कादम्बरी /34
This page has been fully proofread twice.
कादम्बरी
पूर्वभागः ।
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥
श्रेयः श्रीललनाविलासकुशलः पायादपायात्स वः
श्रीमन्नाभिनरेन्द्रसूनुरमरैः संसेव्यमानान्तिकः ।
रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती प्रभो-
र्लग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥
सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं
मन्यन्ते तृणवन्त्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः ।
कृत्स्नैश्वर्यजुषापि येन सुधिया देवेन्द्रसेव्याङ्गिणा
नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रये [^1]॥
यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं
दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः ।
तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः
स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥
मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भा-
द्धत्ते यः सप्तविश्वाद्भुतपरममनोहारिसाम्राज्यलक्ष्मीम् ।
नम्राल्लुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताङ्घ्रिः
स श्रीपार्श्वाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः ॥
यद्वाचामधिकां विलासपदवीमीहेद् भृशं भारती
यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् ।
यत्सौन्दर्यदिदृक्षयेव समभूदक्ष्णां सहस्रं हरेः
स श्रीवीरविभुर्ददातु भविनां शश्वन्मनोवाञ्छितम् ॥
श्रीमत्तपःपक्षसहस्रदीधितिः श्रीहीरसूरिः समभून्महोदयः ।
यद्वक्त्रसौन्दर्यगुणं विलोकयन्ययौ सुरौघः किमु निर्निमेषताम् ॥
अनन्यसौजन्यगुणैर्गरीयान्विशिष्टशिष्टाचरणैर्वरीयान् ।
तत्पट्टपाथोनिधिपूर्णचन्द्रो विराजते श्रीविजयादिसेनः ॥
तत्पट्टोदयचूलावलम्बिपूर्णेन्दुसंनिभः श्रीमान् ।
श्रीविजयतिलकसूरिर्भूरिगुणैर्भूषितो जयति ॥
टिप्प0 - कविभुवनभास्वतीं तां सरस्वतीं सादरं समधिगम्य ।
कादम्बरीमनर्घां चतुराश्चषकेण सेवन्ताम् ॥ १ ॥
[^१] प्राचीनोपलब्धोयं पाठो न सम्यक् । 'श्रिये' इति स्यात् । अन्यथा 'शान्तिः' इत्यत्र द्वितीया
वाक्यभेदो वा भवेत् ।

नम्रा