कादम्बरी /332
This page has not been fully proofread.
पुण्डरीकः ]
पूर्वंभागः ।
एक स्मिञ्च प्रदेशे झटिति वनानिलेनोपनीतम्, निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसु-
मपरिमलं विसर्पन्तम् अतिसुरभितयानुलिम्पन्तमिव तर्पयन्तमिव पूरयन्तमिव घ्राणे-
न्द्रियम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम्, अनाघातपूर्वम् अमानुषलोकोचितं
कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन
मेधुकरीवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजात मैणिनूपुरझङ्काराकृष्टसरः कलहंसानि
कतिचित्पदानि गत्वा हरहुताशनेन्धनीकृत मदनशोकविधुरं वसन्तमिव तपस्यन्तम्, अखिल-
मण्डल प्राप्त्यर्थेमीशानशिरःशशाङ्कमिव धृतवतम् अयुग्मलोचनं वशीकर्तुकामं काममिव
सनियमम् अतितेजस्वितया मैचलतडिल्लतापञ्जरमध्यगतमिव ग्रीष्म विवस दिवसकरमण्ड-
J
.9
२९९
।
एकस्मिंश्चेति । एकस्मिन्प्रदेशे कुसुमगन्धं पुष्पजनमनोहारिणमभ्यजिघ्रं घ्राणविषयतामनयम् । अथ च
गन्धं विशेषयन्नाह ——झटिति शीघ्रं वनानिलेनारण्य पवनेनोपनीतमानीतम्, निर्भरं नितान्तं विकसिते विकखरे
कानने वनेऽपि सति । अभीति । अभिभूत आत्तगन्धोऽन्यकुसुमानां विजातीयसजातीयप्रसूनानां परिमलो येन
स तम् । अस्मिन्नर्थे हेतुं प्रदर्शय नाह-अतीति । अतिसुरभेर्भावस्तता तया । एतस्मादुत्कृष्टः कोऽपि परिमली
नास्तीति भावः । पुनः किं कुर्वन्तम् । विसर्पन्तम् प्रसरन्तम् । अथ गन्धाधिक्य प्रदर्शयन्नाह --प्राणेति ।
घ्राणेन्द्रियं विकूणिकाकरणमनुलिम्पन्तमिव दृढसंबन्धं कुर्वन्तमिव । तर्पयन्तमिव तृप्तिं जनयन्तमिव । पूरयन्त-
मिव परिपूर्णीकुर्वन्तमिव । अहमिति । मिथो यो गर्वः साहमहमिका तया मधुकरकुलैर्भ्रमरसमूहैरनुबध्यमा-
नमनुरुध्यमानम् । अनाघ्रातपूर्वमनाजिघ्रितपूर्वम् । अमानुष इति । अमानुषलोको देवलोकस्तस्योचितं योग्यम् ।
अन्वयस्तु प्रागेवोक्तः । कुत इति । कस्मात्प्रदेशादयं गन्ध इत्युपारूढं प्रादुर्भूतं कुतूहलं कौतुकं
यस्याः सैवंविधाहं स्नानार्थमागतं मुनिकुमारकं तापसपुत्रमपश्यमद्राक्षमित्यन्वयः । अथैतस्था । विशेष-
णानि – मुकुलितेति । मुकुलितें कुङ्मलिते लोचने नेत्रे यस्याः सा । तेनेति । तेन पूर्वोक्तेन कुसुमगन्धेन
पुष्पामोदन मधुकरीवदवकृष्यमाणा बलात्कारेण नीयमाना । कौतुकेति । कौतुके कुतूहलेन तरला
कम्प्रा । किं कृत्वा । कतिचित्कियन्ति पदानि गत्वा । अथ पदानि विशेषयन्नाह - अभ्यधिकेति । त्वरित-
गमनादभ्यधिकतरः पूर्वस्मादतिशायी य उपजात उत्पन्नो मणिनुपुराणां रत्नखचिततुलाकोटीनां झङ्कारः शब्द-
विशेषस्तेनाकृष्टा आकर्षिताः सरः कलहंसाः कासारकादम्बा यैस्तानि । इतो मुनिकुमारं विशेषयन्नाह - हरेति ।
हरेणेश्वरेण हुताशने नेत्रसमुत्थिते वह्नाविन्धनीकृतो यो मदनः कामस्तस्य शोकः खेदस्तेन विधुरं व्या-
कुलमत एव तपस्यन्तं तपस्यां कुर्वन्तं वसन्तमिव सुरभिमासमिव । इयं च सुरभिगन्धसाम्यादुत्प्रेक्षा । अखि-
लमिति । अखिलं समग्रं यन्मण्डलं भूर्मंण्डलं षोडशकलात्मकं च तस्य प्राप्तिरुपलब्धिस्तदर्थं धृतं व्रतं
नियमो येनैवंभूतमीशानशिरःशशाङ्कमिवेश्वरोत्तमाङ्गचन्द्र मिव । रूपातिशय साम्येनाह - अयुग्मलोचनमीश्वरं
वशीकर्तुकामं सनियमं काममिव । अतीति । अतितेजो विद्यते यस्यासावतितेजस्वी तस्य भावस्तत्ता तया
प्रचला चञ्चला तडिल्लता विद्युल्लता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मध्यगतमिव । श्रीष्मेति । ग्रीष्म-
-
टिप्प० - 1 पुष्पगन्धं जनमनोहारिणमित्यर्थः । 2 अभिभूताः अन्येषां कुसुमानां परिमलाः (अति-
शोभना गन्धाः ) येन तमित्यर्थः । 3 द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिवेत्याशयः । 4 अनुगम्य-
मानमित्यर्थः । 5 हृयमुक्तिरज्ञानमूलिका । न ह्यत्र श्लेषो येनार्थद्वयम् । शिरःशशाङ्क: कलामात्रः, अत
एव स पूर्णमण्डलप्राध्यर्थ तपस्यतीवेत्युत्प्रेक्षा । अत्र मण्डलस्य एक एवार्थः प्रकृतः ।
पाठा०—१ अथैकस्मिन् २ मधुकरावकृष्यमाणा; मधुकरीवाकृष्यमाणा ३ नूपुरमणि ४ हरनयनहुताशन.
५ विधुर, ६ प्रचलिततडितापअरगतमिव ७ दिवस. ८ दिनकर.