कादम्बरी /333
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम -
लोदरप्रविष्टमिव अवंलनज्वालाकलापमध्यस्थितमिव विभाव्यमानम्, उन्मिषन्त्या बहुलबहु-
लया दीपिकालोकपिङ्गलया देहप्रभया कपिलीकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम्,
रोचनारसलुलित प्रतिसरसमान सुकुमारपिङ्गलजटम्, पुण्यपताकायमानया सरस्वतीसमा-
गमोत्कण्ठाकृतचन्दन रेखयेव भस्मललाटिकया बालपुलिनरेखयेव गङ्गाप्रवाहमुद्भासमानम्,
अनेकशापभृकुटिभवनतोरणेन चलताद्वयेन विराजितम्, अत्यायततया लोचनमयीं माला-
मिव प्रथिता मुद्वहन्तम्, सर्वहरिणैरिव दत्तलोचनशोभासंविभागम्, आयतोत्तुङ्गघ्राणवंशम्,
अप्राप्तहृदयप्रवेशेन नवयौवनरागेणेव सर्वात्मना पाटलीकृताधररुचक्रम्, अनुद्धिलश्मै-
श्रुत्वादनासादितमधुकररावली वलयपरिक्षेपविलास मिव बालकमलभाननं दधानम्, अनङ्गका-
-
दिवसस्य निदाघवासरस्य यो दिवसकरः सूर्यस्तस्य मण्डलं बिम्बं तस्योदरं मध्यभागस्तत्र प्रविष्टमिव ।
ज्वलनेति । ज्वलनस्य वहेर्यो ज्वालाकलापोऽर्चिषां समूहस्तस्य मध्यस्थितमिवान्तर्गतमिव विभाव्यमानं
ज्ञायमानम् । देहेति । देहप्रभया शरीरकान्त्या कपिलीकृतं पिङ्गलीकृतं काननं वनं येन स तम् । अथ देह-
प्रभां विशेषयन्नाह - उन्मिषेति । उन्मिषन्त्या विकसन्त्या । बहुला च बहुला च बहुलबहुला तथा । दीपि-
केति । दीपिकायाः प्रसिद्धाया य आलोकः प्रकाशस्तद्वरिपङ्गलया पिञ्जरया । पुनर्मुनिकुमारं विशेषयन्नाह
कनकेति । कनकमयमिव सुवर्णमयमिव तं प्रदेशं कुर्वाणं विदधानम् । रोचनेति । रोचना गोरोचना
तस्या रसो द्रवस्तेन लुलित एकीभूतो यः प्रतिसरी हस्तसूत्रं तत्समाना सदृशी सुकुमारा सुकोमला पिङ्गला
पिजरा च जटा सटा यस्य स तम् । भस्मेति । भस्म विभूतिस्तस्य ललांटिका पुण्ड्रविशेषस्तयो-
•द्भासमानमुत्प्राबल्येन दीप्यमानम् । अतिश्वेतत्वसाम्येनाह - पुण्येति । पुण्यस्य धर्मस्य पताकायमानया
वैजयन्तीवदाचरमाणया । रेखामधिकृत्याह - सरेति । सरस्वत्या भारत्या यः समागमः संगमस्त जनिता
या उत्कण्ठोत्कलिका तया कृता विहिता चन्दनरेखा मलयजरेखा तयेव । अन्यस्यागमने गृहैंधवलीकरणं सर-
स्वत्यास्तु मुखमेव निवासो निलयोऽतस्तदुपरि चन्दनलेखाकरणमिति भावः । कयेव कमित्याकाङ्क्षायामाह -
बालेति । बालं सूक्ष्मं यत्पुलिनं जलोज्झितं तीरं तस्य रेखा लेखा तयेवोद्भाव्यमानं ज्ञाप्यमानं गङ्गाप्रवाह
मिव स्वर्धुनीवेणीमिव । अनेकेति । अनेकानामसंख्यानां शाप भृकुटीनां यद्भवनं गृहं तस्य तोरणेन बहिर्द्रा-
रेणैषंविधेन भ्रूलताद्वयेन विराजितं शोभितम् । एतेन सर्वेषां शापप्रदाने क्षम इति ध्वनितम् । अतीति ।
अत्यायततयातिविस्तीर्णतया लोचनमयीं नेत्रमयीं ग्रथितां गुम्फितां मालामिव जपमालिकामिवोद्वहन्तम् ।
सर्वेति । सर्वहरिणैः समग्रमृगैरिव दत्तो लोचनशोभायाः संविभागो यस्मै स तम् । आयत इति । आयतो
विस्तीर्ण उत्तुङ्ग उच्चस्तरो घ्राणवंशो यस्य स तम् । अप्राप्त इति । अप्राप्तोऽनुपलब्धो हृदये चित्ते प्रवेशो
येनैवंविधेन नवं प्रत्यग्रं यद्यौवनं तारुण्यं तस्य रागेणेव सर्वात्मना सर्वप्रकारेण पाटलीकृतः श्वेतरक्तीकृतोऽधर
एव रुचकं बीजपूरो यस्य स तम् । 'रुचकं तु बीजपूरे निष्केऽसौवर्चलेऽपि च' इत्यनेकार्थः । या
अधर एव रुचकं स्वस्तिकद्रव्य यस्य स तम् । 'रुचकं स्वस्तिकद्रव्ये' इति विश्वः । पुनः किं कुर्वाणम् ।
दधानम् । किम् । आननं मुखम् । अन्विति । अनुद्भिन्नान्यप्रकटितानि श्मश्रूणि यस्य तस्य भावस्तत्त्वं
तस्मात् । अनासादीति । अनासादितोऽप्राप्तो मधुकररावल्या भृङ्गपङ्ख्या वलयाकारेण यः परिक्षेपः परिवेष्टनं
तल्लक्षणो विलासो येनैवंभूतं बालकमलमिव नवीननलिनमिव । अनङ्गेति । अनङ्गस्य कंदर्पस्य यत्कार्मुक
टिप्प० – 1 रक्त इत्यर्थः । 2 जटासु बहुत्वमुचितम् । 3 बहुमानसूचनाय गृहे चतुष्क ( 'चौक' ).
रङ्गवल्लीत्यादिकरणं भवतीत्यर्थो बोध्यः । 4 धिक् । अनेके ये शापाः तेषां कृते भ्रुकुटि: भ्रूसंकोच एव
भवनं तस्य तोरणेन ( द्वारवर्तिधनुराकारकाष्ठविशेषरूपेण )। 5 विसारित्वात् स्रजमिव । जपमालेल्यु-
तिस्तु ग्राम्यतैव ●
पाठा० -१ ज्वलनम्; ज्वलदनल; ज्वलज्ज्वलन. २ सुकुमारजटम् ३ उद्भाव्यमानम्. ४ अनुद्भूत० ५ श्मश्रु
राजित्वात् ६ कार्मुकगुणेन.