This page has not been fully proofread.

Eri
 
३०२
 
कादम्बरी ।
 
[ कथायाम्-
,
 
स्नानार्थमागतं
 
,
 
मञ्जरीगौरम्, मधुमासमिव कुसुमधवलतिलक भूतिविभूषितमुखम्, आत्मानुरूपेण सवयसा
परेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम् अतिमनोहरम्
मुनिकुमारकमपश्यम् । तेन च कर्णावतंसीकृतां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वन-
श्रियः, मलयमारुंतागमनार्थलाजाञ्जलिमिव मधुमासस्य, यौवनलीलामिव कुसुमलक्ष्म्याः,
सुरतपरिश्रमस्वेदजंलकणजालकावली मिव रतेः, ध्वजचिह्नचामरपिच्छिकामिव मनोभवगजस्य,
मधुकरकामुकाभिसारिकाम्, कृत्तिकातारास्तबकानुकारिणीम् अमृतबिन्दुनिस्यन्दिनीम्,
अष्टपूर्वा कुसुममञ्जरीमद्राक्षम् ।
 
7
 
'अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमलः' इति मनसा निश्चित्य तं तपोधनयुवा-
नमीक्षमाणाहमचिन्तयम्- 'अहो रूपातिशय निष्पादनोपकरणकोशस्याक्षीणता विधातु: यंत्रि-
या प्रियङ्गमञ्जरी फलिनीवल्लरी तद्वद्गौरं शुभ्रवर्णम् । पक्षे प्रियङ्गुमञ्जर्या गौरम् । मध्विति । मधुमासो
वसन्तमासस्तमिव । उभयोः साम्यमाह -- कुसुमेति । कुसुमं पुष्पं तद्वद्धवला शुभ्रा या तिलकार्थं भूतिर्भस्म
तया विभूषितमलंकृतं मुखमाननं यस्य स तम् । पक्षे कुसुमैर्धवला शुभ्रा ये तिलका वृक्षविशेषास्तेषां
भूत्या समृद्ध्या विभूषितं मुखमग्रभागो यस्येति बहुव्रीहिः । वसन्तप्रारम्भ एव तिलकवृक्षाणां पुष्पोद्गमसंभ-
वादिति भावः । अन्वयस्तु प्रागेदोकः ॥ अथ प्रकारान्तरेण तमेव मुनिकुमारकं विशेषयन्नाह - आत्मेति ।
आत्मरूपेणात्मसदृशेन सवयसा मित्रेण परेण भिन्नेन देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्युच्चिन्व-
तावचयं कुर्वता एवंविधेन तापसकुमारेण परिव्राजकबालकेनानुगतं सहितम् । अतीति । अतिमनोहर-
मतिरुचिरम् । स्सा लेिति । स्नानार्थमालवनार्थमागतं प्राप्तम् । तेनेति । चकारः पुनरर्थकः । तेन कुमारेण
कर्णावतंसीकृतां श्रवणशेखरीकृतां कुसुममञ्जरी मद्राक्षमपश्यमित्यन्वयः । कामिव । वसन्तस्य दर्शनेनावलोक-
नेनानन्दितायाः प्रमुदिताया वनश्रियः काननलक्ष्म्याः स्मितं हास्यं तस्य प्रभामिव । मलयेति । मधुमा-
वसन्तमासस्य मलयमारुतो मलयानिलस्तस्य आगमनार्थमागमनिमित्तं लाजाञ्जलिमिवाक्षताञ्जलि-
मिव । यौवनेति । कुसुमलक्ष्म्याः पुष्पनियो यौवनलीलामिव तारुण्यक्रीडामिव । सुरतेति । रतेः काम-
स्त्रियः सुरतं मैथुनं तस्य परिश्रमः खेदस्तस्माद्यत्स्वेदजलं तस्य कणोः पृषतास्तेषां जालकं समूहस्तस्यावली-
मिव पङ्किमिव । ध्वजेति । मनोभवगजस्य मदनहस्तिनो ध्वजो वैजयन्ती तस्य चिह्नभूता चामरपिच्छिका
तामिव । मधुकरेति । मधुकरा भ्रमरास्त एव कामुकाः कामाभिलाषिणस्तेषामभिसारिकां कामिजनानय-
नकर्त्रीम्, संकेतितस्थलगामिनीं वा । कृत्तिकेति । कृत्तिकाग्निदेवता तस्यास्ताराणां स्तबको गुच्छकस्त-
यानुकारिणीम् । तत्सदृशीमित्यर्थः । अत्र केशानामतिकृष्ण त्वेन मञ्जर्याश्च शुक्लत्वेनैतदुपमानद्वयमिति भावः ।
अमृतेति । अमृतं पीयूषं तस्य बिन्दवः कणास्तेषां निस्यन्दिनीं साविणीम् । अदृष्टेति । अदृष्टपूर्वामनवलो-
• कितपूर्वाम् । अन्वयस्तु प्रागेवोक्तः ।
 
सस्य
 
अस्याः परीति । ननु वितर्फे । अस्या मञ्जर्या अयं परिमलः । परीति । परिभूतोऽभिभूतोऽन्य-
कुसुमानां खेतरपुष्पाणामामोदः परिमलो येन स इति मनसा वान्तेन निश्चित्य निर्णीय तं तपो-
धनयुवानमृषिकुमारकमीक्षमाणा वीक्षमाणाहमचिन्तयमध्यायम् । अहो इति । अहो इत्याश्चर्ये
विधातुर्ब्रह्मणो रूपातिशयस्य सौन्दर्यातिशयस्य निष्पादने निर्माणे य उपकरणकोश उपस्करभाण्डागा-
रसंस्थाक्षीणताऽक्षयत्वम् । 'कौशलम्' इति पाठे तु निष्पादने यदुपकरणं व्यापारविशेषस्तत्र कौशलं
दक्षतां तस्याक्षीणतातादवस्थ्यमिति भावः । अतिशयपदव्यङ्ग्यमाह — यत्रिभुवनेति । यदिति हेत्वर्थे ।
 
j.
 
पाठा० -१ कुपित. २ आगमनार्थम् ३ कौशलस्य ४ यद त्रिभुवना.