कादम्बरी /327
This page has not been fully proofread.
२९४
कादम्बरी ।
[ कथायाम्-
9
कन्यकाः सन्तीति । तासां चतुर्दश कुलानि - एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्,
अन्यद्वेदेभ्यः संभूतम्, अन्यदेमेरुद्भूतम्, अन्यत्पवनात्प्रसूतम्, अन्यदमृतान्मध्यमानादु-
त्थितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत्सोमरश्मिभ्यो निपति-
तम्, अन्यद्भूमेरुद्भूतम्, अन्यत्सौदामिनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम् अपरं
मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यैकानां मध्ये द्वे सुते
मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् एवमेतान्येकत्र चतुर्दश
कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातम् । अत्र मुनेस्तनयानां
सेनादीनां पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्ररथो नाम समुत्पन्नः । स किल
त्रिभुवनप्रख्यातपराक्रमो भगवता समस्तसुरमौलिमालालालितचरणन लिनेनाखण्डलेन सुहृ-
च्छब्देनोपबृंहितप्रभावः सर्वेषां गन्धर्वाणामाधिपत्यमसिलतामरीचिनिचयमेचकितेन बाहुना
समुपार्जितं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्वारतवर्षादुत्तरेणानन्तरे किंपुरुष-
.9
कन्यकानां चतुर्दश कुलानि । तत्रैकं कमलयोनेर्भगवतो विधातुर्ब्रह्मणो मनसः स्वान्तात्समुत्पन्नं संजातम् ।
अन्यद्वितीयं वेदेभ्यः श्रुतिभ्यः संभूतमुत्पन्नम् । अन्यत्तृतीयम मेर्विभावसोरुद्भूतं प्रकटितम् । अन्यच्चतुर्थ
पवनाद्वायोः प्रसूतं जनितम् । अन्यत्पञ्चमममृताज्जलान्मथ्यमानाद्विलोड्यमानादुत्थितं प्रादुर्भूतम् । अन्य-
कुलमर्ककिरणेभ्यः
निर्गतं बहिरागतम् ।
षष्ठं
सूर्यदीधितिभ्यो
जलाज्जातम् । अन्यत्सप्तमं
अन्यदष्टमं सोमः कुमुदबान्धवस्तस्य रश्मिभ्यः किरणेभ्यो निपतितं च्युतम् । अन्यन्नवमं कुलं पृथिव्या
वसुंधराया उद्भूतं प्रकटितम् । अन्यद्दशमं सौदामिनीभ्यो हादिनीभ्यः प्रवृत्तं प्रवर्तितम् । अन्यदेकादशं
कुलं मृत्युना यमेन निर्मितं रचितम् । अपरमन्यद्वादशं मकरकेतुना मनोभवेन समुत्पादितम् ।
अन्यत्त्विति । दक्षस्य प्रजापतेरतिप्रभूतानाम तिबह्वीनां कन्यकानामात्मजानां मध्ये द्वे सुते द्वे कन्यके
मुनिररिष्टा च बभूवतुर्जज्ञाते । ताभ्यां कन्यकाभ्यां गन्धवैर्देवगायनैः सह कुलद्वयं जातम् । एवमिति
पूर्वोक्तप्रकारेण । एकत्रेति । एकन्मिन्प्रदेश एतानि चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितय सं
भवं तदेव पूर्वोक्तमेव कुलद्वयम् । नाभिकमित्यर्थः । अत्रेति । अस्मिन्नेव प्रदेशे मुनेर्दक्षजात्मजायाः
सेनादीनां पञ्चदशानां भ्रातॄणां मध्ये गुणैः शौर्यादिभिरधिकः षोडशश्चित्ररथो नाम तनयः समुत्पन्नः ।
स इति । किलेति सत्ये । स चित्ररथस्त्रिभुवने त्रिविष्टपे प्रख्यातः प्रसिद्धः पराक्रमः शौर्यवृत्तिर्यस्य सः ।
भगवतेति । भगवता माहात्म्यवता । समस्तति । समस्ताः समग्रा ये सुरा देवास्तेषां मौलिमालाः
किरीटपतयस्ताभिर्लालितं पालितं चरणनलिनं पादपद्मं यस्य स तेन एवंविधेनाखण्ड लेनेन्द्रेण सुहृच्छ-
ब्देन मित्रशब्देनोपबृंहितः श्लाघाविषयीकृतः प्रभावः कोशदण्डजं तेजो यस्य स तथा । सर्वेषामिति ।
सर्वेषां समग्राणां गन्धर्वाणां देवगायनानां शैशवे बाल्य एवाधिपत्यं प्रभुत्वमाप्तवान्प्राप्तवान् । कीदृशमाधि-
पत्यम् । समुपार्जितमर्जितम् । केन । बाहुना भुजेन । अथ बाहुं विशेषयन्नाह
— असीति । असिलता
खगलता तस्या मरीचिनिचयः कान्तिसमूहस्तेन मेचकितेन श्यामलितेन । इतश्चेति । अर्थान्तरे । अस्मा-
त्स्थानान्नातिदूरे नातिदविष्ठे तस्य राज्ञोऽस्माद्भारतवर्षाद्भरतक्षेत्रादुत्तरेणानन्तरेऽत्यासन्ने किंपुरुषनाम्नि किंपु-
G
टिप्प० – 1 मध्यमानावस्थायाममृताजातमित्यर्थः । जलादित्युक्तेः पौनरुक्त्यम् । 2 चित्रसेनादीना-
मित्येव पाठः । टीकाकारस्य तु यद् यद् गर्हितं तत्तत्सर्वमनुकूलमित्याभाति । 3 सादरं परामृष्टमित्यर्थः ।
पाठा० -१ सन्ति २ व ३ निष्पतितम ४ सुतानाम् ५ दौ सुतौ ६ तत्र, ७ चित्रसेनादीनाम्.
८ सकलत्रिभुवन: ९ अरविन्दजेन.