कादम्बरी /337
This page has not been fully proofread.
३०४
कादम्बरी ।
[ कथायाम्-
सुलभ: कुसुमायुधः कुसुमसमयमद इव मधुकरी परवशामकरोदुच्छुसितैः सह । विस्मृत
निमेषेण किंचिदामुकुलितपक्ष्मणा जिह्निततरलतरतारशारोदरेण दक्षिणेन चक्षुषा सस्पृहमा
पिबन्तीव, किमपि याचमानेव, 'त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव,
सर्वात्मनानुप्रविशन्तीव, तम्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शर-
णमिवोपयान्ती, 'देहि हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हाहा, किमिदमसांप्रतम-
तिहेपणम कुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाध्यप्रभवन्ती करणानाम् स्त
म्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूच्छितेव, केनापि विधृतेव, निरपन्दसकलावयवा
तत्कालाविर्भूतेनावष्टम्भेन, अकथितशिक्षितेनानाख्येयेन, स्वसंवेद्येन केवलम्, न विभाव्यते
किं तद्रूपसंपदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेणेवोपदिश्यमानं,
"
संस्पृहं साभिलाष यथा स्यात्तथापिबन्त्यत्यादरेण विलोकयन्तीव । अत्यादरेण विलोकनं पानमुच्यते । अथ
चक्षुर्विोकयन्नाह
— विस्मृतेति । विस्मृतो विस्मृति प्राप्तो निमेषो निमीलनं यस्य तत्तथा तेन । किंचि
दिति । किंचिदींषदा मुकुलितमाकुङ्मलितं पक्ष्म नेत्ररोम यस्मिंस्तत्तथा तेन । जितेति । जिह्निता
कुटिलिता तरलतरातिचञ्चला तारा कनीनिका यस्मिन्नेवंभूतं शारं कल्मषमुदरं मध्यभागो यस्येति चेति
द्वन्द्वः । अथ च प्रकारान्तरेण तामेव विशेषयन्नाह - किमपीति । किमप्यनिर्वचनीयस्वरूपं याचमानेव प्रा.
र्यमानेव । याचनाकर्तुरेतादृशा कारवत्त्वात्तदुपमानम् । स्वदिति । त्वदायत्ता त्वदधीनाहमस्मीति वदन्तीव
ब्रुवन्तीव । एतेनावलोकने सातिशयत्वं सूचितम् । अभीति । अभिमुखं संमुखं हृदयं स्वान्तमर्पयन्तीव वित-
रणं कुर्वन्तीव । मुनीनां व्यामोहजननादिति भावः । सर्वेति । सर्वात्मना सर्वप्रकारेणानुप्रविशन्तीवानुप्र-
वेशं कुर्वन्तीव । तन्मयेति ! तन्मयतां तद्रूपतां गन्तुं प्राप्तमीहमानेव स्पृहमानेव । मनोभवेनेति ।
मनोभवेन कंदर्पणाभिभूतां भूतां त्रायस्व पाहीति हेतोः शरणं त्राणमुपयान्तीव गच्छन्तीव । देहीति ।
हृदये चित्तेऽवकाशं प्रवेश देहीत्यर्थितां याचकतां दर्शयन्तीवावलोकनं कारयन्तीव । विरोधिना विवेकेनाप्य-
भिवर्त्यमानाह – हाहेति । हाहा इति खेदे । किमिदमसांप्रतमयुक्तमतिहेपणमतिलजाकरमकुलोद्भवो यो
कुमारीजनस्तस्योचितं योग्यम् । कुलवत्यास्तु सर्वथा नोचितमिति भावः । इदमेतादृशं कर्म मया प्रस्तुतं
प्रारब्धमिति । जानानाप्येतादृशज्ञानवत्यपि करणानामिन्द्रियाणामवरोधनेऽप्रभवन्त्यसमर्था । व्यामोहं प्रति-
पादयन्नाह – स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेवोत्कोरितेव, संयतेव संदानितेव, मूच्छि-
सेव मूर्च्छा प्राप्तेव, केनाप्यनिर्वचनीयस्वरूपेण विवृतेव गृहीतेव तत्कालाविर्भूतेन तदात्व प्रादुर्भूतेनावष्टम्भेन
व्यामोहातिशयेन निस्पन्दा निश्चेष्टाः सकलावयवा यस्याः सर्वभूता सती कथंकथमिति महता कष्टेन तं
मुनिकुमारकमतिचिरं बहुकालं व्यालोकयमद्राक्षमिति दूरेणान्वयः । प्रस्तुतस्य दोषरूपतया तन्निदानं दुर्जेयमिति
निरूपयन्नाह - अकथितेति । यदनुचितं प्रस्तुतं कर्म तत्केन निमित्तेनोपदिश्यमानमुपदेशविषयीक्रियमाण-
मितिं' न विभाव्यते न निश्चीयत इत्यन्वयः । अनिश्चयं प्रदर्शयन्नाह - किं तद्रूपेति । किमिति वितर्के । तस्य
मुनिकुमारस्य रूपसंपदा सौन्दर्यसमृद्ध्या । किं मनसा चित्तेन । किं वा मनसिजेन कंदर्पेण । किं वाभिनव-
यौवनेन प्रत्यग्रतारुण्येन । किं वानुरागेणान्तर्गतप्रीत्या । किमन्येनैव पूर्वोक्तभिन्नेनैव केनापि प्रकारेण । किमिति
सर्वत्र वितर्कार्थः । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा अनुभवेनैव विभाव्यतामित्यत आह - स्वसंवेद्येनेति ।
-
4
टिप्प० - 1 प्रकाशयन्तीव । 2 तरकालाविर्भूतेन अकथितशिक्षितेन अनाख्येयेन (आकस्मिकतया
स्विरूप इति निर्वक्कुमशक्येन ) अत एव स्वसंवेद्येन अवष्टम्भेन सात्विकविकारविशेषेण फेवलं तमति-
चिरं व्यलोकयामेति योजना । दरिद्रटीकाकारेण तु सर्व व्याकुलीकृतम् । एवं 'किमनुरागेणेवोपदिश्य-
मानम्' इति टीकाकारटतः पाठोपि भ्रष्टः । किन्तु - 'उपदिश्यमाना' इत्येव पाठः । 'न विभाव्यते वक्ष्य-
माणानां मध्ये केन उपदिश्यमाना अहं तमतिचिरं व्यलोकयम्' इति तद्योजना ।
पाठा० -१ कुसुमासवगद २ किमयम् ३ विधृतेव. ४ कान्त्या. ५ उपदिश्यमाना.