कादम्बरी /340
This page has not been fully proofread.
.
महाश्वेतादर्शने पुण्डरीकावस्था ]
पूर्वभागः ।
२०७
दपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् ।
'अदूरकोपा हि मुनिजनप्रकृतिः' इत्यवधार्यापसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया
चेयं जातिरितिकृत्ला तद्दनाकृष्टदृष्टिप्रसरम्, अचलितपक्ष्ममालम्, अदृष्टभूतलम्, उल्लसि-
तकर्णपल्लवोन्मुक्तकपोलमण्डलम्, आलोलालकलतालसत्कुसुमावतंसम्, अंसदेशदोलायित-
मणिकुण्डलमस्मै प्रणाममकरवम् ।
अथ कृतप्रणामायामपि दुर्लयशासनतया मैनोभुवः, मदजननतया च मधुमासस्य,
अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चलप्रकृति-
तथा चेन्द्रियाणाम्, दुर्निवारतया च विषयाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा-
१
।
र्पणं दूरीभवनं श्रेयः कल्याणकृदिति भावः । अन्यथा बाधकमाह - कदाचिदिति । संभावनायामनभिमतो-
Sनभीष्टो यः स्मरविकारो मनोभवविकृतिस्तस्य दर्शनेनावलोकनेन कुपितः कोपं प्राप्तो मां शापस्याभिज्ञामा-
द्यज्ञान विषयाम् । 'अभिज्ञा ज्ञानमाद्यं स्यात्' इति कोशः । करोति प्रणयति । मुनीनां कोपः कुत इत्या-
शयेनाह — अदूरेति । हि निश्चितम् । मुनिजनप्रकृतिस्ता पसलोकस्वभावोऽदूरे समीपे कोपो यस्या एवंविधा
स्यादित्यवधार्य निश्चित्याहमपसर्पणेऽभिलाषः स्पृहा यस्या एवंभूताभवं जज्ञे । अशेषेति । अशेषैः सम -
र्जनैः पूजनीयार्चनीयेयं जातिः । न तु कोपनीयेति भावः । इतिकृत्वासमै प्रणामं नमस्कारमकरवमसृजम् ।
अथ नमस्कार विशेषयन्नाह - तद्वदनेति । तद्वदनामुनिमुखादाकृष्ट आकर्षितो दृष्टिप्रसरो यस्मिंस्तत् ।
क्रियाविशेषणं वा । अनेन भावातिशयो द्योतितः । एवमग्रेऽपि ज्ञेयम् । अचलितेति । अचलिताsकम्पिता
पक्ष्मणां नेत्ररोग्णां माला पङ्किर्यस्सिन् । अदृष्टेति । अदृष्टमवीक्षितं भूतलं पृथ्वीतलं यस्मिन् । उल्लसितेति ।
उल्लेसिता उल्लासं प्राप्ताः कर्णपल्लवाः श्रवणकिसलयानि तैरुन्मुक्तं त्यक्तं कपोलमण्डलं यस्मिन् । आलोलेति ।
आलोला चपलालकलता केशराजिस्तस्यां लसत्कुसुमावतंसो यस्मिन् । अंसेति । अंसदेशे स्कन्धप्रदेशे
दोलायितं मणिकुण्डलं यस्मिन् । अन्वयस्तु प्रागेवोक्तः ।
अथेति । मद्विकारेणापहृतं दूरीकृतं धैर्यं यस्यैवंभूतं मुनिकुमारकं कृतप्रणामायामपि तस्यां तमपि पवनः
प्रदीपमिवानङ्गः कंदर्पस्तरलतां चञ्चलतामनयत् । तत्र हेतुमाह - दुर्लङ्घषेति । मनोभुवो मदनस्य दुर्लयं
दुर्लङ्घनीय शासनमाज्ञा यस्य तस्य भावस्तत्ता तथा । मधुमासस्य वसन्तमासस्य मदजननतया मदोत्पाद-
कत्वेन च । तस्य पूर्वोकस्य प्रदेशस्यातिरमणीयतयातिमनोहरतया । अभीति । अभिनवं नूतनं यद्यौवनं
तारुण्यं तस्याविनयः शठता तद्बहुलतया तद्बाहुल्यतया । इन्द्रियेति । इन्द्रियाणां करणानां चञ्चलप्रकृतितया
लोलखभावतया । विषयेति । विषया इन्द्रियार्थास्तेषामभिलाषा अध्यवसायास्तेषा दुर्निवारतया दुःखेन
दूरीकर्तुं शक्यतया । मनोवृत्तेश्चित्तवृत्तेश्चपलतया चञ्चलतया । तस्य तस्य वस्तुनस्तत्तत्पदार्थस्य तथा भवति भ
टिप्प० - 1 शापय परिचितां अर्थात् अभिसंपातदुःखभोगिनीं मां करोति । यद्ययं कुपितः स्यात्तर्हि
शापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । टीकाकारस्तु उन्मादग्रस्तः । 2 'ईषदुल्लसित'
इत्येव ग्रन्थशय्यानुकूलः पाठः । 3 इन्त ! टीकाकारस्य प्रलापं दृष्ट्वा परवशाः स्युः सहृदयाः क्रोधेन । न
जाने, किं दुर्भाग्यमासीद्वाणस्य । अस्तु । 'कृतप्रणामायां मयि' इति पाठं विना ग्रन्थ एव न संगच्छते ।
मयि कृतप्रणामायां सत्यां कामस्य दुर्लज्यशासनस्वादिभिर्हेतुभिः पवनः प्रदीप मिच अनङ्गः तमपि (मुनि-
कुमारमपि) तरलतामनयत् । इति च तद्योजना । 4 हृदमप्यसंगतत्वादधिकमेव ।
पाठा०-
- १ ईषदुसित, २ ममि. ३ भगवतो मनोभुषः.