कादम्बरी /336
This page has not been fully proofread.
तदर्शने महाश्वेताया अवस्था ]
पूर्वभागः ।
भुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकारातिरिक्तरूपातिशयरा शिरयमपरो
मुनिर्मायामयो मकरकेतुरुत्पादितः । मन्ये च सकलजगन्नयनानन्दकरं शशिबिम्बं विरचयता
लक्ष्मीलीलावासभवनानि कमलानि सृजता ब्रह्मणतदाननकारण कौशल्याभ्यास एव कृतः,
अन्यथा किमिव हि सदृशवस्तुविरंचनायां कारणम् । अलीकं चेदं यथा किल सकलाः कलाः
कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति, ताः खरवस्य गभ-
स्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमान-
स्येदं लावण्यम्' इति चिन्तयन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवन-
-
त्रिभुवनान्त्रिविष्टपादद्भुतोऽतिशायी रूपसंभारः सौन्दर्यसमूहो यस्मिन्नेवंभूतं भगवन्तं कुसुमायुधं कंदर्पमुत्पाद्य
निर्माय तदाकारात्कुसुमायुधाकृतेरतिरिक्तोऽधिको रूपातिशयः सौन्दर्योत्कर्षस्तस्य राशिः समूहो माया-
मयो मोहरूपो मकरकेतुरयमपरो मुनिरुत्पादितः । उत्तरोत्तरमतिशयवत्त्वादयं मकरकेतुस्तदपेक्षयाप्युत्कृष्ट
इति भावः । उत्तरोत्तरमतिशयमेव भङ्गयन्तरेण निरूपयन्नाह - मन्ये इति । अहमिति मन्ये जाने । इति-
शब्दार्थमाह - सकलेति । सकलं समग्रं यज्जगत्तस्य नयनानन्दकरं प्रमोदजनकमेतादृशं शशिबिम्बं चन्द्र-
मण्डलं विरचयता रचनां कुर्वता । लक्ष्म्याः पद्माया लीलावासभवनानि क्रीडानिवासस्थानान्येवंभूतानि कम-
लानि सरोजानि सृजता कुर्वता ब्रह्मणा हिरण्यगर्भेणैतस्य मुनिकुमारकस्याननं मुखं तस्याकार आकृतिस्तस्य
करणं निर्माणं तत्र कौशलं चातुर्यं तदर्थमभ्यासः पौनःपुन्येन प्रवृत्तिरेव कृतो विहितः । एतत्समर्थयन्नाह -
अन्यथेति । अन्यथोक्तवैपरीत्ये, सदृशवस्तुविरचनायां तुल्यपदार्थोत्पादने किमिव कारणं नियामकम् । न
किमपीत्यर्थः । अतो ज्ञायतेऽभ्यासार्थमेतन्निर्माणमिति भावः । अलीकं चेति । अग्रे इति वक्ष्यमाणमिदम-
लीकं मिथ्या । इतिशब्दार्थमाह - यथेति । किलेत्याप्तवाक्ये । बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां
प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशा रविः सूर्यः सुषुम्नानाम्ना रश्मिना नाडी-
विशेषेणापिबति पानं करोति । तर्हि किं सत्यमित्याशयेनाह - इतीति । ताः समग्रा गभस्तयः कान्तयोऽस्य
मुनेरिदं वपुः शरीरमाविशन्ति प्रविशन्ति । तथा च 'यदेकस्मान्निर्गमं तत्स्वाश्रयसदृशमुपयाति' इति न्यायेन
बहुलपक्षेणोपक्षीयमाणाश्चन्द्रमसो निर्गता गभस्तयस्तपः क्लेशातिशयक्षीणे मुनौ संक्रान्ता इत्यर्थः । उक्तवैप-
रीत्ये दूषणमाह - कुत इति । अन्यथोक्तान्यथात्वे रूपं सौन्दर्य तस्यापहारिणि निराकारिणि । क्लेशः परिश्रम-
स्तेन बहुले दृढे । एवंविधे तपसि तपस्यायां वर्तमानस्य स्थितस्येदं लावण्यं सर्वोत्कृष्टं सौन्दर्य कुतः स्यात् ।
कारणव्यतिरेकेण कार्यानुदयादिति भावः । इति चिन्तयन्तीमेवेति ध्यायन्तीमेव मां कुसुमायुधोऽनङ्गो मधु-
करीं भ्रमरीं कुसुमसमयमद इव वसन्तकालमद इवोच्छ्वसितैर्निःश्वसितैः सह परवशां पराधीनामकरोब्यधात् ।
अथ च कुसुमायुधं विशेषयन्नाह - अवीति । अविचारितोऽनालोचितो गुणदोषयोर्विशेषो बलाबलं येन स
तथा । रूपेति । रूपस्य सौन्दर्यस्यैकोऽद्वितीयः पक्षपाती तत्पुष्टिकारी । नवेति । नवं प्रत्यग्रं यद्यौवनं तत्र
सुलभः सुप्रापः । तारुण्य एव तदुत्पत्तिसंभवात् । पुनः किं कुर्वन्ती । दक्षिणेनापसव्येन चक्षुषा नेत्रेण
टिप्प० - 1 पूर्वत्र अलीकत्वाऽसंबन्धेऽपि तत्संबन्धवर्णनात्, इह प्रवेशस्याऽसंबम्धेपि च संबन्धवर्ण-
नादतिशयोक्तिः । 2 कुसुमासवमद इवेत्येव पाठः । कुसुमासवमदः पुष्पमधुपानजनिता मत्तता इति
तदर्थः। 3 उच्छ्रसितैः सह परवशामकरोदिति योजनायाम् उच्च सितानामपि परवशत्वं प्रतीयते, नच
तथा । तस्मात् 'परवशामकरोत्' अत्रैव वाक्यसमाप्तिः । 'उः सह विस्मृत निमेषेण' इत्यादि पृथग्
वाक्यम् । उच्छ्रसितैः सह अर्थात् यथा निःश्वासाः प्रवृत्ताः तैः सह निमेषोऽपि नेत्रयोर्निमीलनमपि मया
विस्मृतं तदवस्थया पश्यन्तीति तदर्थः ।
- १ रूपराशि:● २ मुनिमायामयः •
पाठा०-
६ विचिन्तयन्तीम्.
३ प्रजापतिना प्रथममेतत्. ४ बिरचनायाः•
५ अमुष्य