This page has not been fully proofread.

महाश्वेताजन्म ]
 
पूर्वभागः ।
 
२९५
 
"
 
नाम्नि वर्षे वर्ष पर्वतो हेमकूटो नाम निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्ध-
र्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम् इदं
चाच्छोदाभिधानमतिमहत्सरः खानितम्, अयं च भवानीपतिरुपरचितो भगवान् । अरि-
टायास्तु पुत्रस्तस्मिद्वितीये गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्य-
पदमासादितवान् । अपरिमितगन्धर्वबल परिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु
तत्सोमँपीयूषसंभूतानामप्सरसां कुलम्, तस्मात्किरणजलानुसारगलितेन सकलेनेव रजनिकर-
कलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी 'गौरीति
नाम्ना हिमकिरणकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयकुलाधिपतिर्हंसो मन्दा-
किनीमिव क्षीरसागरः प्रणयिनीमकरोत् । सा तु भगवता मकरकेतनेनेव रतिः, शरत्सम -
येनेव कमलिनी, हंसेन संयोजिता सहशसमागमोपजनितामतिमहतीं मुदमुपगतवती
 
,
 
रुषाभिधाने वर्षे क्षेत्रे वर्षपर्वतः क्षेत्रसीमाकृनगो हेमकूटो नाम हेमकूटाभिधानो निवासो वसति-
स्थलं वर्तते । तत्र चेति । तस्मिन्पर्वते । तदिति । तस्य चित्ररथस्य भुजयुगं बाहुयुगं तेन परिपालि-
तानि रक्षितान्यनेकानि गन्धर्वशतसहस्राण्यनेकलक्षाणि प्रतिवसन्ति । तस्योत्कर्षमाह - तेनैवेति । तेनैव
राज्ञा चित्ररथेनेदं चैत्ररथं नामातिमनोहरमतिरमणीयं काननं वनं निर्मितं निष्पादितम् । इदमच्छोदाभि-
धानमतिमहत्सरः खानितं निर्मापितम् । स्थावराभिप्रायेणाह-अयं चेति । अयं प्रत्यक्षो भगवान्भवानीपति-
रीश्वर उपरचितो निर्मितः । अथ चारिष्टायाः पुत्रः सुतः । तु पुनरर्थकः । तस्मिद्वितीये गन्धर्वकुले गन्धर्व-
राजेनैव चित्ररथेनैवाभिषिक्तो राज्याभिषेकविषयीकृतः । अत एव बाल एव शिशुरेव राज्यपदमाधिपत्य-
स्थलमासादितवान्प्राप्तवान् । अपेति । अपरिमितमसंख्यं यद्गन्धर्वकुलं तदेव परिवारः परिच्छदो यस्य स
तथा तस्यापि स एव हेमकूटाभिधानो गिरिः पर्वतोऽधिवासो निवासस्थलम् । यत्त्विति । तस्मिन्पर्वते
सोमपीयूषसंभूतानामप्सरसां कुलं तस्मात्कुलात् । किरणेति । किरणजैलममृतं तस्यानुसारोऽनुसरणं तेन
गलितेन विलीनेन सकलेन समग्रेण । रजनीति । रजनिकरस्य चन्द्रस्य कलाकलापस्तस्य लावण्येनेवा.
न्तर्गतसारेणेव निर्मिता रचिता । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य नयनानि लोचनानि तेषामभिरामा
मनोहरा भगवती माहात्म्यवती द्वितीयेव गौरी गौरीति नाम्ना । हिमेति । हिमकिरणस्य किरणा रश्मय-
स्तद्वदवदातो निर्मलो वर्णो देहच्छविर्यस्याः सैवंविधा कन्यका प्रसूता जनिता । तां चेति । तां गौरीं
द्वितीयकुलाधिपतिर्हंसो मन्दाकिनीं स्वर्धुनीं क्षीरसागर इव प्रणयिनीं वल्लभामकरोत् । सा त्विति । सा
गौरी भगवता मकरकेतनेन कंदर्पेण रतिरिव । शरत्समयेन घनात्ययकालेन कमलिनीव । एवं हंसेन
गन्धर्वाधिपतिना संयोजिता संबन्धं प्रापिता । सहशेति । सदृश उचितो यः समागमः संबन्धः उपजनितां
 
टिप्प० - 1 टीकाकारेण अत्रापि खण्डवाक्यं विलोप्य ग्रन्थो दुरूहो विरूपश्च कृतः । अत एव 'अरि-
ष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणा' मित्यादिपाठं नीचैर्ऋतं संयोज्य ग्रन्थः पूरणीयः पाठकैः । 2 सोमम-
यूख (किरण ) संभूतानामित्येव पाठः । 3 'किरणजालस्य (समूहस्य ) अनुसारेण' इत्येव पाठः। 4 निर्झ-
रितेन ( निष्पतितेन ) । 5 'हिमकरकिरणावदातवर्णा' इत्येव ग्रन्थोचितान्यक्षराणि । 6 अत्र वाक्यभे-
दोषि टीकाकारस्य जाड्यम् । हंसेन सह संयोजिता (विधात्रा ) सती सदृशसमागमोपजनितां मुदमुपग-
तवतीत्यादिः एको वाक्यार्थः । प्रमाणं चात्र सहृदयहृदयम् । 7 तेन उपजनिताम् ।
 
पाठा० -१ युगल. २ इदम् ३ निखानितम् ४ पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्ठो ( शेषो; श्रेष्ठो;
हंसोनाम जगद्विदितो गन्धर्वस्तस्मिन् ). ५ कुले द्वितीयेऽस्मिन् ६ परिचारकस्यास्यापि ७ सोममयूखसंभवमप्सरसाम्.
८ जाल, ९ अनुकरण, १० गौरीपति, ११ हिमकर; रजनिकर. १२ द्वितीयगन्धर्व. १३ केतुनेव.