This page has not been fully proofread.

३०६
 
कादम्बरी
 
[ कथायाम -
 
9
 
शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणास दृशमारब्धं
मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य, यदनुरागविषययोग्यतामपि विचार-
यितुं नालम् । केदमतिभाखरं घाम तेजसां तपसां च क च प्राकृतजनाभिनन्दितानि मन्म-
थपरस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं
चेदं यदहमेवमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । अन्या अपि कन्यका
विहाय स्वयमुपयाताः पतीन्, अन्या अध्यनेन दुर्बिनीतेन मन्मथेनोन्मत्ततां नीता नार्यः, न
पुनरहमेका यथा । कथमनेन क्षणेनाकारमात्रालोकनाकुली भूतमेव मस्वतन्त्रतामुपैत्यन्तःकर-
णम् । कालो गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । यावदेव सचेतनास्मि,
यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत् तावदेवास्मात्प्रदेशा-
मनसि मञ्चित्त इदमासीद्वभूव । तदेव प्रकटयन्नाह - शान्तात्मनीति । अनार्येण दुष्टेन मनसिजेन कंदर्पण ।
शान्तारमनि दूरीकृतो दूरोज्झितः सुरतव्यतिकरो मैथुनवृत्तान्तो येनैवंभूते जनेऽस्मिन्मां निक्षिपता निक्षेपं
कुर्वतासदृशमसाधुजनोचितमारब्धं प्रारब्धं पूर्वोक्तप्रकारेण । नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीज
नस्यातिमूढमतिमुग्धं हृदयं चित्तम् । यदिति हेत्वर्थे । अनुरागविषययोग्यतामप्यस्मिन्स्थळेऽनुरागो युक्तः,
अस्मिन्स्थले न युक्तः, इति विषयविभागमपि विचारयितुं नालं समर्थम् । वैराग्यतपः सिद्धियुक्ते मुनिजने प्रम
दाजनानुस्मरणप्रयासो वृथेत्यर्थः । अतो हेतोरस्मात्प्रदेशादपसर्पणं दूरीभवनं श्रेय इति प्रत्येकवाक्यपरिसमाप्तौ
बोद्धव्यम् । क्वेति महदन्तरे । तेजसां तपसां चातिभास्वरमतिशोभनं केदं धाम गृहम् । प्राकृतेति । प्रा.
कृतजनैनींचज नैरभिनन्दितान्यनुमोदितानि मन्मर्थपराणि मनोभवप्रतिपाद्यानि स्पन्दितानि चेष्टितानि ।
नियतमिति । नियतं निश्चितं मकरलान्छनेन कंदर्पेणैवं पूर्वोक्तप्रकारेण विडम्बमानां कदर्थ्यमानां मामयं
मुनिर्मनसा चित्तेनोपहसत्युपहासं करोति । त्रित्रमिति । इदम वक्ष्यमाणं चित्रमाश्चर्यम् । तदेव प्रदर्श-
याह – यदिति । यद्यस्मात्कारणादहमेवं पूर्वोक्तप्रकारेणावगच्छन्त्यपि जानन्त्यप्यात्मनः स्वस्य विकारं वि-
कृतिमुपसंहर्तुं दूरीकर्तुं न शक्नोमि न समर्था भवामि । पुनर्विचारणान्तरमाह - अन्या इति । मत्सहचरीषु
मध्ये याः काश्चनातिकामुकास्त्रपां लज्जां विहाय त्यक्त्वा स्वयमात्मनान्यान्पतीनुपयाताः स्वयमेवोपगताः ।
यास्तु नोपयाताखासां मध्येऽम्या मध्यतिरिक्ता नार्योऽनेन दुर्विनीतेन शूकलेन मन्मथेन कंदर्पेणोन्मत्ततां
सविकारतां तथा न नीता यथाहमेका । अनेनेति । अनेन क्षणेन मुनिकुमारदर्शनाविर्भूतमदनावेशलक्षणेनो-
न्मत्ततां प्रापिता । तदेव स्पष्टीकुर्वनाह
- आकारेति । आकारमात्रस्य कृतिमात्र स्यालोकनं वीक्षणं तेनाकु-
लीभूतं व्याकुलीकृतमन्तःकरणमन्तरिन्द्रियमेवं पूर्वोकप्रकारेणास्वतन्त्रतां पराधीनतामुपैति प्राप्नोति ।
काल इति । कालो विवेककालो गुणाः कुलीनत्वादयश्च मदनस्य सर्वथा सर्वप्रकारेण दुःखेन निवार-
यितुं शक्यो दुर्निवारस्वस्य भावस्तत्ता तामारोपयन्ति व्यवस्थापयन्ति । अतो हेतोरपीति पूर्ववत् । पुनर्वि-
चारणान्तरमाह-यावदिति । यावदेव यावत्कालमहं सचेतना चैतन्ययुक्तास्मि । यावदेवेति पूर्ववत् । मे
ममैतन्मदुश्चेष्टितलाघवमनेन मुनिना विभाव्यते न निश्चीयते । तावदेवेति । तावत्कालम स्मात्प्रदेशादपस-
टिप्प० -1 'मन्मथपरिस्पन्दितानि' इत्येव पाठः । कामचेष्टितानि इति तदर्थः । 2 एतत्सर्व प्रत्य-
क्षतो वर्तमानमित्यर्थ उचितः । 3 कथंपदं सर्वथा परित्यजति टीकाकृत् । तस्सात् - "अनेन क्षणेन
आकारमान्त्रालोकन व्याकुलीभूतम् ( अर्थात् क्षणमात्रं दर्शनमात्रेण विह्वलीभूतम्) अन्तःकरणं कथं परा-
धीनतामुपैति इति चित्रम्" इति पूर्वानुषङ्गेण व्याख्यातव्यम् । 4 वसन्तादिः, गुणाः सौन्दर्यादयश्च
मदनस्य अप्रतीकार्यतामारोपयन्ति इति व्याख्यानमुचितम् । टीकाकारस्तु बुद्धिशून्यः ।
 
पाठा० -१ परिस्पन्दितानि २ अपहाय.