कादम्बरी /338
This page has not been fully proofread.
i
तद्दर्शने महाश्वताया अवस्था]
पूर्वभागः ।
३०५
,
किमन्येनैव वा केनापि प्रकारेण, अहं न जानामि कथंकथमिति तमतिचिरं व्यलोकयम् ।
उत्क्षिप्य नीयमानेव तत्समीप मिन्द्रियैः पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्यमाणेव
पुष्पधन्वना कथमपि मुक्तप्रयत्नमात्मानमधारयम् । अनन्तरं च मेऽन्तर्मदनेनावकाशमिव
दातुमाहितसंताना निरीयुः श्वासमरुतः । सांभिलाष हृदयमाख्यातुकाममिव स्फुरितमुखम-
भूत्कुचयुगलम् । स्वेदैलवलेखांक्षालितेवागलल्लज्जा । मकरध्वज निशितशर निपात त्रस्ते वाकम्पत
गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गनलालसेभ्योङ्गेभ्यो निरगाद्रोमाञ्चजाल-
कम् । अशेषतः स्वेदाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः आसीच मम मनसिं
।
स्वानुभवेत्यर्थः । तस्मिन्ननुभवेऽप्रमाणत्वं निराकरोति — अकथितेति । न कथिंतं शिक्षित वा यस्मिंन्ने
वंभूतेन । कथिते शिक्षिते त्यर्थेऽसंभावना विपरीतभावना चोत्पद्यते । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा
शब्दजन्य एवानुभवो भवतु, तथा संभावनात्मकेन तेन कथं निर्णय इत्यत आह - अनाख्यायेति । खमा-
त्रसाक्षिणा तेनाप्यहं न जानामीति संबन्धः । अन्वयस्तु प्रागेवोक्तः ।
मुनिकुमारदर्शनानन्तरमुत्कण्ठात्यादीनि वक्तुं प्रथममुत्कण्ठातिशयमाह
- उत्क्षिप्येति । तदुक्तम्-
'दर्शन स्पर्शनालापैर्व्यक्तास्ते सहकारिणः' इति । इन्द्रियैः करणैरुत्क्षिप्योत्पाट्य तत्समीपं मुनिसविधं नीयमाना
प्राप्यमाणेव । हृदयेन स्वान्तेन पुरस्तादग्र आकृष्यमाणेव । पुष्पधन्वना मकरध्वजेन पृष्ठतः । प्रेर्यमाणा नोय-
मानेव । धृतिमाह — कथमपीति । एतादृश्यहं कथमपि महता क्लेशेन मुक्तप्रयत्नं यथा स्यात्तथात्मानमपि
प्राणिनमध्यधारयं धारितवती । निरोधश्च धृतिकार्यम् । चिन्तामाह - अनन्तरमिति । चिन्तावशात्कुत्रचि
देकान्ते सचिन्तस्तिष्ठति। एवं सति मे ममान्तरभ्यन्तरे मेदनेनावकाशं दातुमाहितसंताना रचितपरम्पराः श्वास-
मरुतः श्वसितवायवो निरीयुर्निष्कासिताः । तथा च श्वासावष्टम्भेन संकोचात्तन्निर्गमे सावकाशमिति भावः ।
अभिलाषमाह - सेति । साभिलाषम भिलाषायुक्तं हृदयं मन आख्यातुकाममिव वक्तुकाममिव कुचयुगलं स्तन-
युग्मं स्फुरितमुखं स्पन्दिताननमभृद्धभूव । स्वेदेति । स्वेदः श्रमोत्थं वारि तस्य लवलेखाभिः क्षालितेव धौतेव
लज्जा त्रपागलदस्रवत् । अत्र मुखस्फुरणमभिलाषकार्यं स्वेदः श्रमकार्य लज्जाच्युतिश्चोन्माद कार्यमिति यथाक्रमं
ज्ञेयम् । त्रासमाह — मकरेति । मकरध्वजस्य कंदर्पस्य ये निशितास्तीक्ष्णाः शरा बाणास्तेषां निकरः समूहस्तस्य
निपातः पतनं तेन त्रस्तेव भीतेव गात्रयष्टिर्देहयष्टिरकम्पत चकम्पे । कम्पस्नासकार्यम् । एवम्प्रेऽपि रोमाञ्च
निर्गमसात्त्विकभावं प्रतिपादय चाह - तद्रूपेति । तस्य मुने रूपातिशयं सौन्दर्योत्कर्ष द्रष्टुमिव वीक्षितुमिव कुतू-
हलात्कौतुकादालिङ्गनमुपगूहनं तत्र लालसेभ्यः सस्पृहेभ्योऽङ्गेभ्यो हस्तपादादिभ्यो रोमाञ्चजालकं रोमहर्षणसमूहो
निरगान्निर्गतं बभूव । स्थायिभावं प्रदर्शयन्नाह - अशेषत इति । खेदाम्भसा श्रमोत्थवारिणा चरणयुगलादङ्गि-
युग्मादशेषतः सामस्त्येन धौतः क्षालितो रागो रतिरारुण्यं च हृदयमिवा विशत्प्रवेशमकरोत् । आसीञ्चेति । मे मम
-
टिप्प० - 1 धिक्टीकाकारहतकम् । मे अन्तः ( अभ्यन्तरे ) अवकाशं दातुम् (तस्य मुनिकुमारस्य
निवासस्थानं संपादयितुं ) मदनेन आहितसंतानाः कृतविस्ताराः श्वासमारुता निर्जग्मुः । एकस्य निर्गमे
अन्यस्थावकाशम् ।
●
पाठा० -१ अध्यात्मानम्; आत्मानमपि २ तन्मदनेन; ह्यन्तर्मंदनेन ३ स्वेदसलिललव.
३९ का०