कादम्बरी /326
This page has not been fully proofread.
महाश्वेताया वृत्तान्तः ]
पूर्वभागः ।
२९३
तापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदमपरमधिकतरं जनितमतिमहन्मनसि मे कौतुक-
मस्या बाष्पसलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न
हि क्षुद्रनिर्घातपाताभिहता चलति वसुधा' इति । संवर्धित कुतूहलश्च शोकस्मरणहेतुतामुपगत-
मपराधिनमिवात्मानमवगच्छन्नुत्थाय प्रस्रवणाद जलिना मुखप्रक्षालनोदकमुपनिये । सा तु
तदनुरोधादै विच्छिन्न बाष्पजलधारासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने वल्कलो-
पान्तेन वदनमपमृज्य दीर्घमुष्णं च निःश्वस्य शनैः शनैः प्रत्यवादीत्-
'राजपुत्र, किमनेनातिनिघृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति
"वैराग्य वृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलं तत्कथयामि । श्रूयताम्
एत
त्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव यथा विबुधसद्मन्यैप्सरसेना नाम
4
कंचन शरीरधर्माण नन स्पृशन्ति न नाश्लिषन्ति । 'द्वौ नौ प्रकृतमर्थं सूचयतः' इति न्यायानिकार
प्रयोगः । बलेति । हि निश्चितम् । द्वंद्वानां सुखदुःखानां प्रवृत्तिः प्रवर्तनं बलवती बलिष्टा । इदमिति ।
मे मम मनसि चित्त इदमपरमन्यदधिकतरं महत्कौतुकमाश्चर्य जनितमुत्पादितमस्याः कन्यकाया बाष्पसलि-
लमश्रुजलं तस्य पातेन पतनेन । जितेन्द्रियग्रामाया अस्या अश्रुपतनमेव महदाश्चर्यमिति भावः । ननु
स्वल्पमेव शोककारणमित्याह - न हीति । हीति निश्चितम् । अल्पीयसा कनीयसा शोककारणेन खेद-
निमित्तेनैवंविधा अनिर्वचनीयस्वरूपा मूर्तयः शरीराणि न क्षेत्रीक्रियन्ते नाश्रयी क्रियन्ते । अत्रैव हेतुमाह -
न हीति । क्षुद्रस्तुच्छो यो निर्धातः प्रहारस्तस्य पातः पतनं तेनाभिहता ताडिता वसुधा पृथ्वी । हीति
निश्चितम् । न चलतिन कम्पते । संवर्धितमिति । संवर्धितं वृद्धिं प्राप्तं कुतूहलं कौतुकं यस्यैवं भूतो हं
शोकस्य खेदस्य स्मरणं स्मृतिस्तस्य हेतुतां निमित्ततामुपगतं प्राप्तमत एवापराधिनं सागसमात्मानमवगच्छ-
निव जानन्निवोत्थाय प्रस्रवणान्निर्झरान्मुखप्रक्षालनाय वदनशुद्ध्यर्थमुदकं पानीयमजलिना पाणिपुटेनोपनिन्य
आनीतवात् । सात्विति । सा कन्यका । तु पुनरर्थकः । तस्य चन्द्रापीडस्यानुरोधादाग्रहात् । अवि
च्छिन्नेति । अविच्छिन्नमत्रुटितं बाष्पजलधारासंतान मश्रुपानीयधारा समूहं यस्या एवंविधापि किंचित्कंषा-
यितं कषायगुणयुक्तमुदरं मध्यं ययोरेवंभूते लोचने नेत्रे प्रक्षाल्य धावनं कृत्वा वल्कलोपान्तेन चोचाञ्चलेन
वदनं मुखमपमृज्य मार्जनं कृत्वा दीर्घमायतमुष्णं तप्तं च निःश्वस्य शनैः शनैर्मन्दं मन्दं प्रत्यवादीत्प्रत्यवोचत् ।
राजेति । हे राजपुत्र, अतिनिर्घृण निर्दयं हृदयं स्वान्तं यस्या एवंविधाया मन्दभाग्यायाः क्षीणभागधे-
यायाः पापायाः पापिष्टाया जन्मनः प्रभृत्युत्पत्तेरारभ्याश्रवणीयेनाकर्णनानर्हेण वैराग्यवृत्तान्तेन विरक्ततोद-
न्तेन किमनेन श्रुतेनाकर्णितेन । तथापीति । एवंसत्यपि फलाभावे विद्यमानेऽपि यदि महत्कुतूहलं मह-
दाश्चर्य तत्तर्हि कथयामि ब्रुवे । प्रायेण बाहुल्येन कल्याणे श्रेयस्यभिनिविशर्ते इत्येवंशीलं नोऽस्माकं
श्रुतिविषयं कर्णगोचरमापतितमागतम् । कुलपरम्परया श्रुतमित्यर्थः । एतदेव श्रूयतामाकर्ण्यताम् ।
यथेति । विबुधमन किंनरगृहेऽप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्ति । तासां
टिप्प० – 1 प्रलाप एवायम् । संवर्धित कौतूहलः स इत्यर्थः । 2 अश्रुवर्षणात् किञ्चित् रक्तम्
आविलं वा मध्यं ययोस्ते इत्यर्थ उचितः । 3 हा हन्त ईदृशोपि टीकाघार्थ्यमाचरति ! – कल्याणे अभि-
निवेश: (आग्रहो) यस्य, ईडशस्य भवतः श्रुतिविषयं कर्णगोचरमागतमेव यद् विबुधसमनि स्वर्गे 'अप्स-
रसो' नाम कन्यकाः (अविवाहितत्वात् ) सन्तीति पाठः । टीकाकारस्य पाठो व्याख्यानं च प्रलापमात्रम् ।
पाठा० -१ महन्मम मनसि कौतुकम्; उपजनित मतिमहन्मनसि मे कौतुक. १ कुतूहलवास्याः ३ अवच्छिन,
४ शनैः ५ निठुर, ६ जन्मतः ७ अप्सरसो,