This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्
 
भवितव्यतया च तस्य तस्य वस्तुनः, किंबहुना मम मन्दद्भाग्यदौरात्म्यादस्य चेहशस्य केशस्य
विहितत्वात्तमपि मद्विकारापहृतधैर्य प्रदीपमित्र पवनस्तरलतामनयदनङ्गः ।
 
तदा तस्याप्यभिनदागतमदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभित्र-
स्थितस्य मनसो गार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । पैथुगृहीता व्रतभङ्गभीतेवाकैम्पत
करतलगताक्षमाला । द्वितीयेव कर्णावसक्तकुसुम मञ्जरी कपोलतलासङ्गिनी समदृश्यत स्वेद-
सलिलसीकरजालिका । गॅदर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुण्डरीकमयमिव तमु -
देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसंतानैर्यदृच्छया च्छोदसलिलमपहाय विकचकु.
वलयवनैरिव गगनतलसमुत्पतितैररुध्यन्त दश दिशः । तथा तु तस्यातिप्रकटया विकृत्या
द्विगुणीकृतमदनावेशा तत्क्षणमहमवर्णनयोग्यां कामव्यवस्थामन्वभवम् ।
 
इदं च मनस्यकरवम्
– 'अनेकसुरतसमागमलास्यलीलोपदेशोपाध्यायो मकरकेतुरेव
 
वितव्यतया तथाभाव्यतया । चकारः सर्वत्र समुच्चयार्थ: । किमिति । किं बहुक्तेन । मम गन्दभाग्यं क्षीण -
भागधेयं तस्य दौरात्म्याद्दुष्टत्वेनास्य मुनेरीदृशस्य क्लेशस्य वितत्वात्कृत्वात् । अन्वयस्तु प्रागेवोक्तः ।
 
तदेति । तस्मिन्काले तस्यापि मुनिकुमारस्याप्यभिनवी नूतन आगतो यो मदनः कंदर्पस्तं प्रत्युद्गच्छन्निष
संमुखं व्रजन्निव रोमोद्गमो रोमाञ्चः प्रादुरभवत्प्रकटीबभूव । मदिति । मत्सकाश मस्समीपमभित्रस्थितस्य
संमुखं चलितस्य मनसो हृदयस्य मार्ग पन्थानमुपदिशद्भिरिवोपदर्शयद्भिरवश्वासैः श्वः पुरो
प्रस्थितम् । वेपथुरिति । व्रतस्य नियमस्य भङ्गः खण्डनं तेन भी तेव त्रस्तेच वेपथुः कम्पस्तेन गृहीता करत-
लगता हस्तगताक्षमाला जपमालाकम्पताचलत । द्वितीयेति । कपोलतलासङ्गिनी गल्ला स्परप्रदेशाश्लेषिणी
स्वेदसलिलस्य श्रमजलस्य सीकराः कणास्तेषां जालिका समदृश्यत समालोक्यत । द्वितीयान्या कर्णा-
सक्तकुसुममञ्जरीष श्रवणसंल्लमपुष्पवल्लरीव । एते सात्त्विका भाषा: प्रदर्शिताः । महीनेति । मद्दर्शनमा-
लोकनं तस्मात्प्रीतिः स्नेहस्तेन विस्तारितस्य प्रसारितस्य । उसानेति । उत्तानोमुखा तारका कनीनिका
यस्य स तथा तस्य तमुद्देशं तं प्रदेशं पुण्डरीकमयं सिताम्भोजनिर्मितमिवोपदर्शयतोऽन्येभ्यो ज्ञापयतो लोच-
नयुगलस्य नेत्रयुग्मस्य विसर्पिभिः प्रसरणशीलैरंशुसंतानैः किरणसमूहैर्दश दिशोऽरुध्यन्त रुद्धाः । कमलसा-
दृश्यादाह -- यहच्छयेति । यदृच्छया खेच्छयाच्छोदनानः सरसः सलिलं पानीयमपहाय त्यक्त्वा गगनत-
लसमुत्पतितैराकाशतलोत्पातिभिर्विकच कुवलयवनैरिव विकखरोत्पलखण्डैरिव । एतेन नयनयोबाचल्यमित -
स्ततोऽवलोकनं च ध्वनितम् । तु पुनरर्थकः । तस्य मुनिकुमारस्यातिप्रकटयातिस्पष्टया तया विकृत्या द्विगु
णीकृतो द्विगुणतां नीतो मदनस्यावेशो यस्या एवंभूताहं तत्क्षणं तत्काळमवर्णनयोग्यामकथनीयां कामप्यवस्थां
दशामन्वभवमनुभूतवती ।
 
इदमिति । मनसि चित्त इदं चाकरवमत्रैणयम् । अचिन्तयमित्यर्थः । अनेकेति । अनेकेऽसंख्याः
सुरतं मैथुनं तस्य समागमः संबन्धः स एव लासलीला नृत्यक्रीडा तस्यामुपदेशाः शिक्षारूपास्तत्रोपाध्यायः
पाठक एवंविधो मकरकेतुरेव कंदर्प एव विलासाचेत्र विकारानुपदिशत्युपदेशं करोति । उक्तवैपरी बाधक-
टिप्प०
- 1 पुनः पपात टीकाकारः । मुनिर्हि तत्पदेन निर्दिश्यते न हृदंपदेन । तस्मात् - अस्य ईड-
शस्य मम तपश्चरणात्मकक्लेशस्य विधिविहितत्वात् इत्यर्थः । 2 एका पारिजातमञ्जरी तु कर्णे कृतैव । अत
एव सेयं स्वेदसीकरजालिकारूपा द्वितीया इति उत्प्रेक्षाशयः । 3 प्राणयमिति स्यात्, स्थाने स्थाने परी
क्षणीयं प्रावीण्यं टीकाकृतो भगवतः ।
 
पाठा० - १ दर्शनापहृत २ आगतं. ३ प्रत्युद्गतवान् ४ वेपथुना. ५ अकम्पत गात्रयष्टि: ६ माला च.
७ मदनप्रीति.