कादम्बरी /331
This page has not been fully proofread.
२९८
कादम्बरी ।
[ कथायाम् -
मास दिवसेष्वेकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयक-
हारमिदमच्छोदं सरः ज्ञातुमभ्यपतम् । अत्र च स्नानार्थमागतया भगवत्या पार्वत्या तटशि-.
लावलेषु विलिखितानि सभृङ्गिरिटीनि पांसुनिमर्मक शपद मण्डलानुमितमुनिजनप्रणामप्रद-
क्षिणानि त्र्यम्बकप्रतिबिम्बकानि वन्दमाना, भ्रमरभरभुन्नगर्भ केसरजर्जर कुसुमोपहाररम्योऽयं
लतामण्डपः, परभृतनखकोटिपाटितकुँडालनाल विवरविगलितर्मंधुनिकरधारः सुपुष्पितोऽयं
सहकारतरुः, उम्मदमयूरकुलकलकलभीतभुजङ्गमुक्ततला शिशिरेयं चन्दनवीथिका, विकच-
कुसुमपुञ्जपातसूचितवनदेवताप्रेङ्खोलनशोभनेयं लतादोला, बहलकुसुमरजःपटलमनकल-
पद्लेखमतिरमणीयमिंद तीरतरुतलमिति स्निग्धमनोहरतरोदेशदर्शन लोभाक्षिप्तहृदया सह
सखीजनेन व्यचरम् ।
यकेषु प्रमोदजनकेषु । अन्वयस्तु प्रागेवोक्तः । अथाच्छोदं सरो विशेषयन्नाह - मध्विति । मधुमासेन
विस्तारिता विस्तारतां नीता शोभा कान्तिर्यस्मिंस्तत् । प्रोत्फुल्लेति । प्रोत्फुल्लानि विकसितानि नवानि
प्रत्यप्राणि यानि नलिनानि कमलानि, कुमुदानि कैरवाणि, कुवलयान्युत्पलानि, कहारं सौगन्धिकम्,
एतानि विद्यन्ते यस्मिंस्तत् । अत्रेति । अस्मिस्थले स्नानार्थमालवार्थमागतया प्राप्तया भगवत्या माहात्म्यवत्या
पार्वत्या गौर्या । तटेति । तटं तीरं तस्मिन् यानि शिलातलानि तेषु विलिखितान्यालेखितानि यानि त्र्यम्बकस्य
महादेवस्य प्रतिबिम्बकानि प्रतिच्छायानि तानि वन्दमाना नमस्कुर्वाणा । कीदृशानि । भृङ्गिरिटिगण विशेषरतेन
सहितानि तत्सहवर्तमानानि । पांस्विति । पांसौ सिकतासमूहे निमानि बुडितानि कृशपदमण्डलान्यस्थूलचर-
णप्रतिबिम्बानि तैरनुमितेऽनुमानविषयीकृते मुनिजनानामृषिवर्गाणां प्रणामप्रदक्षिणे नमस्कृतिपरिभ्रमणक्रिये
येषु तानि । इतीति । स्निग्धः सघनोऽत एव सच्छायो मनोहरतरोऽतिशयेन चित्तहारी य उद्देशो वनैक-
प्रदेशस्तस्य दर्शनमवलोकनं तस्य लोभस्तृष्णा तेनाक्षिप्तं हृदयं स्वान्तं यस्याः सैवंविधाहं सह सखीजनेन वय-
स्याभिः समं व्यचरमभ्रमम् । इतिशब्दार्थ व्याख्यानयन्नाह
– भ्रमरेति । भ्रमरभरेण मधुकरसमुदायेन
भुग्नो भङ्गुरो गर्भो मध्यभागो यस्यैवंभूतः । तथा केसरैः किञ्जल्कैर्जर्जरः कुसुमानां पुष्पाणामुपहारः सभू-
हस्तेन रम्यो मनोहरः । अयमित्यस्य प्रत्येकमभिसंबन्धः । लतेति । लता व्रततिस्तस्या मण्डपो जनाश्रयः ।
परेति । परभृताः कोकिलास्तेषां नखकोटया नखराग्रेण पाटितानि विदारितानि कुङ्मलानां मुकुलानां नालानि
काण्डास्तेषां विवराणि छिद्राणि तेभ्यो विगलिता विद्रुता मधुनिकरधारा रससमूहलेखा यस्मिन्नेवंभूतः सुपु-
ष्पितोऽयं सहकारतरुराम्रवृक्षः । उन्मदेति । उन्मदा मदोन्मत्ता ये मयूराः केकिनस्तेषां कुलानि सजा-
तीयसमूहास्तेषां कलकलः कोलाहलस्तेन भीतास्त्रस्ता ये भुजङ्गा भोगिनस्तैर्मुक्तं त्यक्तं तलं यस्या एतादृशी
शिशिरा शीतलें चन्दनवीथिका मलयजखण्डश्रेणी । विकचेति । विकचो विकखरो यः कुसुमानां
पुष्पाणां पुञैः समूहस्तेन सूचितं ज्ञापितं यद्वनदेवतारण्याधिष्ठात्री देवी तस्याः प्रेङ्खोलनमान्दोलनं तेन शोभना
मनोज्ञा इयं लतादोला वल्लीप्रेङ्खा । बहलेति । बहलानि बहूनि यानि कुसुमरजांसि तेषां पटलं वृन्दं
तस्मिन्मन्नानि यानि कलहंसपदानि कादम्बचरणानि तेषां लेखा वीथी यस्मिन्नेवंभूतमतिरमणीयमतिमनोहर-
मिदं तीरतरुतलं तटवृक्षाधोभागः ।
/
टिप्प० – 1 प्रतिमूर्तीिः इत्युचितम् । 2 कुसुमपुञ्जस्य यः पातस्तेन सूचितं यत् वनदेवतानां प्रेङ्खो-
लनम्, इत्यन्वयो योग्यः ।
पाठा०-१ अभ्युपगमम् ; अभ्यागमम् २ पात्रमय ३ भन. ४ जर्जरकुसुमोपहार; शाखान्तर नर्तकजर्जरकुसु-
मोपहार, ५ कुणालविवर. ६ मधुधारः ७ मयूरकलकल; सकलमयूरकलकल:. ८ चन्दनवनवीथिका.