This page has not been fully proofread.

२९६
 
कादम्बरी ।
 
[ कथायाम्-
निखिलान्तः पुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतल-
क्षणा शोकाय केवलमनेकदुःखसहस्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया
सुतजन्मातिरिक्तेन महोत्सवेम मम जन्माभिनन्दितवान् । अवाप्ते च दशमेऽहनि कृतयथो-
चितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुर-
प्रलापिनी वीणेव गन्धर्वाणामङ्कादक संचरन्त्यविदितस्नेहशोकायासं शैशवमतिनीतवती ।
क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लब इव
कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन नवयौवनेन पदम् ।
 
अथ विजृम्भमाणनवनलिनवनेषु, अंकठोरचूतकलिकाकलापकृत कामुकोत्कलिकेषु, कोम-
लमलयमारुतावतारतरङ्गितानङ्गध्वजांशुकेषु, मदकलितकामिनीगण्डूपसीधुसेक पुलकितबकु-
विहितामतिमहतीं गरीयसीं मुदं हर्षमुपगतवती प्राप्तवती तस्य राज्ञो निखिलं समग्र यदन्तःपुरमवरोध-
स्तत्र स्वामिनी मुख्या चाभवत् । तयोश्चेति । तयोर्हसगौर्योर्महात्मनोरहमीदृश्येकात्मजैका पुत्री केवलं
शोकाय समुत्पन्ना । कीदृशी । विगतानि दूरीभूतानि लक्षणानि श्रेयोजनकानि मषीतिलकादीनि यस्याः सा
तथा । पुनस्तामेव विशेषयन्नाह — अनेकेति । अनेकानि विविधानि यानि दुःखानि कष्टानि तेषां सह-
स्राणि तेषां भाजनं पात्रम् । आविष्टलिङ्गत्वात् 'वेदाः प्रमाणम्' इतिवन्नपुंसकत्वम् । तातस्त्विति । तातः
पितानपत्यतयाऽसंतानत्वेन सुतजन्मातिरिक्तेन पुत्रजन्माधिकेन महोत्सवेन महामहेन मम जन्म मज्जन्मा-
भिनन्दितवानतिस्तुतवान् । अवाप्तेति । अवाप्ते प्राप्ते दशमेऽहनि दिने । कृत इति । कृतो विहितो यथो-
चितो यथायोग्यः समाचारो वेदोक्तक्रियाकलापो येन सः । महाश्वेतवर्णत्वान्महाश्वेतेति यथार्थमेव नाम
कृतवान् । सेति । साहं पितृभवने जनकसद्मनि बालतया शिशुत्वेन कलमधुरप्रेलापिनी कलं मनोज्ञं मधुरं
मिष्टं प्रलपतीत्येवंशीला सा तथा केवलं वीणेव वल्लकीव गन्धर्वाणां देवगायनानामङ्कादक क्रोडात्कोडं संच -
रन्ती गच्छन्ती । अवीति । अविदितोऽज्ञातः स्नेहः प्रीतिः, शोकः शुक्, तयोरायासः प्रयासो येनैवंविधं
शैशवं बाल्य मतिनीतवत्यतिक्रान्तवती । तदनन्तरं मे मम वपुषि शरीरे नवयौवनेन प्रत्यग्रतारुण्येन पदं स्थानं
कृतं विहितम् । कस्मिन्क इव । वसन्ते पुष्पकाले मधुमासेनेवँ चैत्रेणेव । तथा मधुमासे नवपल्लवेनेव प्रत्यप्रकि-
सलयेनेव । तथा नवपल्लवे कुसुमेनेव प्रसूनेनेव । तथा कुसुमे मधुकरेणेव भ्रमरेणेव । तथा मधुकरे मदेनेव ।
 
अथेत्यानन्तर्ये । एकदेति । एकस्मिन्समयेऽहं मधुमास दिवसेषु वसन्तवासरेष्वम्बया मात्रा सहेदम-
च्छोदं सरः स्नातुमभ्यपतमगच्छमिति दूरेणान्वयः । अथ मधुमासदिवसान्विशेषयन्नाह - विजृम्भेति ।
विजृम्भमाणानि विकासमानानि नवनलिनवनानि प्रत्यग्रपद्मखण्डानि येषु । अकठोरेति । अकठोराः
सुकुमारा याश्वतकलिका आम्रकोरकास्तासां कलापः समूहस्तेन कृता विहिता कामुकानां कामि-
• जनानामुत्कलिकोत्कण्ठा येषु । उद्दीपकत्वादिति भावः । कोमलेति । कोमलो मृदुर्यो मलयमारुतो
मलयानिलस्तस्यावतार इतस्ततः प्रसरणं तेन तरङ्गितानि भङ्गितान्यनङ्गध्वजांशुकानि मदनवैजयन्तीवसनानि
येषु । मलयमारुतस्योद्दीपकत्वात् अनङ्गध्वजकम्पनेनानङ्गस्य प्रोत्साहनं सूचितम् । मदेति । मदेनाहंकारेण
 
टिप्प० - 1 'वीणेव कलमधुरप्रलापिनी अङ्कादक संचरन्ती' इति उभयत्र युज्यते । कलमस्फुटं मधुरं
च भालपति वीणेति वीणापक्षे । 2 'अविदितस्त्रेहशोकायासमनोहरम्' इत्येव पाठः । अविदितैः स्नेहशो-
कायासैः मनोहरमिति तदर्थः । एतज्जनितव्याकुलताभावात्सुन्दरमित्याशयः। 3 मालोपमैकावल्योः संयो-
गेन नवीन इवालंकारः । सरस्वतीकण्ठाभरणमते तु रशनोपमा । 4 तरङ्गवत्प्रस्फुरितानि 'फहराना' ।
 
पाठा० -१ महात्मनोमैहता केशेनाभिलाषेण कालेन च केवलम्. २ विगललक्ष. ३ एकैव; अहमेकैव,
४ मज्जन्म. ५ शोकायासमनोहरम् ६ अतीतवती, ७ जृम्भमाण, ८ अनेकचूत, ९ काम्युत्कलिकेषु.