This page has not been fully proofread.

महाश्वेताखानागमनवृत्तान्तः ]
 
पूर्वभागः ।
 
लेषु, मधुकरकुलकलङ्ककालीकृतकालेय ककुसुमकुडालेषु, अशोकतरुताडनरणितरमैणीयमणि-
नूपुरझंकारसहस्रमुखरेषु, विकसन्मुकुलपरिमलपुञ्जितालिजालम जुशिञ्जित सुभगसहकारेषु,
अविरलकुसुमधूलिवालुकापुलिनधव लितधरातलेषु, मधुमद विडम्बितमधुकेरकदम्बकसंवाह्य-
मानलतादोलेषु, उत्फुल्लपल्लवलवलीलीय यानमत्त कोकिलोल्ला सितमधुशीकरोद्दामदुर्दिनेषु, प्रोषि-
तजनजायाजी वो पहारष्टमन्मथास्फालितचापरवभयस्फुटितपथिकहृदय रुधिराकृितमार्गेषु,
अविरतपतत्कुसुमशरपतत्रिपत्रसूत्कारबधिरीकृत
दिखेषु, दिवापि प्रवृत्तमदनरागान्धाभि-
सारिकासार्थसंकुलेषु, उद्वेलरतिरससागरपूरल वितेषु, सकलजीव लोक हृदयानन्ददायकेषु मधु-
२९७
 
कलिता व्याप्ता याः कामिन्यः स्त्रियस्तासां गण्डूषसीधुलुकमद्यं तेन सेकः सिञ्चनं तेन पुलकिता रोमाञ्चिता
बकुला: केसरा येषु । इदं च बकुलतरुच्छायायां कामिनीनां मधुपानेवर्णनम् । मधुकरेति । मधुकरस्य
भ्रमरस्य कुलानि सजातीयवृन्दानि तान्येव कलङ्कोऽभिज्ञानं तेन कालीकृतानि श्यामीकृतानि कालेयकानां जाप-
कानां कुसुमानि पुष्पाणि कुङ्मलानि मुकुलानि च येषु । अशोकेति । अशोकः केलिर्यस्त रुक्षस्तस्य ताडने -
नाघातेन रणितानि शब्दितानि रमणीनां कामिनीनां मणिनूपुराणि रत्नपादकटकानि तेषां झङ्कारा अव्यक्त-
शब्दास्तेषां सहस्रेण मुखरी वाचाला येषु । विकसदिति । विकसन्ति स्मेरतां प्राप्नुवन्ति यानि मुकुलानि
गुच्छाः । पुष्पाणामिति शेषः । तेषां यः परिमल आमोदस्तेन पुञ्जिताः समूहिता येऽलयो भ्रमरास्तेषां जालं समू-
हस्तस्य मञ्जु मनोहरं यत् शिजितं शब्दितं तेन सुभगाः सुन्दरा एतादृशाः सहकारा आम्रा येषु । अविरलेति ।
अविरलानि निबिडानि यानि कुसुमानि प्रसूनानि तेषां धूलिः परागः । श्वेतत्वसाम्यात् । सैव वालुकापुलिनं
सिकताटं तेन धवलितं श्वेतीकृतं धरातलं पृथ्वीतलं येषु । मध्विति । मधु रसस्तस्य मदेन विड-
म्बिता विह्वलीकृता ये मधुकरा भ्रमरास्तेषां कदम्बकं समूहस्तेन संवाह्यमाना इतस्ततो विक्षिप्यमाणा
या लता वल्लयस्ता एव दोलाः प्रेङ्खा येषु । उत्फुल्लेति । उत्फुल्ला विजृम्भिताः पछवाः किसलयानि यासा-
मेवंविधा लवल्यो लताविशेषास्तासु लीयमाना अन्तर्धानतां प्राप्यमाणा या मत्तकोकिलाः पिकस्त्रियस्ता-
भिरुल्लासितं बहिरानीतं यन्मधु रसस्तस्य शीकराः कणास्तै रुद्दाम दुर्दिनमत्युग्रवार्दलं येषु । प्रोषितेति ।
प्रोषिता अन्यदेशे गता ये जना लोकास्तेषां जायाः स्त्रियस्तासां जीवा असुमन्तस्तेषामुपहार उपहरणं तेन
हृष्टः प्रमुदितो यो मन्मथः कंदर्पस्तेनास्फालितमास्फोटितं यच्चापं धनुस्तस्य यो रवः शब्दस्तस्माद्यद्भयं
भीतिस्तेन स्फुटितानि विभिन्नानि यानि पथिकहृदयानि पान्थजनचित्तानि तेषां रुधिरेण रक्तेनाकृतो
मार्गः पन्था येषु । अविरतेति । अविरतं निरन्तरं पतन्त उपविशन्तः कुसुमशँरेषु पुष्पकाण्डेषु । 'शरः-
काण्डतेजनयोः' इत्यनेकार्थः । एतादृशा ये पतत्रयः पक्षिणस्तेषां पत्रसूत्कारेण पक्षाव्यक्तशब्देन बधिरी-
कृतमेडीकृतं दिङ्मुखं येषु । दिवापीति । दिवसेऽपि प्रवृत्तः प्रसृतो यो मदनः कंदर्पस्तस्य रागेण तदा-
सक्त्यान्धा उत्पश्या या अभिसारिका नायिकाविशेषास्तासां सार्थः समूहस्तेन संकुलेष्वाकीर्णेषु । उद्वेलेति ।
लोयो रतिरसः शृङ्गारोऽगाधत्वसाम्यात्स एव सागरः समुद्रस्तस्य पूरः लवस्तेन प्लाविते -
ष्वाच्छादितेषु । सकलेति । सकलानां समग्राणां जीवलोकानां हृदयानि चित्तानि तेषामानन्ददा-
टिप्प० - 1 इदमज्ञानम् । 'पादाघातादशोको विलसति ० ' इत्यादिः कविसमयः । 2 दारुहरिद्वा.
वृक्षाणामित्यर्थः । 3 झंकारसहस्रेण मुखरेषु शब्दायमानेष्वित्यर्थः कर्तव्यः । 4 पुष्परसः । 5 जीवितानि ।
6 अविरतं ( कामिलक्ष्येषु) पततां कुसुमशरपत्रिणां कामदेवबाणानां यानि पत्राणि पक्षाः (पुंखा:) तेषां
सूरकारेण इत्यर्थो बोध्यः । टीकाकारस्य तु शुद्धः प्रलापः । 7 दिवसेपि प्रवृत्तो यो मदनराग इत्युचितम् ।
8 बेलामुलजय गच्छन् ( उन्मर्यादः ) ।
 
पाठा.
 
Compl
 
-१ कालेयककुडालेषु. २ ताडनारणित ३ रमणीमणि ४ असकृम्मधु. ५ मधुकरी ६ वल्ली. ७ उनम०
८ हृष्टमन्मथेषु मन्मथा. ९ रुधिरामार्गेषु किंशुक्रसमाकीर्णेषु; रुधिराईमार्गेष्विव किंशुकसमाकीर्णमार्गेषु. १० पत्रबधिरी;
पत्रफूत्कारबधिरी ११ प्रवृत्तान्त: १२ आनन्द केषु.
 
३८ का०