कादम्बरी /334
This page has not been fully proofread.
पुण्डरीक: ]
पूर्वभागः ।
मुकस्य गुणेनेव कुण्डलीकृतेन तपस्तटाककमलिनीमृणालेनेव यज्ञोपवीतेनालंकृतम्, एकेन
सनालबकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव बाप्पजलबिन्दु-
भिरारचितां रैफटिकाक्षमालिकां करेण कलयन्तम्, अनेक विद्यापगासंगमावर्तनिभया नाभिमु-
द्रयोपशोभमानम्, अन्तर्ज्ञान निराकृतस्य मोहान्धकारस्यापैयानपदवीमिवाञ्जनरजोलेखाश्या-
मलां रोमराजिमुद्रेण तनीयसीं बिभ्राणम्, आत्मतेजसा विजित्य सवितारं परिगृहीतेन परि-
वेषमण्डलेनेव मौजी मेखलागुणेन परिक्षिप्तजघनभागम् अभ्रगङ्गास्रोतोजलप्रक्षालितेन जर-
चकोरलोचनपुटपाटलकान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलंकारमिव ब्रह्म-
चर्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम्, संके-
तस्थानमिव सर्वश्रुतीनाम्, निदाघकालमिव साषाढम् हिमसमयकाननमिव स्फुटितप्रियङ्ग--
,
१
धनुस्तस्य कुण्डलीकृतेन गुणेनेव ज्ययेव । तप इति । तप एव तटाकः कासारस्तस्य कमलिनी मृणालिनी
तस्या मृणालेनेव बिसेनैवंभूतेन यज्ञोपवीतेन यज्ञसूत्रेणालंकृतं विभूषितम् । एकेनेति । एकेन करेण हस्तेन ।
सनालेति । सनालं यद्वकुलफलं केसरफलं तद्वदाकारो यस्यैवंभूतं कमण्डलुम् । अपरेण तदितरेण करेण ।
मकरेति । मकरकेतुः कंदर्पस्तस्य विनाशो नाशस्तस्माद्यः शोकस्तेन रुदितायाः कृताश्रुपाताया रतेर्मदन-
स्त्रियो बाष्पजलबिन्दुभिर्नेत्रवारिपृषद्भिरारचितामिव निर्मितामिव । स्फटिकाक्षमालिकां श्वेतजपमालिकां
कलयन्तं दधानम् । अनेकेति । अनेकाश्च ता विद्याश्चानेकविद्याः । प्रसरणसाम्यात्ता एवापगा नयस्तासां
संगमः संश्लेषस्तत्र य आवर्तः पयसां भ्रमस्तन्निभया तत्सदृशया नाभिमुद्रया तुन्दकूपिकयोपशोभमानं विराज-
मानम् । अन्तरिति । अन्तर्ज्ञानेन तत्त्वज्ञानेन निराकृतस्य दूरीकृतस्य मोहान्धकारस्याज्ञानतिमिरस्यापयानप
दवीमिव निःसरणमार्गमिव । अञ्जनमिति । अञ्जनं कज्जलं तस्य रजः कणस्तस्य लेखा राजिस्तद्वच्छ्यामलां
कृष्णामेतादृशीं तनीयसीमतितुच्छामुदरेण जठरेण रोमराजिं तनूरुहश्रेणिं बिभ्राणं दधानम् । आत्मेति ।
आत्मतेजसा स्वकीयकान्त्या सवितारं सूर्यं विजित्य पराभूय परिगृहीतेनात्तेन परिवेषमण्डलेनेव परिधिवलये-
नेव । मौञ्जेति । मुञ्जस्तेजनस्तत्संबंन्धिनी मौज्जी या मेखला रशना तस्या गुणेन दवरकेण परिक्षिप्तो वल-
यिती जघनभागोऽग्रप्रदेशो यस्य स तम् । अभ्रेति । अभ्रगङ्गा व्योमनदी तस्याः स्रोतः प्रवाहस्तस्य जल-
मम्भस्तेन प्रक्षालितेन धौतेन । जरदिति । जेरञ्ज्यायान्यश्च कोरो विषसूचकस्तस्य लोचने नेन्ने तयोः
पुतला श्वेतरता कान्तिर्द्युतिर्यस्य स तेनैवंभूतेन मन्दारवल्कलेन देवतरुवल्केनोपपादितं विहितम
म्बरप्रयोजनं वस्त्रकृत्यं येन स तम् । अलमिति । ब्रह्मचर्यस्य सर्वथा स्त्रीपरित्यागलक्षणस्यालंकारमिव भूष-
णमिव । धर्मेति । धर्मस्य सुकृतस्य यौवनमिव तारुण्यमिव । सर इति । सरस्वत्या भारत्या विलास-
मिव विभ्रममिव । स्वयमिति । सर्वविद्यानां समग्रकलानां स्वयंवरपतिर्भर्ता तमिव । एतेन सर्वाभिर्विद्या-
भिरयमागत्य वृतः, न त्वनेन विद्यार्थ प्रयत्नः कृत इत्यावेदितम् । संकेतेति । सर्वश्रुतीनां समप्रशास्त्राणां
संकेतस्य स्थानं पदं तद्वदिव । अन्योऽपि जनः संकेतितं स्थानं गच्छति तद्वत्सर्वं श्रुतमेतस्मिन्समागतमिति
भावः । निदाघेति । निदाघो ग्रीष्मकालस्तमिव । उभयोः सादृश्यं प्रदर्शयन्नाह - सेति । सहाषाढेन
पलाशदण्डेन वर्तमानम् । 'पालाशो दण्ड आषाढः' इति कोशः । पक्ष आषाढः शुचिमासः । हिमेति ।
हिमसमयः शीतकालस्तस्मिन्काननं वनं तद्वदिव । उभयोः सादृश्यार्थमाह - स्फुटितेति । स्फुटिता प्रफुल्ला
टिप्प० – 1 वृद्धः, नेत्रारुण्यातिशयार्थम् ।
पाठा० -१ स्फटिकगुलिकाक्ष, २ अपनयन ३ तनीयसी; तनीयसीम् ४ आगृहीतेन. ५ सर्वश्रुतानाम्.