि
महत्कौतुकमस्याः समुत्सर्पन्न साधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः' इति । स तु मामीष•
द्विहस्याब्रवीत् – 'बाले, किमनेन पृष्टेन प्रयोजनम् । अथ कौतुकमावेदयामि । श्रूयताम्-
अस्ति त्रिभुवनप्रख्यातकीर्तिरत्युदारतया सुरासुरसिद्धवृन्द वन्दितचरणयुगलो महा-
भयो ।
pahaya.
माह - अन्यथेति । विविधा अनेके ये रसाः शृङ्गारादयस्तेषामासङ्गः संश्लेषस्तेन ललितेषु मनोहरेष्वीदृशेषु
व्यतिकरेषु संबन्धेष्वप्रविष्टा प्रवेशमप्राप्ता बुद्धिः प्रतिभा यस्य स तथा तस्यैवंभूतस्यास्य मुनिजनस्येयं दृष्टिः कुतः
स्यात् । अथ च दृष्टिं विशिष्टि - अनेति । अनभ्यस्ता परिचिताकृतिराकारो यया सा तथा । रतिरसः शृङ्गार-
रसस्तस्य निःस्यन्दं सारं क्षरन्तीव स्रवन्तीव । अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव । मदो मुन्मोहसंभेदस्तेन
मुकुलितेव कुजालितेव । खेदः श्रमस्तेनालसेव मन्थरेच । निद्रा प्रमीला तया जडेव स्तम्भितेव। आन-
न्देति । आनन्दस्य प्रमोदस्य यो भरस्तेन मन्थरालसा, एवंविधा तरन्ती तारा कनीनिका यस्मिन्नेतादृशः
संचारो विद्यते यस्याः सा तथा । अनीति । अनिभृता चञ्चला या भ्रूलता तस्या उल्लासो विद्यते यस्याः सा
तथा । कुत इति । इदम तिनैपुण्य मतिशयेन दक्षत्वं कुतः स्यात् । तदेव व्यनक्ति - यदिति । यद्यस्मात्कार-
णादन्तर्गतो हृदयाभिलाषश्चित्ताभिप्रायोऽनक्षरं यथा स्यात्तथा चक्षुषैव नेत्रेणैव कथ्यत उच्यते । प्राप्त इति ।
तादृश विचारणया कुमारस्य सविकारं हृदयमिति निश्चित्य प्राप्तः प्रसरोऽवकाशो यया सैवंविधेवोपसृत्य समीपं
समागत्यास्य मुनिकुमारस्य तं द्वितीयं सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छमवोचम् । किं तदित्याह - भग.
वानिति । किमभिधानो भगवान् । कस्य तपोधनस्यायं युवा । इयं किंनाम्नः किमभिधानस्य तरोवृक्षस्य कुसु-
ममञ्जर्यवतंसीकृतोत्तंसीकृता । अस्या मञ्जर्याः समुत्सर्पन्प्रसरत्नसाधारणं सौरभं यस्मिन्नेवंविधोऽनाघ्रातपूर्वो नासि-
कयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्य जनयति निष्पादयति । स त्विति । स
मां प्रतीषद्विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । बाले इति । हे बाले हे कुमारिके, अनेन पृष्टेन किं
प्रयोजनं कोऽर्थः । अथेति । चेद्यद्यर्थे । कौतुकमाश्चर्यं तदावेदयामि कथयामि श्रूयतामाकर्ण्यताम् ।
अस्तीति । नामेति कोमलामन्त्रणे । दिव्यलोकनिवासी स्वर्गलोकवसनशीलः श्वेतकेतुर्महामुनिरस्ति ।
त्रिभुवनेति । त्रिभुवने त्रिविष्टपे प्रख्याता विख्याता कीर्तिर्यशो यस्य स तथा । अत्युदारेति । अत्यु -
दारतयात्युत्कृष्ठतया । सुरेति । सुरा देवाः, असुरा दैत्याः, सिद्धा योगमन्त्रादिसामर्थ्ययुक्तास्त्रेषां वृन्दं
टिप्प० -1 आनन्दभरमन्थरतरत्तारं यथा स्यात्तथा संचरति इति आनन्द • सञ्चारिणी, इति
स्पष्टोर्थः । 2 इन्त ग्रन्थस्वारस्यं पुनर्धूलिसात् करोति महाशयः । अस्तु 'भगवन् !" इति संबोधनमेवात्र
मधुरमिति विदन्तु विदः । 3 अन्नापि ( कस्य वाऽयं तपोधनयुवा ) इत्येव पाठो रमणीयः । अयं तपो-
धनयुवा कस्य पुत्र इति तदर्थः ।
पाठा० - १ कुत इवेयम्, २ अनभ्यस्ता जाता. ३ तरलतर. ४ लतालासिनी, ५ वा. ६ तपोधनयुवा. ७ अने-
नावतंसी. ८ खलु सकलत्रिभुवनप्रख्यात.